| YouTube Channel

वृहू (vRhU)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वृह्
मूलधातुः:
वृहू
धात्वर्थः:
उद्यमने
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
परस्मैपदी
रूपम्:
वृहति
धातुप्रदीपः
Sanskrit
वृहूँ वृहू उद्यमे
- वृहति वर्हिता वर्ढा वर्हिष्यति वर्क्ष्यति अवर्हीत् अवृक्षत् वरीवृह्यते विवर्हिषति विवृक्षति वर्हितुम् वर्ढुम् वृढः वर्हित्वा वृढ्वा 66
धातुवृत्तिः
Sanskrit
वृहूँ वृहू (अर्थः) उद्यमने
दन्त्योष्ठ्यादिरयम् तथा हि "मूलमस्या बर्हि'' "सक्थ्या बृहन्मा मे बलं विवृहत' इति प्रयुज्यते अन्ये तु बकरादिं पठन्ति (वृहति ववर्ह ववृहतुः ववर्हिथ ववर्ढ ) ऊदित्वादिड्विकल्पः झलि "हो ढः'' "झषस्तथोर्धो धः'' "ष्टुना ष्टुः'' "ढोढे लोपः'' ( वर्हिता वर्ढा वर्हिष्यति वर्क्ष्यति) "षढोः कस्सि'' इति कत्वम्, ( वृहतु अवृहत् वृह्यात् अवर्हीत् अवर्हिष्टाम् ) अनिट्पक्ष"शल इगुपधाद्'' इति क्सः ( अवृक्षत् अवृक्षताम् विवर्हिषति विवृक्षति ) "हलन्ताच्च'' इति कित्वान्न गुणः ( वरीवृह्यते वरीवर्ढि, ) इत्यादि ( वर्हयति अवीवृहत् अववर्हत् ) उरृद्वा ( वर्हित्वा वृड्ढ्वा ) "न क्त्वा सेट्'' इत्यकित्त्वमिटि ( वृढः वृढवान् ) "यस्य विभाषा'' इत्यानिट् "ढ्रलोप'' इति दीर्घः पूर्वाण इत्यत्र भवति ( वहति ) वृंहतीति वृद्धौ शपि वर्हतइति तत्रैव प्राधान्ये त्रय एते ओष्ठ्यादयः 66
कृदन्तरूपमाला
Sanskrit
1 {@“वृहू उद्यमने”@} 2 ‘उद्यमः = उद्धरणम्’ इति क्षीरस्वामी।
दन्त्योष्ठ्यादिः इति सर्वे।
केचित् ‘बृहू पवर्गादिः’ इति।
क्षीरतरङ्गिण्यामपि ‘बृहू’ इत्येव दृश्यते।
वर्हकः-र्हिका, वर्हकः-र्हिका, विवर्हिषकः- 3 विवृक्षकः-क्षिका, वरीवृहकः-हिका
वर्हिता-त्री, वर्हयिता-त्री, विवर्हिषिता-त्री, विवृक्षिता-त्री, वरीवृहिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकदर्हतिवत् 4 ज्ञेयानि।
5 वृढः-वृढवान्, 6 वर्हित्वा-वृढ्वा इमानि रूपाण्यधिकान्यत्रेति विशेषः।
‘वृहु’ इति उदित्पक्षे क्त्वायामेवेड्विकल्पः इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६३७)
02
=>
(६-तुदादिः-१३४७। अक। वेट्। पर।)
03
=>
[[३। ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति वलादेरार्द्धधातुकस्य विकल्पेन इडागमः। तेन सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वान्न गुणः।]]
04
=>
(८६८)
05
=>
[[४। निष्ठायाम् ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधः।]]
06
=>
[[५। क्त्वायाम् ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः। इड्विकल्पात् रूपद्वयं ज्ञेयम्।]]