वृहस्पतिः (vRhaspatiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiवृहस्पतिः
- वृहतः वाचः पतिः-पारस्करादि*
देवों के गुरु
वृहस्पतिः
- -
बृहस्पति ग्रह
वृहस्पतिः
- -
एक स्मृतिकार का नाम
शब्दकल्पद्रुमः
Sanskritवृ(बृ)हस्पतिः, (वृहतां वाचां पतिः । “पार-स्करेति ।” ६ । १ । १५७ । इति सुट् निपात्यते ।)अङ्गिरसः पुत्त्रः । स च देवानां गुरुः धर्म्मशास्त्र-प्रयोजकः नवग्रहमध्ये पञ्चमग्रहश्च । तत्-पर्य्यायः । सुराचार्य्यः २ गीष्पतिः ३ धिषणः ४गुरुः ५ जीवः ६ आङ्गिरसः ७ वाचस्पतिः ८चित्रशिखण्डिजः ९ । इत्यमरः ॥
उतथ्या-नुजः १० गोविन्दः ११ चारुः १२ द्बादश-रश्मिः १३ गिरीशः १४ दिदिवः १५ पूर्व्व-फल्गुनीभवः १६ । इति जटाधरः ॥
सुरगुरुः१७ वाक्पतिः १८ वचसांपतिः १९ इन्द्रेज्यः २०देवेज्यः २१ वृहताम्पतिः २२ इज्यः २३वागीशः २४ चक्षाः २५ दीदिविः २६ द्बादश-करः २७ प्राक्फाल्गुनः २८ गीरथः २९ ।इति शब्दरत्नावली ॥
स च पीतवर्णः । ईशान-कोणपुरुषब्राह्मणजातिऋग् वेदसत्त्वगुण-मधुर-रसधनुर्मीनराशिपुष्यनक्षत्रवस्त्रपुष्परागमणि-सिन्धुदेशानां अधिपतिः । षडङ्गुलशरीरः ।पद्मस्थः । चतुर्भुजः । अक्षवरकमण्डलुदण्डधारी ।अस्याधिदेवता ब्रह्मा । प्रत्यधिदेवता इन्द्रः । सतु सूर्य्यास्यः । अङ्गिरोमुनिपुत्त्रः । प्रातःकालेप्रबलः । शुभग्रहः । देवगृहस्वामी । वृद्धः ।रक्तद्रव्यस्वामी । वातपित्तकफात्मकः । बणिक्-कर्म्मकर्त्ता । अङ्गिरोगोत्रः । इति ग्रहयाग-तत्त्वादयः ॥
* ॥
तद्वारजातफलम् ।“नृपेन्द्रमन्त्री नृपलब्धकामोविद्याविनोदो चतुरः प्रगल्भः ।आचार्य्यपूज्यो मधुरस्वभावोवारे भवेद्देवगुरोर्मनुष्यः ॥
”इति कोष्ठीप्रदीपः ॥
* ॥
स च शिवस्य गुरुपुत्त्रः यथा, --महेन्द्र उवाच ।“कथं वा देवकर्त्तुश्च सिद्धानां योगिनां गुरोः ।मृत्युञ्जयस्य शम्भोश्च गुरुपुत्त्रो बृहस्पतिः ।ततो ज्ञानी महादेवः कथं शिष्यो गुरोः पितुः ॥
ब्रह्मोवाच ।कथेयमतिगुप्ता च पुराणेषु पुरन्दर ।इमां पुरा प्रवृत्तिञ्च कथयामि निशामय ॥
मृतवत्सा कर्म्मदोषाद्भार्य्या अङ्गिरसः पुरा ।व्रतं चकार मद्बाक्यात् कृष्णस्य परमात्मनः ॥
व्रतं पुंसवनं नाम वर्षमेकं चकार सा ।सनत्कुमारो भगवान् कारयामास तां व्रतम् ॥
स्वेच्छामयः परं ब्रह्म भक्तानुग्रहवग्रहः ।तदागत्य च गोलोकात् परमात्मा कृपामयः ॥
स व्रतानशनक्षीणां तामुवाच कृपानिधिः ।प्रणतां साश्रुनेत्राञ्च विनीताञ्च तया स्तुतः ॥
श्रीकृष्ण उवाच ।गृहाणेदं यज्ञफलं मम तेजःसमन्वितम् ।भुङ्क्ष्व मद्वरपुत्त्रस्ते भविष्यति मदंशतः ॥
पतिर्गुरुश्च देवानां वृहतां ज्ञानिनां वरः ।पुत्त्रस्ते भविता साध्वि ! मद्वरेण भविष्यति ॥
मद्वरेण भवेद्यो हि स च मद्वरपुत्त्रकः ।त्वद्गर्भे मम पुत्त्रोऽयं चिरजीवी भविष्यति ॥
वरजो वीर्य्यजश्चैव क्षेत्रजः पालकस्तथा ।विद्यामन्त्रसुतानाञ्च गृहीतः सप्तमः सुतः ॥
इत्युक्त्वा राधिकानाथः स्वर्लोकञ्च ययौ पुरा ।श्रीकृष्णवरपुत्त्रोऽयं ज्ञानी सुरगुरुः स्वयम् ॥
मृत्युञ्जयं महाज्ञानं शिवाय प्रददौ पुरा ।दिव्यं वर्षत्रिलक्षञ्च तपःकर्त्रे हिमालये ॥
सुयोगज्ञानममलं तेजः स्वात्मा समं परम् ।स्वशक्तिविष्णुमायाञ्च स्वांशञ्च वाहनं वृषम् ॥
स्वशूलञ्च स्वकवचं स्वमन्त्रं द्वादशाक्षरम् ।कृपामयः स्तुतस्तेन श्रीकृष्णश्च परात्परः ॥
शिवलोके शिवा सा च विष्णुमाया शिव-प्रिया ।शक्तिर्नारायणस्येयं तेन नारायणी स्मृता ॥
तेजःसु सर्व्वदेवानां साविर्भूता सनातनी ।जघान दैत्यनिकरं देवेभ्यः प्रददौ पदम् ॥
कल्पान्ते दक्षकन्या च सा मूलप्रकृतिः सती ।पितृयज्ञे तनुं त्यक्त्वा योगेन सिद्धयोगिनी ॥
बमूव शैलकन्या सा साध्वी च भर्त्तृनिन्दया ।कालेन कृष्णतपसा शङ्करं प्राप शङ्करी ॥
श्रीकृष्णो हि गुरुः शम्भोः परमात्मा परात्परः ।कृष्णस्य वरपुत्त्रोऽयं स्वयमेव वृहस्पतिः ।अतो हेतोः सुरगुरुर्गुरुपुत्त्रः शिवस्य च ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्यायः ॥
(पुरोहितः । मन्त्रपालके तु त्रि । यथा, ऋग्वेदे ।४ । ५० । ७ ।“वृहस्पतिं यः सुभृतं बिभर्त्ति ॥
”“वृहस्पतिं वृहतां महतां मन्त्राणां पालयितारंदेवं उक्तलक्षणं पुरोहितं वा ।” इति तद्भाष्येसायणः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
