| YouTube Channel

वृहस्पति (vRhaspati)

 
शब्दसागरः
English
वृहस्पति
m.
(-तिः)
1. The regent of the planet JUPITER, identified astro-
nomically with the plant: in Mythology, he is the son of ĀNGI-
RAS, and preceptor of the gods.
2. The name of a saint and law-
giver.
E.
वृहत् great, illustrious, (as the deities, ) and पति master or
Guru, सुट् augment, and the final of the first member rejected
it
also occasionally occurs वृहत्तांपति
or वृहत्याः वाचः पतिः पृषो० नि०
Yates
English
वृह-स्पति (तिः) 2.
m.
The regent of the
planet Jupiter
name of a sage.
Wilson
English
वृहस्पति
m.
(-तिः) The regent of the planet JUPITER, identified
astronomically with the planet
in Mythology, he is the son of AṄGIRAS, and
preceptor of the gods.
2 The name of a saint and law-giver.
E.
वृहत् great, illustrious, (as the deities, ) and पति master or
Guru, सुट् augment, and the final of the first member rejected
it also
occasionally occurs वृहतांपति.
Apte
English
वृहस्पति [vṛhaspati], See बृहस्पति.
Apte 1890
English
वृहस्पति See बृहस्पति.
Monier Williams 1872
English
वृहस्-पति, इस्, m. (in the earlier language more
usually written बृहस्-पति, q. v.
fr. वृहस्, gen.
of 3. वृह् + पति), ‘lord of increase, N. of the
regent of the planet Jupiter and preceptor or Puro-
hita of the gods, (in astronomy identified with the
planet
he is regarded as the son of Aṅgiras and,
like Sarasvatī, presides over speech
Tārā, who is
fabled to have been carried off by Candra, is repre-
sented as his wife
he is sometimes identified with
Vyāsa
in the Veda his character and functions are
somewhat different, and his name is there usually
written Bṛhas-pati, q. v.)
N. of a saint and law-
giver, (sometimes written वृहसाम्-पति)
N. of a
philosopher
of a king (a great-grandson of Aśoka)
of a king of Kaśmīra.
—वृहस्पति-चक्र, अम्, n.
‘cycle of Vṛhas-pati, the Hindū cycle of sixty years
a particular astrological diagram (shaped like a man and
used for foretelling good or bad fortune).
—वृहस्पति-
चार, N. of the eighth Adhyāya of Varāha-mihira's
Vṛhat-saṃhitā.
—वृहस्पति-दत्त, अस्, m. a proper
N.
—वृहस्पति-मिश्र, अस्, m., N. of a commen-
tator on the Raghu-vaṃśa.
—वृहस्पति-वार, अस्,
m. ‘Vṛhas-pati's day, Jupiter's day, Thursday.
—वृ-
हस्पति-शान्ति, इस्, f., N. of a work.
—वृहस्पति-
संहिता, f., N. of a short law-book (ascribed to
Vṛhas-pati).
—वृहस्पति-सम, अस्, आ, अम्, equal
to Vṛhas-pati, like Vṛhas-pati.
—वृहस्पति-सव,
अस्, m., N. of a particular festival or ceremony, (see
बृहस्पति-सव।)
—वृहस्पतिसव-प्रयोग, अस्,
m., N. of a treatise on the performance of the Vṛhas-
pati-sava ceremony.
—वृहस्पति-सुरता, f. a proper
N.
—वृहस्पति-स्मृति, इस्, f. Vṛhas-pati's law-book
(said to be classed among the Tāmasa works).
Benfey
English
वृहस्पति वृहस्पति, see बृहस्पति।
Apte Hindi
Hindi
वृहस्पतिः
पुं*
- वृहतः वाचः पतिः-पारस्करादि*
देवों के गुरु
वृहस्पतिः
पुं*
- -
बृहस्पति ग्रह
वृहस्पतिः
पुं*
- -
एक स्मृतिकार का नाम
L R Vaidya
English
vfhaspati {% m. %} The same as बृहस्पति q.v.
Bopp
Latin
वृहस्पति m. (e वृहस्, quod seorsum non invenitur et
magnitudinem significare videtur, a वृह् crescere suff.
अस्, et पति dominus) Vrihaspatis, Angirasi filius,
deorum magister, etiam planeta Jupiter vel ejus domi-
nator. SA. 2. 15. BH. 10. 24.
शब्दकल्पद्रुमः
Sanskrit
वृ(बृ)हस्पतिः,
पुं,
(वृहतां वाचां पतिः “पार-स्करेति ।” १५७ इति सुट् निपात्यते ।)अङ्गिरसः पुत्त्रः देवानां गुरुः धर्म्मशास्त्र-प्रयोजकः नवग्रहमध्ये पञ्चमग्रहश्च तत्-पर्य्यायः सुराचार्य्यः गीष्पतिः धिषणः ४गुरुः जीवः आङ्गिरसः वाचस्पतिः ८चित्रशिखण्डिजः इत्यमरः
उतथ्या-नुजः १० गोविन्दः ११ चारुः १२ द्बादश-रश्मिः १३ गिरीशः १४ दिदिवः १५ पूर्व्व-फल्गुनीभवः १६ इति जटाधरः
सुरगुरुः१७ वाक्पतिः १८ वचसांपतिः १९ इन्द्रेज्यः २०देवेज्यः २१ वृहताम्पतिः २२ इज्यः २३वागीशः २४ चक्षाः २५ दीदिविः २६ द्बादश-करः २७ प्राक्फाल्गुनः २८ गीरथः २९ ।इति शब्दरत्नावली
पीतवर्णः ईशान-कोणपुरुषब्राह्मणजातिऋग् वेदसत्त्वगुण-मधुर-रसधनुर्मीनराशिपुष्यनक्षत्रवस्त्रपुष्परागमणि-सिन्धुदेशानां अधिपतिः षडङ्गुलशरीरः ।पद्मस्थः चतुर्भुजः अक्षवरकमण्डलुदण्डधारी ।अस्याधिदेवता ब्रह्मा प्रत्यधिदेवता इन्द्रः सतु सूर्य्यास्यः अङ्गिरोमुनिपुत्त्रः प्रातःकालेप्रबलः शुभग्रहः देवगृहस्वामी वृद्धः ।रक्तद्रव्यस्वामी वातपित्तकफात्मकः बणिक्-कर्म्मकर्त्ता अङ्गिरोगोत्रः इति ग्रहयाग-तत्त्वादयः
*
तद्वारजातफलम् ।“नृपेन्द्रमन्त्री नृपलब्धकामोविद्याविनोदो चतुरः प्रगल्भः ।आचार्य्यपूज्यो मधुरस्वभावोवारे भवेद्देवगुरोर्मनुष्यः
”इति कोष्ठीप्रदीपः
*
शिवस्य गुरुपुत्त्रः यथा, --महेन्द्र उवाच ।“कथं वा देवकर्त्तुश्च सिद्धानां योगिनां गुरोः ।मृत्युञ्जयस्य शम्भोश्च गुरुपुत्त्रो बृहस्पतिः ।ततो ज्ञानी महादेवः कथं शिष्यो गुरोः पितुः
ब्रह्मोवाच ।कथेयमतिगुप्ता पुराणेषु पुरन्दर ।इमां पुरा प्रवृत्तिञ्च कथयामि निशामय
मृतवत्सा कर्म्मदोषाद्भार्य्या अङ्गिरसः पुरा ।व्रतं चकार मद्बाक्यात् कृष्णस्य परमात्मनः
व्रतं पुंसवनं नाम वर्षमेकं चकार सा ।सनत्कुमारो भगवान् कारयामास तां व्रतम्
स्वेच्छामयः परं ब्रह्म भक्तानुग्रहवग्रहः ।तदागत्य गोलोकात् परमात्मा कृपामयः
व्रतानशनक्षीणां तामुवाच कृपानिधिः ।प्रणतां साश्रुनेत्राञ्च विनीताञ्च तया स्तुतः
श्रीकृष्ण उवाच ।गृहाणेदं यज्ञफलं मम तेजःसमन्वितम् ।भुङ्क्ष्व मद्वरपुत्त्रस्ते भविष्यति मदंशतः
पतिर्गुरुश्च देवानां वृहतां ज्ञानिनां वरः ।पुत्त्रस्ते भविता साध्वि ! मद्वरेण भविष्यति
मद्वरेण भवेद्यो हि मद्वरपुत्त्रकः ।त्वद्गर्भे मम पुत्त्रोऽयं चिरजीवी भविष्यति
वरजो वीर्य्यजश्चैव क्षेत्रजः पालकस्तथा ।विद्यामन्त्रसुतानाञ्च गृहीतः सप्तमः सुतः
इत्युक्त्वा राधिकानाथः स्वर्लोकञ्च ययौ पुरा ।श्रीकृष्णवरपुत्त्रोऽयं ज्ञानी सुरगुरुः स्वयम्
मृत्युञ्जयं महाज्ञानं शिवाय प्रददौ पुरा ।दिव्यं वर्षत्रिलक्षञ्च तपःकर्त्रे हिमालये
सुयोगज्ञानममलं तेजः स्वात्मा समं परम् ।स्वशक्तिविष्णुमायाञ्च स्वांशञ्च वाहनं वृषम्
स्वशूलञ्च स्वकवचं स्वमन्त्रं द्वादशाक्षरम् ।कृपामयः स्तुतस्तेन श्रीकृष्णश्च परात्परः
शिवलोके शिवा सा विष्णुमाया शिव-प्रिया ।शक्तिर्नारायणस्येयं तेन नारायणी स्मृता
तेजःसु सर्व्वदेवानां साविर्भूता सनातनी ।जघान दैत्यनिकरं देवेभ्यः प्रददौ पदम्
कल्पान्ते दक्षकन्या सा मूलप्रकृतिः सती ।पितृयज्ञे तनुं त्यक्त्वा योगेन सिद्धयोगिनी
बमूव शैलकन्या सा साध्वी भर्त्तृनिन्दया ।कालेन कृष्णतपसा शङ्करं प्राप शङ्करी
श्रीकृष्णो हि गुरुः शम्भोः परमात्मा परात्परः ।कृष्णस्य वरपुत्त्रोऽयं स्वयमेव वृहस्पतिः ।अतो हेतोः सुरगुरुर्गुरुपुत्त्रः शिवस्य
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्यायः
(पुरोहितः मन्त्रपालके तु त्रि यथा, ऋग्वेदे ।४ ५० ।“वृहस्पतिं यः सुभृतं बिभर्त्ति
”“वृहस्पतिं वृहतां महतां मन्त्राणां पालयितारंदेवं उक्तलक्षणं पुरोहितं वा ।” इति तद्भाष्येसायणः
)
वाचस्पत्यम्
Sanskrit
वृहस्पति
पु०
वृहत्याः वाचः पतिः पृषो० नि० जीवे देवा-चार्य्ये अमरः ग्रहभेदे सू० सि० खगोलशब्दे तत्कक्षा-दिमानं तद्रूपादि ग्रहयज्ञशब्दे द्वश्यम् वृहस्पतिनाच वौद्धधर्मः प्रवर्त्तितो यथाक्तं मत्स्यपु० २४ अ० “ततोवृहस्पतिः शक्रमकरोद्बलदर्पितम् ग्रहशान्तिविधानेनपौष्टिकेन कर्मणा गत्वाथ मोहयामास रजिपुत्रान्वृहस्पतिः जिनधर्मं समास्थाय वेदवाह्यं वेदवित् ।वेदत्रयी परिभ्रष्टांश्चकार धिषणाधिपः वेदवाह्यान्परिज्ञाय हेतुवादसमन्वितान् जघान शक्रो वज्रेणसर्वधर्मवहिष्कृतान्” वृहस्पतिसवः यज्ञभेदः