| YouTube Channel

वृहन्नला (vRhannalA)

 
शब्दकल्पद्रुमः
Sanskrit
वृहन्नला,
स्त्री,
अर्ज्जुनः इति मेदिनी
द्वादशवर्ष-वनवासानन्तरमज्ञातवासे विराटभवने विराट-कन्याया नृत्यगीतादिशिक्षार्थं स्त्रीक्लीववेशे-नार्जुनो वृहन्नलेति नाम्ना ख्यातोऽभूत् यथा, अर्ज्जुन उवाच ।“गायामि नृत्याम्यथ वादयामिभद्रोऽस्मि नृत्ये कुशलोऽस्मि गीते ।त्वमुत्तरायै प्रदिशस्व मां स्वयंभवामि देव्या नरदेव ! नर्त्तकः
इदन्तु रूपं मम येन किन्तवप्रकीर्त्तयित्वा भृशशोकवर्द्धनम् ।वृहन्नलां मां नरदेव विद्धिसुतं सुतां वा पितृमातृवर्जिताम्
विराट उवाच ।ददामि ते हन्त वरं वृहन्नलेसुताञ्च मे नर्त्तय याश्च तादृशीः
”इति भहाभारते विराटपर्व्व
वाचस्पत्यम्
Sanskrit
वृहन्नला(डा) पुंस्त्री० वृहत् नलो यस्य वा लस्य डः ।अजुने हेमच० विराटपर्वणि तत्कथा दृश्या