| YouTube Channel

वृहन्नलः (vRhannalaH)

 
शब्दकल्पद्रुमः
Sanskrit
वृ(बृ)हन्नलः,
पुं,
(वृहन् नलः ।) महापोटगलः ।इति मेदिनी
अर्ज्जुनः यथा, --“पार्थः किरीटी गाण्डीवी गुडाकेशो वृहन्नलः ।अर्ज्जुनः फाल्गुनो जिष्णुर्विजयश्च धनञ्जयः
सव्यसाची सुभद्रशः शब्दभेदी कपिध्वजः ।वार्त्ताघ्नश्चापि वीभत्सुः
इति त्रिकाण्डशेषः
अपि ।“अर्ज्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः ।राधावेधी किरीट्यैन्द्री जिष्णुः श्वेतहयो नरः
वृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ।वीभत्सुः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः
”इति हेमचन्द्रः