| YouTube Channel

वृहद्रथः (vRhadrathaH)

 
शब्दकल्पद्रुमः
Sanskrit
वृ(बृ)हद्रथः,
पुं,
(वृहन् रथो यस्य ।) इन्द्रः यज्ञ-पात्रम् मन्त्रविशेषः सामवेदांशः नदी-विशेषे, स्त्री इति केचित्
(तिग्मपुत्त्रःयथा, मात्स्ये ५० ८५ ।“तिग्माद्बृहद्रथो भाव्यो वसुदामा वृहद्रथात्
”शतधन्वपुत्त्रः यथा, भागवते १२ १३ ।“शतधन्वा ततस्तस्य भविता तद्वृहद्रथः
”देवरातपुत्त्रः यथा, भागवते १३ १५ ।“तस्माद्वृहद्रथस्तस्य माहावीर्य्यः सुधृत्पिता
”तिमिराजपुत्त्रः यथा, तत्रैव २२ ४३ ।“तिमेर्व्वृहद्रथस्तस्मात् शतानीकः सुदासजः
”पृथुलाक्षस्य पुत्त्रः यथा, तत्रैव २३ ११ ।“वृहद्रथो वृहत्कर्म्मा वृहद्भानुश्च तत्सुताः
”प्रभूतरथे, त्रि यथा, ऋग्वेदे ८० ।वृहद्रथा वृहती विश्वमिन्वा ।”“वृहद्रथा प्रभूतरथा ।” इति तद्भाष्ये सायणः
)