| YouTube Channel

वृहद्भानुः (vRhadbhAnuH)

 
शब्दकल्पद्रुमः
Sanskrit
वृ(बृ)हद्भानुः
पुं,
(वृहन् भानू रश्मिर्यस्य ।) अग्निः ।(यथा, महाभारते २२० ।“तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत् ।बृहद्भानुन्तु तं प्राहुर्ब्राह्मणा वेदपारगाः
”)चित्रकवृक्षः इत्यमरः
(सत्यभामापुत्त्रः ।यथा, भागवते ६१ १० ।“चन्द्रभानुर्व्वृहद्भानुरतिभानुस्तथाष्टमः
”सत्रायणपुत्त्रः यथा, भागवते १३ ३५ ।“सत्रायणस्य तनयो वृहद्भानुस्तदा हरिः
”पृथुलाक्षस्य पुत्त्रः यथा, भागवते २३ ११ ।“चतुरङ्गो रोमपादात् पृथुलाक्षस्य तत्सुतः ।वृहद्रथो वृहत्कर्म्मो वृहद्भानुश्च तत्सुताः
”वृहद्रश्मिविशिष्टे, त्रि यथा, ऋग्वेदे ।३६ १५ ।“वृहद्भानो यविष्ठ्य
”“हे अग्ने हे वृहद्भानो वृहन्तो भानवो यस्यतादृश ।” इति तद्भाष्ये सायणः
)