| YouTube Channel

वृष्टिवैकृत (vRSTivaikRta)

 
वाचस्पत्यम्
Sanskrit
वृष्टिवैकृत
न०
त० उपद्रवसूचके वृष्टिविकारे यथोक्तंवृ० स० ४६ अ०“दुर्भिक्षमनावृष्ट्यामतिवृष्ट्यां क्षुद्भयं सपरचक्रम् रोगोह्यनृतुभवायां नृपवधोऽनभ्रजातायाम् शीतोष्णविपर्यामे नो सम्यगृतुषु सम्प्रवृत्तेषु षणमासाद्राष्ट्रभयंरिगभयं दैवजनित अन्यतौ सप्ताहं प्रबन्धवर्षेप्रधाननृपमरणम् रक्ते शस्त्रोद्योगो मसिस्थिवसा-दिभिर्मरकः धान्यहिरण्यत्वक्फलकुसुमाद्यैर्वर्षितैर्मयंविद्यात् अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम् ।उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः ।छिद्रं वाप्यतिवृष्टौ सस्यानामीतिसञ्जननम् क्षीरघृत-क्षौद्राणां दध्नो रुधिरोष्णयोर्वा वर्षे देशविनाशोज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम् यद्यमलेऽर्के छाया नदृश्यते दृश्यते प्रतीपा वा देशस्य तदा सुमहद्भयमा-यातं विनिर्देश्यम् व्यभ्रे नभसीन्द्रधनुर्दिवा यदादृश्यतेऽथ वा रात्रौ प्राच्यामपरस्यां वा तदा भवत्क्षुद्भयं सुमहत् सूर्य्येन्दुपर्जन्यसमीरणानां योगःस्मृतो वृष्टिविकारकाले धान्यान्नगोकाञ्चनदक्षिणाश्चदेयास्ततः शान्तिमुपैति पापम्”