| YouTube Channel

वृषोत्सर्गः (vRSotsargaH)

 
Apte Hindi
Hindi
वृषोत्सर्गः
पुं*
वृषः-उत्सर्गः -
मृत पुरुष के नाम पर दाग कर साँड़ छोड़ना
Wordnet
Sanskrit
Synonyms:
वृषोत्सर्गः
noun
कस्यापि मृतस्य मनुष्यस्य कृते श्राद्धादिसमये वृषं चिह्नयित्वा तस्य त्यागस्य क्रिया।
"केचन जनाः पितॄणां कृते वृषोत्सर्गं कुर्वन्ति।"
शब्दकल्पद्रुमः
Sanskrit
वृषोत्सर्गः,
पुं,
(वृषस्योत्सर्गः ।) अशौचान्त-द्वितीयदिनादिकर्त्तव्यत्रिशूलचक्राङ्कितवत्सतरी-चतुष्टययुक्तवृषत्यागः वृषाभावे तत्प्रतिनिधि-र्यथा, --“एकादशेऽह्नि सम्प्राप्ते वृषाभावो भवेद्यदि ।दर्भैः पिष्टैस्तु संपाद्य तं वृषं मोचयेद्बुधः
वृषोत्सर्ज्जनवेलायां वृषाभावः कथञ्चन ।मृत्तिकाभिस्तु दर्भैर्व्वा वृषं कृत्वा विमोचयेत्
”इति गारुडे प्रेतकल्पे अध्यायः
तस्य विधिर्यथा कालविवेकेऽप्यग्निपुराणम् ।“एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ।प्रेतलोकं परित्यज्य स्वर्गलोकं गच्छति
आद्यश्राद्धे त्रिपक्षे वा षष्ठे मासि वत्सरे ।वृषोत्सर्गश्च कर्त्तव्यो यावन्न स्यात् सपिण्डता ।सपिण्डीकरणादूर्द्ध्वं कालोऽन्यः शास्त्रचोदितः
”यस्य प्रेतस्येति सामान्यतः श्रुतेः पितृभिन्न-स्यापि वृषोत्सर्गः प्रतीयते
*
अथ वृषोत्-सर्गं व्याख्यास्यामः कार्त्तिक्यां पौर्णमास्यांरेवत्यामाश्वयुज्यां दशाहे गते संवत्सरेऽतीतेवेति अत्र मृततिथिमादाय संवत्सरगणनादशाहवदित्यविरोधः एकादशाह इति आद्य-श्राद्ध इति चाशौचान्ताद्द्वितीयदिनपरम् ।“अशौचान्ताद्द्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम् ।काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्वितम्
संपूज्य द्बिजदाम्पत्यं नानाभरणभूषणैः ।वृषोत्सर्गश्च कर्त्तव्यो देया कपिला शुभा
”इति मत्स्यपुराणेनैकवाक्यत्वात्
प्रेतवृषोत्सर्गे वृद्धिश्राद्धं कर्त्तव्यम् ।“नार्व्वाक् संवत्सराद्वृद्धिर्वृषोत्सर्गे विधीयते ।सपिण्डीकरणादूर्द्ध्वं वृद्धिश्राद्धं विधीयते
”इत्युशनसो वचनात्
*
वृषलक्षणमाह कात्यायनः ।“अव्यङ्गो जीववत्सायाः पयस्विन्याः सुतो बली ।एकवर्णो द्बिवर्णो वा यो वा स्यादष्टकासुतः
यूथादुच्चतरो यस्तु समो वा नीच एव वा ।सप्तावरान् सप्त परानुत्सृष्टस्तारयेद्वृषः
”अष्टकासुतः अष्टकासु जातः कामधेनुप्रभृ-तिषु मत्स्यपुराणम् ।“चरणानि मुखं पुच्छं यस्य श्वेतानि गोपते ।लाक्षारससवर्णश्च तं नीलमिति निर्दिशेत्
वृष एव मोक्तव्यो सन्धार्य्यो गृहे वसन् ।तदर्थमेषा चरति लोके गाथा पुरातनी
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।गौरीं वाप्युद्वहेद्भार्य्यां नीलंवा वृषमुत्सृजेत्
”वत्सतरीर्विशेषयति ।“अग्रतो लोहिता पत्नी पार्श्वाभ्यां नीलपाण्डरे ।पृष्ठतश्च भवेत् कृष्णा वृषभस्य मोक्षणे
*
वैधकर्म्मार्थमण्डपान्तर्व्वितानमुक्तं हयशीर्षपञ्च-रात्रम् “नवेन चित्रवस्त्रेण वितानं कल्पयेद्-बुधः ।” अत्र ।“शुक्तवासाः शुचिर्भूत्वा ब्राह्मणान् स्वस्तिवाच्यच ।कीर्त्तयेद्भारतञ्चैव तथा स्यादक्षयं हविः
”इति दानधर्म्मस्थवृषोत्सर्गप्रकरणीयवचनात्अक्षयहविष्ट्वकामेन स्वस्तिवाचनानन्तरं भार-तनामोच्चारणं कार्य्यम् ।“यदह्ना कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् ।महाभारतमाख्याय पूर्व्वां सन्ध्यां विमुञ्चति
”इत्यादि-पुराणोक्त-प्रातर्महाभारतोच्चारणवत्राढदेशीयास्तु विराटपर्व्व पाठयन्ति भविष्ये ।“वृषोत्सर्गश्च द्बिविधो जीवतो वा मृतस्य ।”इत्युपक्रम्य ।“अनुज्ञां गृह्य पुनर्गणेशं पूजयेद्घटे ।ग्रहांश्चैव यजेत् पश्चात् विष्णुं संपूजयेत् ततः
”छन्दोगपरिशिष्टम् ।“गोशालायां प्रणीयाग्निं संस्कृत्य व्रीहितण्डु-लान् ।अग्निपूषेन्द्रेश्वरेभ्यो निर्व्वपेत् पायसं चरुम्
”गोशालायामिति प्रधानकल्पः वृषभ इत्युप-क्रम्य ।“उत्स्रष्टव्यो विधानेन श्रुतिस्मृतिनिदर्शनात् ।प्रागुदक्प्लवने देशे मनोज्ञे निर्जने वने
”सङ्कल्पानन्तरं यजमान एव प्रथमं ब्रह्मवरणा-दिकं कुर्य्यात् तत्र ब्रह्मवरणं प्रथमतः ज्योति-ष्टोमे ब्रह्मोद्गातृहोत्रध्वर्य्यु इत्यादिदर्शनेन ।गृह्यसंग्रहे ।“द्यूते व्यवहारे प्रव्रते यज्ञकर्म्मणि ।यानि पश्यन्त्युदासीनाः कर्त्ता तानि पश्यति ।एकः कर्म्मनियुक्तः स्यात् द्वितीयस्तन्त्रधारकः
तृतीयः प्रब्रूयात् प्रश्नं ततः कर्म्म समाचरेत्
”वरणानन्तरं कुशण्डिकां समाप्य यथाविधिनाचरुपाकञ्च कृत्वा चरुहोमं कुर्य्यात् ततःस्विष्टिकृद्धोममहाव्याहृतिहोमौ कार्य्यौ
*
ततः“वृषस्य दक्षिणे पार्श्वे त्रिशूलाङ्कं समुल्लिखेत् ।वृषा ह्यसीति सव्येऽस्य चक्राङ्कमपि दर्शयेत् ।तप्तेन पश्चादयसा स्पष्टौ तावेव कारयेत्
अथैनं कलसस्थाभिरद्भिरेको वृषेण वा ।सर्व्वौषधिसुगन्धीभिः स्नापयेद्वत्सिका अपि
परिधाप्याहते शुक्ले वाससी हेमपट्टकम् ।सत्यमिथ्यावेषासोमसामभ्यां शिरसि न्यसेत्
”ततो वृषवत्सतरीणामलङ्कारादिकं दत्त्वा विल्व-वकुलनिर्म्मितयूपे उपयूपे बद्ध्वा एनं युवानं इतिमन्त्रं पठित्वा वत्सतरीचतुष्टयसहितं वृषं तत्तत्-फलकामी अद्येत्यादिवाक्येनोत्सृजेत्
*
ततोयूपाद्विमुच्य वत्सतरीचतुष्टयसहितं वृषमैशान्यांचालयित्वा प्रार्थयेत् यथा, --“न खादेत् परशस्यानि नाक्रामेद्गर्भिणीञ्चगाम् ।धर्म्मोऽसि त्वं चतुष्पादश्चतस्रस्ते प्रियास्त्विमाः ।चतुर्णां पोषणार्थाय मयोत्सृष्टास्त्वया सह
देवानाञ्च पितॄणाञ्च मनुष्याणाञ्च योषितः ।भूतानां तृप्तिजननास्त्वया सार्द्धं व्रजन्त्विमाः
नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक ।त्वयि मुक्तेऽक्षया लोका मम सन्तु निरामयाः
मा मे ऋणोऽस्तु दैवोऽथ पैत्रो भौतोऽथमानुषः ।धर्म्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा
यत्किञ्चित् दुष्कृतं कर्म्म लोभमोहात् कृतंभवेत् ।तस्मादुद्धृत्य देवेश पितुः स्वर्गं प्रयच्छ मे
यावन्ति तव लोमानि शरीरे सम्भवन्ति ।तावद्वर्षसहस्राणि स्वर्गे वासोऽस्तु मे पितुः
”इति मत्स्यपुराणोक्तं पठेत् तत आचाराद्-वृषपुच्छगलितोदकेन ब्रह्मपुराणोक्ततर्पणं कुर्य्यात्ततः प्रकृतदक्षिणां कृत्वा कर्म्मकारयितृभ्योदक्षिणां दद्यात् इति वृषोत्सर्गतत्त्वम्
*
अपि ।“कार्त्तिक्यां कारयेत् पूजां यागं देवीप्रियंसदा ।गोत्सर्गन्तु प्रकर्त्तव्यं नीलं वा वृषमुतसृजेत् ।सर्व्वयज्ञफलं ब्रह्म प्राप्नुयादविचारवन्
मनुरुवाच ।अश्वमेधसमं पुण्यं वृषोत्सर्गादवाप्यते
रेवत्याञ्चाश्विने मासि कार्त्तिक्यां कार्त्तिकस्यवा
गोविवाहोऽथवा कार्य्यो माघ्यां वै फाल्गुने-ऽपि वा
शिवोमामङ्गलञ्चैत्रे तृतीयायां महाफलम् ।अश्वत्थोडुम्बरीयागं विवाहविधिना भवेत्
सतोरणं भवेत्तीर्थे उत्सर्गो गोकुलेऽपि वा ।चतस्रो वत्सिका भद्रा द्वौ वा संभवतोऽपि वा
वत्सं सर्व्वाङ्गसंपूर्णं कन्या सा वत्सिका भवेत् ।अलंकृत्य यथाशोभमुत्सर्गं कारयेन्मुने
विवाहमेकवत्सीयनीलेन भवते सदा ।वृषेण अश्वमेधस्य यागस्य फलदायकम्
जायेरन् बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।यजेद्वा अश्वमेधेन नीलं वा वृषमुत्सृजेत्
रोहितो यस्तु वर्णेन शङ्खवर्णखुरो वृषः ।लाङ्गूलशिरसश्चैव वै नीलवृषः स्मृतः
अङ्कित्वोत्सृज्यते पूर्व्वं गाञ्चालंकृत्य सर्व्वतः ।तप्तेन वामतश्चक्रं याम्ये शूलं समालिखेत्
धातुना हेमतारेण आयसेनाथवाङ्कयेत् ।एवं कृत्वा अवाप्नोति फलं वाजिमखोदितम्
यमुद्दिश्योत्सृजेद्वत्सं लभेताविचार-णात् ।यथा शिवोमजा अर्च्चा पूजिता सर्व्वकामदा ।एवं देवत्रयं यष्ट्वा अनन्तं लभते फलम्
मङ्गलाविहितं यच्च यच्च गोदानजं फलम् ।सहस्रक्रतवस्तेन वृषोत्सर्गादवाप्नुयात्
”इति देवीपुराणे पूजाविधि नामाध्यायः