| YouTube Channel

वृषभानुः (vRSabhAnuH)

 
शब्दकल्पद्रुमः
Sanskrit
वृषभानुः,
पुं,
सूरभानपुत्त्रः राधिकापिता ।यथा, --“सुचन्द्रो वृषभानुश्च ललाभ जन्म गोकुले ।पद्मावत्याश्च जठरे सूरभानस्य रेतसा
जातिस्मरो हरेरंशः शुक्लपक्षे यथा शशी ।ववर्द्धानुदिनं तत्र व्रजगेहे व्रजाधिपः
कलावती कान्यकुब्जे बभूवायोनिसम्भवा ।जातिस्मरा महासाध्वी सुन्दरी कमला-कला
कान्यकुब्जे नृपश्रेष्ठो भनन्दन उरुक्रमः ।स तां संप्राप योगान्ते यज्ञकुण्डसमुत्थिताम्
कृत्वा वक्षसि राजेन्द्र स्वकान्तायै ददौ मुदा ।मालावती स्तनं दत्त्वा तां पुपोष प्रहर्षिता ।ददर्श नन्दः पथि तां गच्छतीञ्च मुदान्वितः
नन्द उवाच ।शृणु राजेन्द्र वक्ष्यामि विशेषवचनं शुभम् ।सम्बन्धं कुरु कन्याया विशिष्टेन सांप्रतम्
सूरभानसुतः श्रीमान् वृषभानुर्व्र जाधिपः ।नारायणांशो गुणवान् सुन्दरश्च सुपण्डितः
कन्या तेऽयोनिसंभूता यज्ञकुण्डसमुद्भवा ।त्रैलोक्यमोहिनी शान्ता कमलांशा कलावती ।स योग्यस्तद्दुहितुस्तद्योग्या ते कन्यका
भनन्दन उवाच ।सम्बन्धो हि विधिवशो मे साध्यो व्रजाधिप ।प्रजापतिर्योगकर्त्ता जन्मदाताहमेव
वृषभानुप्रिया धात्रा लिखिता चेत् सुता मम ।पुरा भूतैव को वाहं केनान्येन निवार्य्यते
नृपानुज्ञामुपादाय व्रजश्रेष्ठो व्रजं गतः ।गत्वा कथयामास सूरभानस्य संसदि
सूरभानश्च यत्नेन नन्देन समादरम् ।सम्बन्धं योजयामास गर्गद्बारा सत्वरम्
वृषभानुर्मुदा युक्तः प्राप्य ताञ्च कलावतीम् ।रेमे सुनिर्ज्जने रम्ये बुबुधे दिवानिशम्
तयोः कन्या कालेन राधिका सा बभूव ।दैवात् श्रीदामशापेन श्रीकृष्णस्याज्ञया पुरा ।अयोनिसम्भवा सा कृष्णप्राणाधिका सती
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः