| YouTube Channel

वृषभः (vRSabhaH)

 
Apte
English
वृषभः [vṛṣabhḥ], [वृष्-अभच् किच्च
Uṇ.*
3.112]
A bull.
Any male animal.
Anything best or eminent of its class (at the end of
comp.
)
द्विजवृषभः
Ratn.*
1.5
किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम् 4.2.
The signTaurus of the zodiac.
A kind of drug
cf.
ऋषभ.
An elephant's ear.
The orifice or hollow of the ear.
Justice (धर्म personified)
Mb.
* 12.43.8. -भा
N.
of the three lunar mansions (viz. of मघा, पूर्व-फल्गुनी, and उत्तर-फल्गुनी).
Comp.
-ईक्षणः
N.
of Viṣṇu. -केतुः, -गतिः, -ध्वजः epithets of Śiva
पुत्रीकृतो$सौ वृषभध्वजेन
R.*
2.36
Ku.*
3.62. -यानम् a car drawn by oxen. -षोडशा (pl. ) fifteen cows and a bull
ज्येष्ठस्तु जातो ज्येष्ठायां हरेद् वृषभषोडशाः
Ms.*
9.124. -स्कन्ध
a.
broad-shouldered.
Apte 1890
English
वृषभः [वृस्-अभच् किच्च] 1 A bull.
2 Any male animal.
3 Anything best or eminent of its class (at the end of comp.)
द्विजवृषभः Ratn. 1. 5, 4. 21.
4 The sign Taurus of the zodiac.
5 A kind of drug
cf. ऋषभ.
6 An elephant's ear.
7 The orifice or hollow of the ear.
Comp.
ईक्षणः N. of Viṣṇu.
गतिः,
ध्वजः epithets of Śiva
R. 2. 36
Ku. 3. 62.
Hindi
Hindi
बैल (पु), वृषभ की राशिचक्रीय साइन इन करें
Apte Hindi
Hindi
वृषभः
पुं*
- वृष् + अभच् किच्च
साँड
वृषभः
पुं*
- -
कोई भी नर जानवर
वृषभः
पुं*
- -
अपने वर्ग का मुखिया
वृषभः
पुं*
- -
वृषराशि
वृषभः
पुं*
- -
एक प्रकार की औषधि
वृषभः
पुं*
- -
हाथी का कान
वृषभः
पुं*
- -
कान का विवर
Wordnet
Sanskrit
Synonyms:
वृषभः, ऋषभः, वृषः, पुङ्गवः, बलीवर्दः, उक्षा, सौरभेयः, गोनाथः, ककुद्मान्, भद्रः, उस्रः
noun
नरजातीयः गौः यं कृषकः यानादिभिः युनक्ति।
"वृषभः कृषकस्य कृते अतीव उपयुक्तः अस्ति।"
Synonyms:
वृषभराशिः, वृषभः
noun
मेषादिद्वादशराश्यान्तर्गतः द्वितीयः राशिः कृत्तिकापादत्रयरोहिणीसमुदायमृगशिरसः अर्धेनैतद्राशिः भवति।
"वृषभराशेः चिह्नं वृषभः इत्येव अस्ति।"
वैजयन्तीकोषः
Sanskrit
Word: वृषभः
Root: वृषभ
Gender: पुं
Number: all
अर्थः
Meaning(s):
Bull
Shloka(s):
3|4|52|1 विषाणी वृषभः श्रृङ्गी वाहो गौरक्षधूर्तिलः। (भूमिकाण्डः/पशुसङ्ग्रहाध्यायः)
Synonym(s):
3|4|52|1 विषाणी (विषाणिन्) (पुं) Bull
3|4|52|1 वृषभः (वृषभ) (पुं) Bull
3|4|52|1 शृङ्गी (शृङ्गिन्) (पुं) Bull
3|4|52|1 वाहः (वाह) (पुं) Bull
3|4|52|1 गौः (गो) (स्त्री) Bull
3|4|52|1 अक्षधूर्तिलः (अक्षधूर्तिल) (पुं) Bull
Related word(s):
परा_अपरासंबन्धः हालिकः
अमरकोशः
Sanskrit
Word: वृषभः
Root: वृषभ
Gender: पुं
Number: all
Meaning(s):
ox
bull
chief
manly
mighty
strong
bullock
vigorous
particular drug
lord or best among
zodiacal sign Taurus
name of the 28th muhUrta
most excellent or eminent
hollow or orifice of the ear
velvet bean [Mucuna pruriens - Bot.]
Shloka(s):
2|9|59|2 उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥ (वैश्यवर्गः)
2|9|60|1 अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम्। (वैश्यवर्गः)
Synonym(s):
2|9|59|2 उक्षा (उक्षन्) (पुं) large, ox or bull, one of the eight chief medicaments
2|9|59|2 भद्रः (भद्र) (पुं) kind, dear, fair, good, happy, great, lovely, blessed, friendly, gracious, good sir, pleasant, excellent, fortunate, beautiful, gentleman, auspicious, prosperous, water wagtail, fir tree [Bot.], title of address, celestial Ganges, good i.e. skilful in, sanctimonious hypocrite, fir tree [Abies - Bot.], particular kind of elephant a bullock, name of the third of the 9 white balas, Kadama tree or common spurge plant [Nauclea Cadamba or Tithymalus antiquorum - Bot.]
2|9|59|2 बलीवर्दः (बलीवर्द) (पुं)
2|9|59|2 ऋषभः (ऋषभ) (पुं) bull, fifteenth kalpa, particular antidote, kind of medicinal plant, any male animal in general, best or most excellent of any kind or race, second of the seven notes of the Hindu gamut
2|9|59|2 वृषभः (वृषभ) (पुं) ox, bull, chief, manly, mighty, strong, bullock, vigorous, particular drug, lord or best among, zodiacal sign Taurus, name of the 28th muhUrta, most excellent or eminent, hollow or orifice of the ear, velvet bean [Mucuna pruriens - Bot.]
2|9|59|2 वृषः (वृष) (पुं) man, bull, male, water, enemy, virtue, husband, moral merit, semen virile, mouse or rat, male of any animal, strong or potent man, just or virtuous act, zodiacal sign Taurus, particular form of a temple, boar [male of various animals], piece of ground suitable for the foundation of a house, Justice or Virtue personified as a bull or as ziva's bull, chief of a class or anything the most excellent or preeminent or best of its kind
2|9|60|1 अनड्वान् (अनडुह्) (पुं)
2|9|60|1 सौरभेयः (सौरभेय) (पुं) bull, son of surabhi, herd of cattle, belonging or relating to surabhi
2|9|60|1 गौः (गो) (पुं)
Related word(s):
अवयव_अवयवीसंबन्धः वृषभस्कन्धदेशः
परा_अपरासंबन्धः साण्डवृषभः
जातिः स्तनपायी
पति_पत्नीसंबन्धः गौः
जन्य_जनकसंबन्धः सद्योजातवृषभवत्सः
शब्दकल्पद्रुमः
Sanskrit
वृषभः,
पुं,
(वृष सेचने वृष + “ऋषिवृषिभ्यांकित् ।” उणा० १२३ इति अभच् चकित् ।) वृषः (यथा, मनौ ५० ।“यदन्यगोषु वृषभो वत्सानां जनयेच्छतम्
”)श्रेष्ठः (यथा, महाभारते ३३ ८७ ।“सृञ्जयैः सह कैकेयैर्व्वृष्णीनां वृषभेण
”)वैदर्भीरीतिभेदः इति मेदिनी
आदिजिनः ।इति हेमचन्द्रः
कर्णरन्ध्रम् ऋषभनामौष-धम् इत्युणादिकोषः
*
(चतुर्व्विधपुरु-षान्तर्गतपुरुषविशेषः यथा, --“शशके पद्मिनी तुष्टा चित्रिणी रमते मृगम् ।वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हयम्
”इति रतिमञ्जरी
)गोशब्दे अलिखनात् प्रसङ्गादत्र आतिदेशिक-गोहत्या लिख्यते ।“गामाहारं प्रकुर्व्वन्तं पिबन्तं यो निवारयेत् ।याति गोविप्रयोर्मध्ये गोहत्याञ्च लभेत्तु सः
दण्डैर्गास्ताडयन्मूढो यो विप्रो वृषवाहनः ।दिने दिने गवां हत्यां लभते नात्र संशयः
ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् ।भोजयेद्वृषवाहान्नं गोहत्यां लभेद्ध्रुवम्
वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः ।गोहत्याशतकं सोऽपि लभते नात्र संशयः
पादं ददाति वह्नौ यो गाञ्च पादेन ताडयेत् ।गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमालभेत्
यो भुङ्क्तेऽस्निग्धपादेन शेते स्निग्धाङ्ध्रिरेव ।सूर्य्योदये द्बिर्भाजी गोहत्यां लभेत् ध्रुवम्
अवीरान्नञ्च यो भुङ्क्ते योनिजीवी ब्राह्मणः ।यस्त्रिसन्ध्याविहीनश्च गोहत्यां लभेद्ध्रुवम्
पितॄंश्च पर्व्वकाले तिथिकाले देवताः ।न सेवतेऽतिथिं यो हि गोहत्यां लभेद्ध्रुवम्
स्वभर्त्तरि कृष्णे वा भेदबुद्धिं करोति या
कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेत्ध्रुवम् ।गोमार्गं खननं कृत्वा ददाति शस्यमेव ।तडागे वा तदूर्द्ध्वे वा गोहत्यां लभेद् ध्रुवम्
प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् ।अर्थलोभादथाज्ञानात् गोहत्यां लभेत् ध्रुवम्
राजके दैवके यत्नाद्गोस्वामी गां पालयेत् ।दुःखं ददाति यो भूढो गोहत्यां लभते ध्रुवम्
प्राणिनं लङ्घयेद् यो हि देवार्च्चामनलं जलम् ।नैवेद्यं पुष्पमन्नञ्च गोहत्यां लभेद्ध्रुवम्
शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः ।देवद्वेषी गुरुद्वेषी गोहत्यां लभेद्ध्रुवम्
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ! ।न सम्भ्रमान्नमेद्यो हि गोहत्यां लभेत् ध्रुवम्
ददात्याशिषं कोपात् प्रणताय यो द्विजः ।विद्यार्थिने विद्याञ्च गोहत्यां लभेत् ध्रुवम्
गोहत्या ब्रह्महत्या कथिता चातिदेशिकी ।यथा श्रुतं सूर्य्यवक्त्रात् किं भूयः श्रोतुमिच्छसि
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः