| YouTube Channel

वृषणकच्छूः (vRSaNakacchUH)

 
शब्दकल्पद्रुमः
Sanskrit
वृषणकच्छूः,
स्त्री,
(वृषणस्य कच्छूः ।) क्षुद्ररोग-विशेषः तल्लक्षणं यथा, --“स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः ।प्रक्लिद्यते तदा स्वेदात् कण्डूं जनयते तदा
ततः कण्डूयनात् क्षिप्रं स्फोटं स्रावश्च जायते ।प्राहुर्व्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम्
उत्सादनं उद्वर्त्तनम् मलः मैल् इति लोके ।प्रक्लिद्यते आर्द्रो भवति
*
तच्चिकित्सायथा, --“सर्ज्जाब्दकुष्ठसैन्धवसितसिद्धार्थैः प्रकल्पितोयोगः ।उद्वर्त्तनेन नियतं शमयति वृषणस्य कण्डूतिम्
भिषग्वृषणकच्छून्तु चिकित्सेत् पामरोगवत् ।अहिपूतननिर्द्दिष्टक्रिययापि तां हरेत्
”इति भावप्रकाशः