| YouTube Channel

वृषचक्रं (vRSacakraM)

 
शब्दकल्पद्रुमः
Sanskrit
वृषचक्रं,
क्ली,
(वृषाकारं चक्रम् ।) कृषिकर्म्मोक्त-वृषाकारचक्रम् यथा, --“वृषचक्रं वृषाकारं सर्व्वावयवसंयुतम् ।लिखित्वा विन्यसेद्भानि वृषनामर्क्षपूर्व्वकम्
मुखाक्षिकर्णशीर्षेषु शृङ्गे स्कन्धे द्विकं द्विकम् ।त्रीणि पृष्ठे द्वयं पुच्छेऽष्टौ पादे तूदरे त्रिकम्
हलप्रवाहबीजोप्तिप्रारम्भादिदिनर्क्षकम् ।यदङ्गेषु स्थितं तस्माद्वक्ष्ये सर्व्वं शुभाशुभम्
आस्ये हानिः सुखं नेत्रे कर्णे भिक्षाटनं तथा ।शीर्षे धृतिस्तथा शृङ्गे सौख्यं स्कन्धे मङ्गलम्
पृष्टे कष्टं शुभं पुच्छे भ्रमः पादे सुखं हृदि ।चन्द्रयोगादिदं प्रोक्तं वृषचक्रं फलं बुधैः
”इति ज्योतिस्तत्त्वम्