| YouTube Channel

वृषः (vRSaH)

 
Apte
English
वृषः [vṛṣḥ], 1 A bull
असंपदस्तस्य वृषेण गच्छतः
Ku.*
5.8
Me.*
54
R.*
2.35
Ms.*
9.123.
The sign Taurus of the zodiac.
The chief or best of a class, the best of its kind
(oft en at the end of
comp.
)
मुनिवृषः, कपिवृषः
&c.
The god of love.
A strong or athletic man.
A lustful man, a man of one of the four classes into which men are divided in erotic works
बहुगुणबहुबन्धः शीघ्रकामो नताङ्गः सकलरुचिरदेहः सत्यवादी वृषो ना Ratimañjarī 37.
An enemy, adversary.
A rat.
The bull of Śiva.
Morality, justice
justice personified
वृषो हि भगवान् धर्मः
Ms.*
8.16.
Virtue, a pious or meritorious act
सद्गतिः स्याद् वृषवर्जितानां Kīr.
K.*
9.62 (where वृष means a 'bull' also).
N.
of Karṇa.
N.
of Viṣṇu.
N.
of a particular drug.
The principal die.
Water.
A particular form of a temple.
Ground suitable for the foundation of a house.
A male, any male animal.
षम् A peacock's plumage.
A woman's apartment.
Comp.
अङ्कः an epithet of Śiva
उमावृषाङ्कौ शरजन्मना यथा (ननन्दतुः)
R.*
3.23.
a pious or virtuous man.
the marking-nut plant.
a eunuch. ˚जः a small drum. -अञ़्चनः an epithet of Śiva. -अन्तकः an epithet of Viṣṇu. -आहारः a cat. -इन्द्रः an excellent bull.-उत्सर्गः setting free a bull on the occasion of a funeral rite, or as a religious act generally
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः प्रेतलोकं परित्यज्य स्वर्गलोकं गच्छति -दंशः, -दंशकः a cat
अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः (प्रणादम्)
Mb.
* 6.2.25. -दर्भ
a.
lowering the pride of Indra (इन्द्रदर्पहन्ता)
वृषदर्भो वृषाकपिः
Mb.
* 12.43.1.
ध्वजः an epithet of Śiva
येन बाणमसृजद्वृषध्वजः
R.*
11.44.
an epithet of Gaṇeśa.
a pious or virtuous man. -नाशनः
N.
of Kṛiṣṇa.
पतिः an epithet of Śiva.
a bull set at liberty. -पर्वन्
m.
an epithet of Śiva.
N.
of a demon who with the aid of Śukra, preceptor of the Asuras, maintained struggle with the gods for a long time. His daughter Śarmiṣṭhā was married by Yayāti
see Yayāti and Devayānī. -भासा the residence of Indra and the gods
i. e. Amarāvatī. -राजकेतनः
N.
of Śiva. -लक्षणा a masculine girl (unfit for marriage). -लोचनः a cat. -वाहनः an epithet of Śiva. -शत्रुः
N.
of Viṣṇu.
सानुः man.
death. -सृक्किन्m. A wasp. -सेनः
N.
of Karṇa
Mb.
* 12.27.2. -स्कन्धa. having shoulders as lusty as those of a bull
वपुर्वष- स्कन्धसुबन्धुरांसकम्
U.*
6.25
R.*
12.34.
Apte 1890
English
वृषः 1 A bull
असंपदस्तस्य वृषेण गच्छतः Ku. 5. 80
Me. 52
R. 2. 35
Ms. 9. 123.
2 The sign Taurus of the zodiac.
3 The chief or best of a class, the best of its kind
Ms. 3. 18
(often at the end of comp.)
मुनिवृषः, कपिवृषः &c.
4 The god of love.
5 A strong or athletic man.
6 A lustful man, a man of one of the four classes into which men are divided in erotic works
see Ratimañjarī 37.
7 An enemy, adversary.
8 A rat.
9 The bull of Śiva.
10 Morality, justice.
11 Virtue, a pious or meritorious act
सद्गतिः स्याद् वृषवर्जितानां Kīr. K. 9. 62 (where वृष means a ‘bull’ also).
12 N. of Karṇa.
13 N. of Viṣṇu.
14 N. of a particular drug.
15 The principal die.
षं A peacock's plumage.
Comp.
अंकः {1} an epithet of Śiva
R. 3. 23. {2} a pious or virtuous man. {3} the marking-nut plant. {4} a eunuch. °जः a small drum.
अंचनः an epithet of Śiva
अंतकः an epithet of Viṣṇu.
आहारः a cat.
उत्सर्गः setting free a bull on the occasion of a funeral rite, or as a religious act generally.
दंशः,
दंशकः a cat.
ध्वजः {1} an epithet of Śiva
R. 11. 44. {2} an epithet of Gaṇeśa. {3} a pious or virtuous man.
नाशनः N. of Kṛṣṇa.
पतिः {1} an epithet of Śiva. {2} a bull set at liberty.
पर्वन् m. {1} an epithet of Śiva. {2} N. of a demon who with the aid of Śukra, preceptor of the Asuras, maintained struggle with the gods for a long time. His daughter Śarmiṣṭhā was married by Yayāti
see Yayāti and Devayānī.
भासा the residence of Indra and the gods
i. e. Amarāvatī.
राजकेतनः N. of Śiva.
लोचनः a cat.
वाहनः an epithet of Śiva.
स्कंध a. having shoulders as lusty as those of a bull
U. 6. 25
R. 12. 34.
Apte Hindi
Hindi
वृषः
पुं*
- वृष् +
साँड
वृषः
पुं*
- -
वृष राशि
वृषः
पुं*
- -
"किसी वर्ग का मुख्य या उत्तम, अपने दल का सर्वश्रेष्ठ "
वृषः
पुं*
- -
कामदेव
वृषः
पुं*
- -
मज़बूत या व्यायाम शील व्यक्ति
वृषः
पुं*
- -
"कामातुर, रतिग्रंथों में वर्णित चार प्रकार के पुरुषों में से एक "
वृषः
पुं*
- -
"शत्रु, विपक्षी"
वृषः
पुं*
- -
चूहा
वृषः
पुं*
- -
शिव का नंदी बैल
वृषः
पुं*
- -
"नैतिकता, न्याय"
वृषः
पुं*
- -
"गुण, सत्कर्म या पुण्यकार्य"
वृषः
पुं*
- -
कर्ण का नामान्तर
वृषः
पुं*
- -
विष्णु का नाम
वृषः
पुं*
- -
एक विशेष औषधि का नाम
वृषः
पुं*
- वृष+क
जल
वृषः
पुं*
- वृष+क
भवनिर्माण के लिए भूखंड
वृषः
पुं*
- वृष+क
नरजन्तु
वृषः
पुं*
- वृष+क
साँड
Wordnet
Sanskrit
Synonyms:
वासकः, वैद्यमाता, सिंही, वाशिका, वृषः, अटरूषः, सिंहास्यः, वासिका, वाजिदन्तकः, वाशा, वृशः, अटरुषः, वाशकः, वासा, वासः, वाजी, वैद्यसिंही, मातृसिंहौ, वासका, सिंहपर्णी, सिंहिका, भिषङ्माता, वसादनी, सिंहमुखी, कण्ठीरवी, शितकर्णी, वाजिदन्ती, नासा, पञ्चमुखी, सिंहपत्री, मृगेन्द्राणी
noun
औषधीयक्षुपः यः चतुष्पादम् आरभ्य अष्टपादपर्यन्तं विस्तृतः भवति एवं श्वेतपुष्पाणि भवन्ति।
"वासकस्य फलं पादोनचतुरङ्कुलं उन्नतं रोमावृतं भवति एवं प्रत्येकस्मिन् फले बीजचतुष्टयं भवति।"
Synonyms:
शत्रुः, रिपुः, वैरिः, सपत्नः, अरिः, द्विषः, द्वेषणः, दुर्हृद्, द्विट्, विपक्षः, अहितः, अमित्रः, दस्युः, शात्रवः, अभिघाती, परः, अरातिः, प्रत्यर्थो, परिपन्थी, वृषः, प्रतिपक्षः, द्विषन्, घातकः, द्वेषी, विद्विषः, हिंसकः, विद्विट्, अप्रियः, अभिघातिः, अहितः, दौहृदः
noun
येन सह शत्रुता वर्तते।
"शत्रुः अग्निश्च दुर्बलः नास्ति।"
Synonyms:
वृषभः, ऋषभः, वृषः, पुङ्गवः, बलीवर्दः, उक्षा, सौरभेयः, गोनाथः, ककुद्मान्, भद्रः, उस्रः
noun
नरजातीयः गौः यं कृषकः यानादिभिः युनक्ति।
"वृषभः कृषकस्य कृते अतीव उपयुक्तः अस्ति।"
Synonyms:
मूषकः, मूषिकः, मूषः, आखुः, इन्दुरः, इन्दुरुः, उन्दुरः, उन्दुरु, गिरिः, गिरिका, दीना, विलेशयः, वज्रदन्तः, धान्यारिः, चिक्का, कुन्दुः, कुहनः, कर्वः, काचिघ, तुटुम, दहरः, वृषः, शङ्कुमुखः, सुषिरः, स्तेयी, मुष्मः
noun
जन्तुविशेषः-यः गृहे कृषीक्षेत्रे वा बिले वसति तथा यः गजाननस्य वाहनम्।
"तेन मूषकाणां हननार्थम् औषधं क्रीतम्।"
शब्दकल्पद्रुमः
Sanskrit
वृषः,
पुं,
(वर्षति सिञ्चति रेत इति वृष सेचने+ कः ।) पुरुषगवः एँडे इति भाषा तत्-र्य्यायः उक्षा भद्रः वलीवर्द्दः ऋष भः ५वृषभः अनड्वान् सौरभेयः गौः ।इत्यमरः
शृङ्गी १० ककुद्वान् ११ इतिशब्दरत्नावली
शिखी १२ गन्धमैथुनः १३पुङ्गवः १४ इति जटाधरः
*
अस्यलक्षणादि यथा, --“अश्वेभलक्षणे ह्युक्त्वा वक्ष्यन्तेऽन्ये चतुष्पदाः ।गावः कृतयुगे सृष्टाः स्वयमेव स्वयम्भुवा ।ब्रह्मक्षत्त्रियविट्शूद्रजातिभेदाश्चतुर्व्विधाः
शुक्लाङ्गाः शुचयोऽक्रुद्धा मृदवः शुद्धचेतसः ।अल्पाशिनो बहुबला वृषभा ब्रह्मजातयः
द्वयोर्लक्षणसम्बन्धात् द्विजातिर्व्वृषभो भवेत् ।त्रिलक्षणसमावेशात् त्रिगुणः वृषाधमः
पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिनः ।यदृच्छाभोजिनः क्षीणा वृषभा वैश्यजातयः
कृष्णाङ्गाः क्रूरहृदया अपवित्राः सदाशिनः ।वृहद्वृषणरोषाश्च वृषभाः शूद्रजातयः
द्वयोर्लक्षणसम्पर्कात् द्विजातिर्व्वृषभो भवेत्
*
वात्स्यस्तु ।“पृथ्वीतले समुत्पन्ना गजाश्वा ये चतुष्पदाः ।गुणत्रयविभेदेन तेषां भेदत्रयं भवेत् ।एतन्मतानुसारेण भोजः प्राह महीपतिः
ये शुक्लाः शुचयः शुद्धा भृशं भारवहा अपि ।बह्वाशिनः स्वल्परोषास्ते वृषाः सात्त्विकामताः
व्यक्ताव्यक्तरुषः शुद्धा दृढा भारवहाः शुभाः ।बह्वाशिनो बहुबलास्ते वृषा राजसा मताः
विवर्णा विकृताङ्गाश्च निर्ब्बला स्वल्पभोजिनः ।अपवित्रा बृहद्रोषास्ते वृषास्तामसा मताः
लक्षणद्वयसम्बन्धात् द्विगुणो वृषभो भवेत् ।त्रिलक्षणसमावेशात् त्रिगुणः वृषाधमः
*
अथ गुणाः ।“नीलः शुभो ध्वजो वामः क्षेमो भद्रः शिवःस्थिरः ।भोजदेवेन लिखिता इत्यष्टौ वृषभे गुणाः
”तद्यथा, --“श्वेतादन्यतरो वर्णः श्वेतः खुरविषाणयोः ।ललाटपुच्छयोः श्वेतः नीलः शुभमावहेत्
यो हृष्टपुष्टो रम्यात्मा सुविभक्ततनुः शुभः ।कुरुते धनवृद्धिं दोषैर्मुक्तो यदा त्वयम्
वर्णस्तु सहजः पुच्छो रम्यश्च ध्वज उच्यते ।भर्त्तुः कुलं धनं धान्यं विवर्द्धयति निश्चयम्
पूर्व्वार्द्धे चोन्नतो यस्तु परार्द्धेचैव नीचकः ।निर्द्दोषो वाम इत्येष कुरुते रिपुसंक्षयम्
चन्द्रकं दृश्यते यस्य ललाटे देवनिर्म्मितम् ।क्षेमनामा वृषः कुर्य्याद् धनधान्यविवर्द्धनम्
आवर्त्ताश्च शुभा यस्य शुक्तयश्चापि वा शुभाः ।भद्रनामा वृषः कुर्य्यात् भर्त्तुः सर्व्वार्थसाधनम्
आवर्त्तशुक्तिविज्ञानं हयेषु वृषभेष्वपि ।पादाः सर्व्वेसिता यस्य पुच्छभालौ सितौ तथा
महोक्षा चायते नेत्रे कर्णौ चातिलघू स्थिरौ ।मुष्कयोः कृष्णता चैव शृङ्गे चातिशुभे दृढे
तनुरोमा महावेगः स्निग्धगम्भीरनिस्वनः ।शिव इत्येव कथितः शिवं प्रकुरुते ध्रुवम्
चरणाः पञ्जराः स्थूलाः शिरः शुभ्रं भवेत्तनुः ।आपुच्छादायता शुभ्रा रेखा मस्तकगामिनी
रक्तताल्वोष्ठजिह्वस्तु स्थिरः स्थैर्य्यकरः श्रियाः ।नाल्पपुण्येन लभ्योऽयं वृषभः शुभलक्षणः
गर्गस्तु ।“महत्त्वं तनुलोमत्वं पुष्टता भारवाहिता ।कुमारकत्वमित्येते वृषभाणां गुणा मताः
*
अथ दोषाः ।“व्यङ्गो विवर्णो विषमः श्वित्री धूम्रश्चलः खरः ।एते सप्त महादोषा वृषभाणामुदीरिताः
विषाणौ विषमौ यस्य खुराश्च विषमास्तथा ।नेत्रकान्तेऽथवा गात्रे पञ्जरे वैकृतं भवेत् ।व्यङ्ग इत्येष कथितो धनधान्यविनाशनः
पूर्व्वार्द्ध मन्यवर्णन्तु परार्द्धञ्चान्यवर्णकम् ।पृष्ठं क्रोडो विवर्णो वा विवर्णः कुलनाशनः
परार्द्धमुन्नतं यस्य पूर्व्वार्द्धञ्चातिनीचकम् ।गच्छतश्चरणौ लग्नौ शब्दायेते खरस्वरः ।विषमो नाम वृषभः सम्पत्तिक्षयकारकः
हिमकुन्देन्दुसङ्काशा गात्रेषु लोमबिन्दवः ।श्वित्री नाम महादोषो दूरतस्तं परित्यजेत्
शृङ्गाग्रे दीपिकाकारं ज्वलते केकरे दृशौ ।कपिलः पुच्छभागश्चेत् धूम्रो मृत्युमावहेत्
५दन्तशृङ्गखुरादीनां यद्येकोऽपि चलेत् स्वयम् ।मुष्को वा चलते यस्य चलः कुलनाशनः
आवर्त्ताः शुक्तयो रेखा विषमाश्च विसंस्थिताः ।न्यूनाधिकाः पञ्जरास्तु खुरास्तु विषमास्तथा
गुदान्मेढ्रान्तरे यावद्रेखा व्यक्तेव दृश्यते ।विस्तृते विषमे घोणे जिह्वा चैवासिता भवेत् ।स खरो दूरतस्त्याज्यो भर्त्तुः सर्व्वार्थनाशनः
स्वल्पता दीर्घरोमत्वं क्षीणता भारवाहिता ।व्यङ्गत्वं मारकत्वञ्च वृषदोषा उदाहृताः
*
ब्रह्मादिजातिभेदेन चत्वारो ये वृषा मताः ।चतुर्व्विधानां लोकानां एव स्युः शुभावहाः
यो मोहादन्यजातीयं कुरुते वृषभं नरः ।तस्य नश्यन्ति वित्तानि धनमायुः कुलं बलम्
वातपित्तकफोद्रेका व्याधयो ये वृषे मताः ।तेषामुपशमः कार्य्यो यथास्वं विधिना बुधैः
”इति वृषपरीक्षा इति भोजराजकृतयुक्ति-कल्पतरुः
*
अस्य लक्षणं उत्सर्गविधिश्चयथा, --मनुरुवाच ।“भगवन् श्रोतुमिच्छामि वृषभस्य लक्षणम् ।वृषोत्सर्गविधिञ्चैव तथा पुण्यफलं महत्
मत्स्य उवाच ।धेनुमादौ परीक्षेत सुशीलां लक्षणान्विताम् ।अव्यङ्गामपरिक्लिष्टां जीववत्सामरोगिणीम्
स्निग्धवर्णां स्निग्धखुरां स्निग्धशृङ्गां तथैव ।मनोहराकृतिं सौम्यां सुप्रमाणामनुद्धताम्
आवर्त्तैर्द्दक्षिणावर्त्तैर्मुक्ता दक्षिणतश्च सा ।वामावर्त्तैर्वामतश्च विस्तीर्णजघना तथा
मृदुसंहतताम्रोष्ठीं रक्तजिह्वां सुपूजिताम् ।अश्यावदीर्घस्फुटिता रक्तजिह्वा तथा या
अस्रावाविलनेत्रा सफैरविरलैर्दृढैः ।वैदूर्य्यमधुवर्णैश्च जलवुद्वुदसन्निभैः
रक्तस्निग्धैश्च नयनैस्तथा रक्तकनीनिकैः ।सप्त चतुर्द्दश दन्तास्तथा चाश्यामतालुका
षडुन्नता सुपार्श्वोरू पृथु पञ्च समायताः ।अष्टायतशिरोग्रीवाधराजन्मसुलक्षणा
मनुरुवाच ।षडुन्नताः के भगवन् ! के पञ्च समायताः ।आयताश्च तथैवाष्टौ धेनूनां के शुभावहाः
मत्स्य उवाच ।उरः पृष्ठं शिरः कुक्षिः श्रोणी वसुधाधिप ।षडुन्नतानि धेनूनां पूजयन्ति विचक्षणाः
कर्णनेत्रललाटश्च पञ्च भास्करनन्दन ! ।समायतानि शस्यन्ते पुच्छं सास्ना सक्थिनी
चत्वारश्च समा राजन्नेवमष्टौ मनीषिभिः ।शिरोग्रीवायतास्त्वेते भूमिपाल स्मृता दश
तस्याः सुतं परीक्षेत वृषभं लक्षणान्वितम् ।उन्नतस्कन्धककुदमृजुलाङ्गूलकम्बलम्
महाकटितटस्कन्धं वैदूर्य्यमणिलोचनम् ।प्रबालगर्भशृङ्गाग्रं सुदीर्घपृथुबालधिम्
नवाष्टदशसंख्यैर्वा तीक्ष्णाग्रैर्द्दशनैः शुभैः ।मल्लिकाक्षश्च मोक्तव्यो गृहेऽपि धनधान्यदः
वर्णतस्ताम्रकपिलो ब्राह्मणस्य प्रशस्यते ।श्वेतो रक्तश्च कृष्णश्च गौरः पाटल एव
भद्रिणस्ताम्रपृष्ठश्च सबलः पञ्चकालकः ।पृथुकर्णो महास्कन्धः श्लक्ष्णरोमा यो भवेत्
रक्ताक्षः कपिलो यश्च रक्तशृङ्गतलो भवेत्
श्वेतोदरः कृष्णपृष्ठो ब्राह्मणस्य प्रशस्यते
स्निग्धरक्तेन वद्धेन क्षत्त्रियस्य प्रशस्यते ।काञ्चनाभेन वैश्यस्य कृष्णेनाप्यन्त्यजन्मनः
यस्य प्रागायते शृङ्गे भ्रूमुखाभिमुखे सदा ।सर्व्वेवामेव वर्णानां सर्व्वार्थसाधकः
मार्ज्जारपादः कपिलो धन्यः कपिलपिङ्गलः ।श्वेतोमार्ज्जारपादस्तु धन्यो मणिनिभेक्षणः
करटः पिङ्गलश्चैव श्वेतपादस्तथैव ।सर्व्वपादशिरो यश्च द्बिपादश्वेत एव
कपिञ्जलनिभो धन्यस्तथा तित्तिरिसन्निभः ।आकर्णमूलात् श्वेतस्तु मुखं यस्य प्रकाशते
नन्दीमुखः विज्ञेयो रक्तवर्णो विशेषतः ।श्वेतञ्च जठरं यस्य भवेत् पृष्ठञ्च गोपतेः
ऋषभः समुद्राक्षः सततं कुलवर्द्धनः ।मल्लिकापुष्पचित्रस्तु धन्यो भवति पुङ्गवः
कमलैर्मण्डलैश्चापि चित्रो भवति भाग्यदः ।अतसीपुष्पवर्णस्तु तथा धन्यतरः स्मृतः
*
एते धन्यास्तथाधन्यान् कीर्त्तयिष्यामि तेऽनघ ।कष्णताल्वोष्ठदशना रूक्षशृङ्गशफाश्च ये
अव्यक्तवर्णा ह्रस्वाश्च व्याघ्रभस्मनिभाश्च ये ।ध्माङ्क्षगृध्रसवर्णाश्च तथा मूषिकसन्निभाः
कुण्ठाः काणास्तथा खञ्जाः केकराक्षास्तथैवच ।विषमश्वेतपादाश्च उद्भ्रान्तनयनास्तथा
नैते वृषाः प्रमोक्तव्या धार्य्यास्तथा गृहे ।मोक्तव्यानाञ्च धार्य्याणां भूयो वक्ष्यामि लक्ष-णम्
*
स्वस्तिकाकारशृङ्गाश्च मेधौघसदृशस्वनाः ।महाप्रमाणाश्च तथा मत्तमातङ्गगामिनः
महोरस्का महोत्साहा महाबलपराक्रमाः ।शिरः कर्णौ ललाटञ्च बालधिश्चरणानि
नेत्रे पार्श्वे कृष्णानि शस्यन्ते चन्द्रभांसि ।श्वेतान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः
भूमौ कर्षति लाङ्गूलं प्रलम्बस्थूलबालधिः ।पुरस्तादुद्यते नीलवृषभश्च प्रशस्यते
शुक्तिध्वजपताकाभा येषां राजी विराजते ।अनड्वाहश्च ते धन्या वित्तसिद्धिजयावहाः
प्रदक्षिणं निवर्त्तन्ते स्वयं ये विनिवर्त्तिताः ।समुन्नतशिरोग्रीवा धन्यास्ते यूथवर्द्धनाः
रक्तशृङ्गाग्रनयनः श्वेतवर्णो भवेद्यदि ।सफैः प्रबालसदृशैर्नास्ति धन्यतरस्ततः
एते धार्य्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः ।धारिता यदि वा मुक्ता धनधान्यविवर्द्धनाः
चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः ।लाक्षारससवर्णाश्च तन्नीलमिति निर्द्दिशेत्
वृष एव मोक्तव्यो धार्य्यो गृहे भवेत् ।तदर्थमेवाचरति लोके गाथा पुरातनी
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।गौरीं वाप्युद्वहेद्भार्य्यां नीलं वा वृषमुत्सृजेत्
एवं वृषं लक्षणसंप्रयुक्तंगृहोद्भवं क्रीतमथापि राजन् ।मुक्त्वा शोचेन्मरणं महात्मामोक्षे मतिञ्चाहमतोऽभिधास्ये
”इति मात्स्ये वृषभलक्षणं नाम १८१ अध्यायः
जलपानार्थमागतवृषस्य निवारणे दोषो यथा, “गवां तृष्णाभिभूतानां पानार्थमभिधावताम् ।अन्तरायो भवेद्यस्तु भवेद्ब्रह्मघातकः
”इति कर्म्मलोचनम्
*
अस्य दानविधिर्यथा, --वशिष्ठ उवाच ।“यथेश्वरो दरिद्रो वा करोति विधिना नृप ।दानं सर्व्वगुणोपेतं तच्छृणुष्व यथातथम्
भारादित्रिपलान्तञ्च वृषं कृत्वा विधानतः ।युतं धेन्वाथवा दद्याच्छक्तितो नृपसत्तम
यन्मया धेनवः प्रोक्ता वृषास्तावन्त एव हि ।हरावेते नियोज्याः स्युर्हराय तथा वृषाः
सर्व्वाभावात्ततो राजन् तिलपात्राणि नित्यशः ।सर्व्वपापविनाशाय दीयन्ते नृपसत्तम
गोमयेन समालिप्य यववस्त्रसमावृते ।वृषं हेममयं तत्र रौप्यं वा रत्नसंयुतम्
तस्य नीलमयैः शृङ्गैर्मौक्तिकाक्षिण्यथो रदाः ।द्वात्रिंशच्छुभवज्राणि विद्रुमौष्ठौ सुनासिका
मारकती विनिर्द्दिष्टा कर्णौ चैवास्मकौ मतौ ।पद्मरागस्य वै पादाः खुरा रौप्यमयास्तथा
राजतान्यस्य रोमाणि क्षौमवस्त्रेण कम्बलम् ।पट्टेन पुच्छमुद्दिष्टं सर्वेषामप्ययं विधिः
वृषणौ स्फटिकस्यापि लिङ्गे मणिः प्रकीर्त्तितः ।यथा धेनुस्तथानड्वान् सुवर्णस्य तु कारयेत्
सर्व्वासां फलमाप्नोति धेनूनां वृषभप्रदः ।राज्ञः विभवाद्दानं भक्त्या यः प्रतिपादयेत्
वृषभस्याप्यशक्तौ हि तदनन्तफलं स्मृतम् ।निःस्वो वाप्येवमेवं हि कृत्वा व्रतमतन्द्रितः ।तत्फलं समवाप्नोति स्वल्पदानान्न संशयः
”इति वह्निपुराणे वृषदानाध्यायः
*
तद्दानफलं यथा, --“कन्यादानं वृषोत्सर्गं तीर्थसेवां श्रुतं तथा ।ये कुर्व्वन्ति गृहस्थास्तु ते तद्बिषयोपगाः
”इति तत्रैव कन्यादाननामाध्यायः
*
अपि ।ब्रह्मोवाच ।“वृषगावौ समादाय युवानौ लक्षणान्वितौ ।हेमशृङ्गौ शफे रौप्ये सवस्त्रौ पूजयेन्मुने !
शिवोमां पूजयित्वा तु तद्दिने यः प्रयच्छति ।शिवभक्ताय विप्राय रोहिण्यां वा मृगेण वा
वियोगो भवेत्तस्य सुतपत्नीपतेः कृतः ।वातरंहसवैमानैर्गच्छेच्छिवपुरं द्बिज
तत्र भोगांश्चिरं भुक्त्वा इह आगत्य जायते ।समृद्धौ धनधान्याभ्यां पुत्त्रमित्रसमाकुलः
यो वा रत्नसमायुक्तं गोयुगं पूजयेन्मुने ।प्रयच्छति शिवोमा प्रीयेतां भावितात्मनः
सर्व्वपापदुःखाभ्यां विमुक्तः क्रीडते सदा ।इह लोके भवेद्धन्यो देहान्ते परमं पदम्
”इति देवीपुराणे गोरत्नव्रतनामाध्यायः
*
शिववृषकारणं यथा, --श्रीकृष्ण उवाच ।“अथ गर्व्वान्वितो रुद्रो हन्तुं त्रिपुरमुल्वणम् ।मत्वा मनसि संहर्त्ता सर्व्वेषां जगतामिति ।कोऽयं पतङ्गवद्दैत्य इति मत्वा ययौ रणम् ।विहाय शूलं मद्दत्तं मदीयं कवचं परम्
चिरं बभूव समरं वर्षमेकं दिवानिशम् ।न कोऽपि जेतुं कं शक्तो द्वौ समौ समरेसदा
पृथिव्याञ्च रणं कृत्वा दैत्येन्द्रो मायया प्रिये ।अत्यूर्द्ध्वञ्च समुत्तस्थौ पञ्चाशत्कोटियोजनम्
उत्तस्थौ शङ्करस्तूर्णं हन्तुं दैत्यं जगत्प्रभुः ।जघान मुष्टिना रुद्रो दानवेन्द्रं प्रकोपतः
वज्रमुष्टिप्रहारेण सद्यो मूर्च्छामवाप सः ।क्षणेन चेतनां प्राप्य कोपाद्दानवपुङ्गवः ।शिवं सयानमुत्तोल्य पातयामास भूतले
तदाहं कलया शीघ्रं वृषरूपं विधाय ।सयानं शङ्करं धृत्वा विषाणाभ्यामुरुक्रमम् ।ददौ तस्मै स्वकवचं स्वशूलमरिमर्द्दनम्
मया दत्तेन शूलेन जघान त्रिपुरं हरः ।मामेव दर्पहन्तारं तुष्टाव व्रीडितः पुनः
तत्याज शङ्करो दर्पं विघ्नबीजं ततो विभुः ।ज्ञानानन्दस्वरूपश्च निर्लिप्तः सर्व्वकर्म्मसु
ततोऽहं वृषरूपेण वहामि तेन तं प्रियम् ।मम प्रियतमो नास्ति त्रैलोक्येषु शिवात् परः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३६ अध्यायः
मेषादिद्वादशराश्यन्तर्गतद्वितीयराशिः तत्प-र्य्यायः तावुरिः अस्य विशेषसंज्ञा ।सौम्यः अङ्गना युग्मम् समः स्थिरः ।पुष्करः अयं चतुष्पात् निशासु ग्राम्यः ।दिवा वन्यः ह्रस्वाख्यः दक्षिणदिक्पतिः ।निशाख्यः पृष्ठोदयाख्यः अस्याधिष्ठात्री देवतावृषः कृत्तिकापादत्रयरोहिणीसमुदायमृगशि-रोऽर्द्धेनैतद्राशिर्भवति शीलस्वभावः ।सुन्दरभूमिस्वामी वातप्रकृतिः श्वेतवर्णः ।वैश्यजातिः महाशब्दकरः मध्यमस्त्रीसङ्गः ।मध्यमसन्तानश्च एतद्राशिजात एतादृग्-भवति दाता वाग्दुःस्वरः निर्भयः पर-दाराभिलाषी इति बृहज्जातकादयः
*
एतद्राशिजातफलम् ।“स्थिरमतिं सुमतिं कमनीयतांकुशलतां हि नृणामुपभोगताम् ।वृषगतो हिमगुर्भृशमादिशेत्सुकृतिनः कृतिनश्च सुखान्यपि
*
तल्लग्नजातफलम् ।“वृषलग्ने भवेज्जातो गुरुभक्तः प्रियंवदः ।गुणी कृती धनी लुब्धः शूरः सर्व्वजनप्रियः
”इति कोष्ठीप्रदीपः
*
चतुर्व्विधपुरुषमध्ये पुरुषविशेषः (यथा, --“पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा ।शशो मृगो वृषोऽश्वश्च स्त्रीपुसोर्जातिलक्षणम्
”इति रतिमञ्जरी
)तस्य लक्षणं यथा, --“बहुगुणबहुबन्धः शीघ्रकामो नताङ्गःसकलरुचिरदेहः सत्यवादी वृषोऽयम्
”इति रतिमञ्जरी
*
एकादशमन्वन्तरीयेन्द्रः यथा, --“रुद्रपुत्त्रस्य ते पुत्त्रान् वक्ष्याम्येकादशस्य तु ।सर्व्वत्रगः सुशर्म्मा देवानीकः पुरुर्गुरुः
क्षत्त्रबद्धा दृढायुश्च आर्द्रकः पुत्त्रकस्तथा ।विहङ्गमाः कामगमा निर्म्माणरुचयस्तथा
एकैकस्त्रिंशकस्तेषां गणाश्चेन्द्रश्च वै वृषः ।दशग्रीवो रिपुस्तस्य स्त्रीरूपी घातयिष्यति
”इति गारुडे ८७ अध्यायः
(कामान् वर्षतीति वृष + कः ।) धर्म्मः ।(यथा, मनुः १६ ।“वृषो हि भगवान् धर्म्मस्तस्य यः कुरुते ह्यलम् ।वृषलं तं विदुर्द्दवास्तस्याद्धर्म्मं लोपयेत्
”)शृङ्गी उत्तरपदस्थश्चेत् श्रेष्ठः (यथा, हरि-वंशे १४१ ३८ ।“शारदं वर्षणं यद्बत् सहेद्बीरो गवांपतिः ।तद्वद्यदुवृषः सेहे वाणवर्षमरिन्दमः
”)मूषिकः शुक्रलः वास्तुस्थानभेदः इतिमेदिनी
वासकः इति विश्वः
श्रीकृष्णः ।इति त्रिकाण्डशेषः
शत्रुः इति जटाधरः
कामः बलवान् इत्यनेकार्थकोषः
ऋषभ-नामौषधम् इति राजनिर्घण्टः
(पतिः ।यथा, काशीखण्डे ।“स्ववृषं या परित्यज्य परवृषे वृषायते ।वृषली सा हि विज्ञेया शूद्री वृषली भवेत्
”)