वृन्दावनं (vRndAvanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritवृन्दावनं, स्वनामख्याततीर्थम् । तन्नामकारणंयथा, --श्रीनारायण उवाच ।“पुरा केदारनृपतिः सप्तद्वीपपतिः स्वयम् ।आसीत् सत्ययुगे ब्रह्मन् सत्यधर्म्मरतः सदा ॥
स रेमे सह नारीभिः पुत्त्रपौत्त्रगणैः सह ।पुत्त्रानिव प्रजाः सर्व्वाः पालयामास धार्म्मिकः ॥
कृत्वा शतक्रतुं राजा लेभे त्विन्द्रत्वमीप्सितम् ।कृत्वा नानाविधं पुण्यं फलकाङ्क्षी न च स्वयम् ॥
नित्यं नैमित्तिकं सर्व्वं श्रीकृष्णप्रीतिपूर्व्वकम् ।केदारतुल्यो राजेन्द्रो न भूतो भविता पुनः ॥
पुत्त्रेषु राज्यं संन्यस्य प्रिया त्रैलोक्यमोहिनी ।जैगीषव्योपदेशेन जगाम तपसे वनम् ॥
हरेरैकान्तिको भक्तो ध्यायते सन्ततं हरिम् ।शश्वत् सुदर्शनं चक्रमस्ति यत्सन्निधौ मुने ॥
चिरं तप्त्वा नृपश्रेष्ठो गोलोकञ्च जगाम सः ।केदारनामतीर्थं तत्तन्नाम्ना च बभूव ह ॥
तत्राद्यापि मृतः प्राणी सद्यो मुक्तो भवेत् ध्रुवम् ।कमलांशा तस्य कन्या नाम्ना वृन्दा तपस्विनी ॥
न वव्रे सा वरं कञ्चित् योगशास्त्रविशारदा ।दत्तं दुर्व्वाससा तस्यै हरेर्मन्त्रं सुदुर्ल्लभम् ॥
सा विरक्ता गृहं त्यक्त्वा जगाम तपसे वनम् ।षष्टिं वर्षसहस्राणि तपस्तेपे सुनिर्ज्जने ॥
आविर्ब्बभूव श्रीकृष्णस्तत्पुरो भक्तवत्सलः ।प्रसन्नवदनः श्रीमान् वरं वृण्वित्युवाच सः ॥
दृष्ट्वा सा राधिकाकान्तं शान्तं सुन्दरविग्रहम् ।मूर्च्छां संप्राप सा सद्यः कामबाणप्रपीडिता ॥
सा च शीघ्रं वरं वव्रे पतिस्त्वं मे भवेति च ।ओमित्युक्त्वा च रहसि चिरं रेमे तया सह ॥
सा जगाम च गोलोकं कृष्णेन सह कौतुकात् ।राधासमा सा सौभाग्यात् गोपीश्रेष्ठा बभूव सा ॥
वृन्दा यत्र तपस्तेपे तत्तु वृन्दावनं स्मृतम् ।वृन्दा यत्र कृता क्रीडा तेन वा मुनिपुङ्गव ॥
* ॥
अथान्यञ्चेतिहासञ्च शृणुष्व वत्स पुण्यदम् ।येन वृन्दावनं नाम निबोध कथयामि ते ॥
कुशध्वजस्य कन्ये द्वे धर्म्मशास्त्र विशारदे ।तुलसीवेदवत्यौ च विरक्ते भवकर्म्मणि ॥
तपस्तप्त्वा वेदवती प्राप नारायणं परम् ।सीता जनककन्या सा सर्व्वत्र परिकीर्त्तिता ॥
तुलसी च तपस्तप्त्वा वाञ्छां कृत्वा हरिं पतिम् ।दैवाद्दुर्व्वाससः शापात् प्राप्य शङ्खासुरं पतिम् ॥
पश्चात् संप्राप कमलाकान्तं कान्तं मनोहरम् ।तस्याश्च तपसः स्थानं उदितञ्च तपोधन ।तेन वृन्दावनं नाम प्रवदन्ति मनीषिणः ॥
* ॥
अथवा ते प्रवक्ष्यामि परं हेत्वन्तरं शृणु ।येन वृन्दावनं नाम पुण्यक्षेत्रञ्च भारते ॥
राधाषोडशनाम्नाञ्च वृन्दा नाम श्रुतौ श्रुतम् ।तस्याः क्रीडावनं रम्यं तेन वृन्दावनं स्मृतम् ॥
गोलोके प्रीतये तस्याः कृष्णेन निर्म्मितं पुरा ।क्रीडार्थं भुवि तन्नाम्ना वनं वृन्दावनं स्मृतम् ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे वृन्दावन-प्रस्तावः १७ अध्यायः ॥
* ॥
अथ वृन्दावनवर्णनम् ।ईश्वर उवाच ।“गुह्याद्गुह्यतरं हृद्यं परमानन्दकारणम् ।अत्यद्भुतं रहस्यानां रहस्यं परमं परम् ॥
दुर्ल्लभानाञ्च परमं दुर्ल्लभं मोहनं परम् ।सर्व्वशक्तिमयं देवि सर्व्वस्थानेषु गोपितम् ॥
सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यन्तवल्लभम् ।नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितम् ॥
पूर्णब्रह्मसुखैश्वर्य्यनित्यमानन्दमव्ययम् ।वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥
गोलोकैश्वर्य्यं यत्किञ्चित् गोकुले तत्प्रकीर्त्तितम् ।वैकुण्ठादिवैभवं यत् द्बारकायां प्रकाशयेत् ॥
यद्ब्रह्मपरमैश्वर्य्यं नित्यं वृन्दावनाश्रयम् ।तस्मात् त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता ॥
यत् स्यान्माथुरकं धाम विष्णोरेकान्तवल्लभम् ।स्वस्थानमधिकं नामधेयं माथुरमण्डलम् ॥
निगूढं परमं स्थानं पुर्य्यभ्यन्तरसंस्थितम् ।सहस्रपत्रकमलाकारं माथुरमण्डलम् ॥
विष्णुचक्रपरिभ्रामद्धाम वैष्णवमद्भुतम् ।कर्णिकापत्रविस्तारं रहस्यक्रममीरितम् ॥
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ।भद्रश्रीलौहभाण्डीरमहातालखदीरकाः ॥
बहुलं कुमुदं काम्यं मधु वृन्दावनं तथा ।द्वादशैता वने संख्याः कालिन्द्याः सप्त पश्चिमे ॥
पूर्व्वे पञ्चवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् ।महावनं गोकुलाख्यं रम्यं मधुवनं तथा ॥
पूर्व्वे तु पञ्च भद्राद्यास्तालाद्याः सप्त पश्चिमे ।अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् ॥
कदम्बखण्डिकं नन्दवनं नन्दीश्वरं तथा ।नन्दनानन्दखण्डञ्च पालाशाशोककेतकम् ॥
सुगन्धिमादनं कैलममृतं भोजनस्थलम् ।सुखप्रसाधनं वत्सहरणं शेषशायनम् ॥
श्यामपूश्च दधिग्रामं चक्रभानुपुरं तथा ।शङ्कितं विपदञ्चैव बालक्रीडञ्च धूसरम् ॥
केमुद्रुमं खरो वीरमुत्सुकञ्चापि नन्दनम् ।इत्थमेव वने संख्यास्त्रिंशच्चोपवनं स्मृतम् ॥
पूर्व्वोक्तं द्वादशारण्यं प्रधानं वनमुत्तमम् ।तत्रोत्तरे चतुर्थञ्च वनञ्च समुदाहृतम् ॥
नानाविधरसक्रीडानानालीलामयस्थलम् ।दलविस्पष्टविस्ताररहस्यक्रममीरितम् ॥
सहस्रपत्रकमलं गोकुलाख्य महत् पदम् ।कर्णिका तन्महद्धाम गोविन्दस्थानमुत्तमम् ॥
तत्रोपरि स्वर्णपीठे मणिमण्डपगण्डितम् ।तच्च तत्र क्रमाद्दिक्षु विदिक्षु दलभीरितम् ॥
यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ।तस्मिन् दले महापीठं निगमागमदुर्गमम् ॥
योगीन्द्रैरपि दुष्प्रापं सर्व्वात्मा यच्च गोकुलम् ।द्वितीयं दलमाग्नेयं तद्रहस्यं द्विधा तथा ॥
निकुञ्जककुटीवीरकुटीरौ तद्दले स्थितौ ।पूर्व्वदलं तृतीयं यत् प्रधानं स्थानमुच्यते ॥
गङ्गादिसर्व्वतीर्थानां स्पर्शाच्छतगुणं भवेत् ।चतुर्थदलमैशान्यां सिद्धपीठेप्सितप्रदम् ॥
कामयन् नूतना गोपी तत्र कृष्णपतिं लभेत् ।वस्त्रालङ्कारहरणं तद्दले समुदाहृतम् ॥
उत्तरे पञ्चमं प्रोक्तं दलं सर्व्वदलोत्तमम् ।द्वादशादित्यमत्रैव दलञ्च कर्णिकासमम् ॥
वायव्यन्तु दलं षष्ठं तत्र कालीह्रदः स्मृतः ।दलोत्तमोत्तमञ्चैव प्रधानस्थानमुच्यते ॥
सर्व्वोत्तमदलं श्रेष्ठं पश्चिमे सप्तमं दलम् ।यज्ञपत्नीगणानाञ्च तदीप्सितवरप्रदम् ॥
अघासुरस्य निर्व्वाणं चक्रे त्रिदशदर्शितम् ।ब्रह्ममोहनमत्रैव दलं ब्रह्महृदावहम् ॥
नैरृत्यान्तु दलं प्रोक्तमष्टमं व्योमघातनम् ।शङ्खचूडवधस्तत्र नानाकेलिरसस्थलम् ॥
श्रुतमष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम् ।श्रीमद्वृन्दावनं धन्यं यमुनायाः प्रदक्षिणम् ॥
शिवलिङ्गमधिष्ठाता दृष्टो गोपी श्वराभिधः ।तद्बाह्ये षोडशदलं श्रिया पूर्णं तदीरितम् ॥
सर्व्वासु दिक्षु यत् प्रोक्तं प्रादक्षिण्याद्यथाक्रमम् ।महत् पदं महद्धाम प्रधानं षोडशं दलम् ॥
प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् ।तस्मिन् मधुवनं प्रोक्तं तत्र प्रादुरभूत् स्वयम् ॥
चतुर्भुजो महाविष्णुः सर्व्वकारणकारणम् ।तत्राधिष्ठिततद्देवं मुनिश्रेष्ठ सनातनम् ॥
दलं द्वितीयमाख्यातं किञ्चिल्लीलारसस्थलम् ।खदिरारण्यमत्रैव दलञ्च समुदाहृतम् ॥
सर्व्वश्रेष्ठदलं प्रोक्तं माहात्म्यं कर्णिकासमम् ।तत्र गोवर्द्धने रम्ये नित्यानन्दरसाश्रये ॥
कर्णिकायां महालीला तल्लीला रसगह्वरे ।यत्र कृष्णो नित्यवृन्दाकाननस्य पतिर्भवेत् ॥
कृष्णो गोविन्दतां प्राप्तः किमन्यैर्ब्बहुभाषितैः ।दलं तृतीयमाख्यातं सर्व्वश्रेष्ठोत्तमोत्तमम् ॥
चतुर्थदलमाख्यातं महाद्भुतरसस्थलम् ।हरिर्यस्य पतिः साक्षान्नित्यं गोवर्द्धनः स्वयम् ॥
कदम्बखण्डी तत्रैव पूर्णानन्दरसाश्रयः ।स्निग्धं हृद्यं प्रियं रम्यं दलञ्च समुदाहृतम् ॥
नन्दीश्वरदलं रम्यं तत्र नन्दालयः स्मृतः ।कर्णिकादलमाहात्म्यं पञ्चमं दलमुच्यते ॥
अधिष्ठातात्र गोपालो धेनुपालस्ततः परम् ।दलं षष्ठं यद ख्यातं नत्र नन्दवनं स्मृतम् ॥
सप्तमं वकुलारण्यं दलं रम्यं प्रकीर्त्तितम् ।दलाष्टमं तालवनं तत्र धेनुवधः स्मृतः ॥
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्त्तितम् ॥
काम्यारण्यं दलं हृद्यं दशमं सर्व्वकारणम् ।ब्रह्मप्रसादनं तत्र विष्णुवृन्दं प्रदर्शितम् ॥
कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ।दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम् ॥
निर्व्वाणं सेतुबन्धस्य नानारसमयस्थलम् ।भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम् ॥
कृष्णक्रीडारसस्तत्र श्रीदामादिभिरावृतः ।त्रयोदशदलं श्रेष्ठं तत्र भद्रवनं स्मृतम् ॥
चतुर्द्दशदलं प्रोक्तं सर्व्वसिद्धिप्रदं स्थलम् ।श्रीवनं तत्र रुचिरं सर्व्वैश्वर्य्यस्य कारणम् ॥
कृष्णलीलामयदलं श्रीकीर्त्तिकान्तिवर्द्धनम् ।पञ्चदशदलं श्रेष्ठं तत्र लौहवनं स्मृतम् ॥
कथितं षोडशदलं माहात्म्यं कर्णिकासमम् ।महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम् ॥
बालक्रीडारसस्तत्र वत्सपालैः समावृतः ।पूतनादिवधस्तत्र यमलार्ज्जुनभञ्जनम् ॥
अधिष्ठाता तत्र बालगोपालः पञ्चमाब्दिकः ।नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः ॥
दलं प्रसिद्धमाख्यातं सर्व्वश्रेष्ठदलोत्तमम् ।कृष्णक्रीडा च किञ्जल्की विहारदलमुच्यते ।सिद्धप्रधानं किञ्जल्कं दलञ्च समुदाहृतम् ॥
* ॥
पार्व्वत्युवाच ।वृन्दावनस्य माहात्म्यं रहस्यं परमाद्भुतम् ।तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥
ईश्वर उवाच ।कथितं ते प्रियतमे गुह्याद्गुह्यतमोत्तमम् ॥
रहस्यानां रहस्यं यत्दुर्ल्लभानाञ्च दुर्ल्लभम् ।त्रैलोक्यगोपितं देवि ! देवेश्वरसुपूजितम् ॥
ब्रह्मादिवाञ्छितं स्थानं सुरसिद्धादिसेवितम् ।योगीन्द्रादिमुनीन्द्रादिसदातद्ध्यानतत्परम् ॥
अप्सरोभिश्च गन्धर्व्वैर्न्नृत्यगीतनिरन्तरम् ।श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयम् ॥
भूमिश्चिन्तामणिस्तोयममृतं रसपूरितम् ।वृक्षाः सुरद्रुमास्तत्र सुरभिवृन्दसेविताः ॥
स्त्री लक्ष्मीः पुरुषो विष्णुस्तदंशांशसमुद्भवः ।तत्र कैशोरवयसं नित्यमानन्दविग्रहम् ॥
गतिर्नाट्यं कथागानं स्मितवक्त्रं निरन्तरम् ।शुद्धसत्त्वैः प्रेमपूर्णैर्व्वैष्णवैस्तद्वनाश्रयम् ॥
पूर्णब्रह्मसुखे मग्नं स्फुरत्तन्मूर्त्तितन्मयम् ।प्रमत्तकोटिभृङ्गाद्यैः कूजत्कलमनोहरम् ॥
कपोतशुकसंगीतमुन्मत्तालिसहस्रकम् ।भुजङ्गशत्रुनृत्याद्यं सकान्ताभोदविभ्रमम् ॥
नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् ।सुस्निग्धसौरभाश्रान्तमुग्धीकृतजगत्त्रयम् ॥
मन्दमारुतसंसिक्तवसन्तऋतुसेवितम् ।पूर्णेन्दुनित्याभ्युदयं सूर्य्यमन्दांशुसेवितम् ।अदुःखसुखविच्छेदं जरामरणवर्ज्जितम् ।अक्रोधगतमात्सर्य्यं अभिन्नमनहंकृतम् ॥
पूर्णानन्दामृतरसं पूर्णप्रेमसुखावहम् ।गुणातीतं परं धाम पूर्णप्रेमस्वरूपकम् ॥
यत्र वृक्षादिपुलकैः प्रेमानन्दाश्रुवर्षितम् ।किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते ॥
गोविन्दाङ्ग्रिरजस्पर्शान्नित्यवृन्दावनं भुवि ।सहस्रदलपद्मस्य वृन्दारण्यं वराटकम् ॥
यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये ।गुह्याद्गुह्यतमं रम्यं मेध्यं वृन्दावनस्थितम् ॥
अक्षरं नित्यमानन्दं गोविन्दस्थानमव्ययम् ।गोविन्ददेहतोऽभिन्नं पूर्णब्रह्म सुखाश्रयम् ॥
मुक्तिस्तत्र यतः स्पर्शात्तन्माहात्म्यं किमुच्यते ।तस्मात् सर्व्वात्मना देवि ! हृदिस्थं कुरु तद्वनम् ॥
वृन्दावनविहारेषु कृष्णं कैशोरविग्रहम् ।अन्यारण्येषु स्थानेषु बाल्यपौगण्डयौवनम् ॥
कालिन्दीमकरन्दोऽस्य कर्णिकायाः प्रदक्षिणम् ।नानानिर्म्माणगम्भीरं जलसौरभमोहनम् ।आनन्दाहततन्मिश्रमकरन्दधनालयम् ।पद्मोत्पलाद्यैः कुसुमैर्नानावर्णैः समुज्ज्वलम् ॥
चक्रवाकादिविहगैर्म्मञ्जुनानाकलस्वनैः ।शोभमानं जलं रम्यं तरङ्गातिमनोहरम् ॥
तस्योभयतटी रम्या शुद्धकाञ्चननिर्म्मिता ।गङ्गाकोटीगुणः प्रोक्तो यत्र स्पर्शवराटकः ॥
कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः ।कालिन्दीकर्णिकाकृष्टमभिन्नमेकविग्रहम् ॥
”इति पाद्मे पातालखण्डे १ अध्यायः ॥
(इदमेव भगवत्याः पीठस्थानानामन्यतमम् ।यथा, देवीभागवते । ७ । ३० । ६९ ।“रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
