| YouTube Channel

वृद्धिश्राद्ध (vRddhizrAddha)

 
शब्दसागरः
English
वृद्धिश्राद्ध
n.
(-द्धं) A Śrāddha or sacrifice to progenitors on any pros-
perous occasion, as the birth of a son, &c.
E.
वृद्धि, and श्राद्ध cere-
mony so termed.
Capeller Eng
English
वृद्धिश्राद्ध
n.
a kind of funeral meal.
Yates
English
वृद्धि-श्राद्ध (द्धं) 1.
n.
A
shrāddha on
any pleasing occurrence.
Wilson
English
वृद्धिश्राद्ध
n.
(-द्धं) A Śrāddha or sacrifice to progenitors
on any prosperous occasion, as the birth of a son, &c.
E.
वृद्धि, and श्राद्ध ceremony so termed.
Monier Williams Cologne
English
वृद्धि—श्राद्ध
n.
a Śrāddha or offering to progenitors on any prosperous occasion (as on the birth of a son
&c.
),
RTL.
305
Apte Hindi
Hindi
वृद्धिश्राद्धम्
नपुं*
वृद्धिः-श्राद्धम् -
"पुत्रजन्मादि के उत्सवों पर पितरों का श्राद्ध, नान्दीमुख श्राद्ध"
L R Vaidya
English
vfdDi-SrAdDa {% n. %} an offering made to the deceased ancestors on any prosperous occasion.
Aufrecht Catalogus Catalogorum
English
वृद्धिश्राद्ध dh. W. p. 348.
शब्दकल्पद्रुमः
Sanskrit
वृद्धिश्राद्धं,
क्ली,
(वृद्धये यत् श्राद्धम् ।) वृद्धिनिमि-त्तकश्राद्धम् तत्तु अभ्युदयनिमित्तं पित्राद्युद्देशेनश्रद्धया अन्नादेर्द्दानम् तत् कर्म्मविशेषात् पूर्व्वंकर्त्तव्यं यथा निर्णयामृते मत्स्यपुराणम् ।“अन्नप्राशे सीमन्ते पुत्त्रोत्पत्तिनिमित्तके ।पुंसवने निषेके नववेश्मप्रवेशने
देववृक्षजलादीनां प्रतिष्ठायां विशेषतः ।तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्त्तितम्
”हलायुधधृतकूर्म्मपुराणम् ।“तीर्थयात्रासमारम्भे तीर्थात् प्रत्यागमेऽपि ।वृद्धिश्राद्धं प्रकुर्व्वीत बहुसर्पिःसमन्वितम्
”इति श्राद्धतत्त्वम्
आभ्युदयिकश्राद्धम् नान्दीमुखश्राद्धम् ।यथा, --“वृद्धिश्राद्धं प्रवक्ष्यामि पूर्व्ववत्तद्विशेषकम्
जातपुत्त्रमुखदर्शनादौ वृद्धिश्राद्धम् पूर्व्वाभि-मुखेषु दक्षिणोपवीतिषु मधुयववदरकुशै-र्देवतीर्थेन नमस्कारान्तेन दक्षिणोपचारेणकर्त्तव्यम् दक्षिणजानु गृहीत्वा ओँ अद्या-स्मदीयामुकवृद्धौ अमुकसगोत्राणामस्मत्पितृ-पितामहप्रपितामह-मातामहप्रमातामहवृद्ध-प्रमातामहानां अमुकशर्म्मणां सपत्नीकानांनान्दीमुखानां श्राद्धे कर्त्तव्ये वसुसत्यसंज्ञकानांविश्वेषां देवानां श्राद्धं सिद्धान्नेन युष्मासु मयाकर्त्तव्यमिति देवब्राह्मणामन्त्रणम् ओँ करिष्य-सीति तेनोक्ते इत्थमेव मातृपितामहीप्रपिता-महीनां देवब्राह्मणामन्त्रणम् तत ओँ अद्यअमुकसगोत्राया मत्प्रपितामह्या अमुकीदेव्यानान्दीमुख्याः श्राद्धं सिद्धान्नेन युष्मासु मयाकर्त्तव्यमिति प्रपितामहीब्राह्मणामन्त्रणम् ।करिष्यसीति तेनोक्ते इत्थमेव मातामह्यादि-ब्राह्मणामन्त्रणम् देवपितृसर्व्वदेवब्राह्मणश्राद्ध-करणानुज्ञापनम् आसने ओँ विश्वेदेवासआगत शृणुताम इमं हवं एवं वर्हिर्निषीदत ।ओँ विश्वेदेवाः शृणुतेमं हवं ये मेऽन्तरीक्षे यउपद्यविष्ट ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् वर्हिषि मादयद्धम् ओँ आगच्छन्तुइति विश्वेदेवावाहनं गन्धादिदानं अच्छि-द्रावधारणवाचनम् ततः प्रपितामहीप्रभृती-नामनुज्ञापनम् आसनम् आवाहनं गन्धादि-दानञ्च अच्छिद्रावधारणवाचनम् इत्थंपितामह्या मातुः ततः प्रपितामहादीनामनु-ज्ञापनमासनमावाहनं गन्धादिदानम् एवंवृद्धप्रपितामहादीनां अनुज्ञापनादिकरणम् ।ओँ वसुसत्यसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य एतदन्नंसघृतं सपानीयं सव्यञ्जनं सवदरं सदधि प्रति-सिद्धवर्ज्जितं नमः इति अन्नकल्पनम्
ओँ अमुकगोत्रे मत्पितामहि अमुकि देविनान्दीमुखि एतदन्नं सवदरं सदधि नमः एवंमातामहप्रमातामहेभ्यः ।” इति गारुडे २२३अध्यायः
अन्यच्च ।“तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते ।उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्गले
मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् ।ततो मतामहा राजन् विश्वेदेवास्तथैव
प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः ।प्राङ्मुखो निनयेत् पिण्डान् पूर्व्वया चतुरोयुतान्
सम्पन्नमित्यभ्युदये दद्यादर्घ्यं द्बयोर्द्वयोः ।युग्मा द्विजातयः पूज्याः वस्त्रकार्त्तस्वरादिना
तिलार्थन्तु यवैः कार्य्या नान्दीशब्दानुपूर्व्वकम् ।मङ्गलानि सर्व्वाणि वाचयेत् द्बिजपुङ्गवान्
एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धञ्च सर्व्वदा ।नमस्कारेण मन्त्रेण कुर्य्यादामान्नवान् बुधः
दानप्रधानः शूद्रः स्यादित्याह भगवान् प्रभुः ।दानेन सर्व्वकामाप्तिरस्य संजायते यतः
”इति मात्स्ये साधारणाभ्युदयकीर्त्तनो नाम१७ अध्यायः
विस्तारस्तु श्राद्धतत्त्वे श्राद्ध-विवेके द्रष्टव्यः
वाचस्पत्यम्
Sanskrit
वृद्धिश्राद्ध वृद्ध्यै अभ्युदयाय श्राद्धम् पुत्रादीनां संस्का-राङ्गे पार्वणविधिके नान्दीश्राद्धे नान्दीश्राद्धशब्दे दृश्यम्