| YouTube Channel

वृद्धिः (vRddhiH)

 
Apte
English
वृद्धिः [vṛddhiḥ], [वृध्-क्तिन्]
Growth, increase, augmentation, development
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः
R.*
3.22
तपोवृद्धि, ज्ञानवृद्धि
&c.
Waxing, increase of the digits of the moon
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः
R.*
5.16
Ku.*
7.1.
Increase in wealth, prosperity, affluence
वृद्धिकाले तु संप्राप्ते दुर्जनो$पि सुहृद्भवेत्
Pt.*
2.112.
Success, advancement, rise, progress
परवृद्धिमत्सरि मनो हि मानिनाम्
Śi.*
15.1.
Wealth, property.
A heap, quantity, multitude.
Interest
as in सरलवृद्धि, चक्रवृद्धि
&c.
वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम्
Ms.*
8.14.
Usury
वृद्ध्या कृषिवणिक्त्वेन... स्वाध्यायगणितं महत्
Mb.
* 12.62.9.
Profit, gain.
Enlargement of the scrotum.
Extension of power or revenue.
(In
gram.
) The increase or lengthening of vowels, the change of अ, इ, उ, ऋ, short or long, and लृ to आ, ऐ, औ, आर्, and आल् respectively.
The impurity caused by child-birth in a family (called जननाशौच q. v. ).
Cutting off.
(In law) Forfeiture (as of property).
(वृधु हिंसायाम्) Injury (पीडा)
नुदेद्वृद्धिसमृद्धी प्रतिकूले नृपात्मज
Mb.
* 5.135.29.
Elevation (of ground).
Prolongation (of life).Comp. -आजीवः, आजीविन्
m.
a usurer, moneylender. -जीवनम्, -जीविका the profession of usury
-द
a.
promoting prosperity. -पत्रम् a kind of razor
Suśr. -श्राद्धम् an offering made to the Manes on prosperous occasions, such as the birth of a son (नान्दीश्राद्ध).
Apte 1890
English
वृद्धिः [वृध्-क्तिन्] 1 Growth, increase, augmentation, development
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचंद्रमाः R. 3. 22
तपोवृद्धि
ज्ञानवृद्धि &c.
2 Waxing, increase of the digits of the moon
पर्यावपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाध्यतरो हि वृद्धेः R. 5. 16, Ku. 7. 1.
3 Increase in wealth, prosperity, affluence
Pt. 2. 112.
4 Success, advancement, rise, progress
परवृद्धिमत्सरि मनो हि मानिनां Śi. 15. 1.
5 Wealth, property.
6 A heap, quantity, multitude.
7 Interest
as in सरलवृद्धि, चक्रवृद्धि &c.
8 Usury.
9 Profit, gain.
10 Enlargement of the scrotum.
11 Extension of power or revenue.
12 (In gram.) The increas or lengthening of vowels, the change of अ, इउ, ऋ, short or long, and to आ, ऐ, औ, आर्, and आल् respectively.
13 The impurity caused by child-birth in a family (called जननाशौच q. v.).
14 Cutting off.
15 (In law) Forfeiture (as of property).
Comp.
आजीवः,
आजीविन् m. a usurer, money-lender.
जीवनं,
जीविका the profession of usury.
a. promoting prosperity.
पत्रं a kind of razor.
श्राद्धं an offering made to the Manes on prosperous occasions, such as the birth of a son.
Apte Hindi
Hindi
वृद्धिः
स्त्री*
- वृध् + क्तिन्
"विकास, वढ़ोत्तरी, वर्धन, सम्बर्धन"
वृद्धिः
स्त्री*
- -
"(चन्द्रमा का) वर्धित होना, चन्द्रमा की कलाओं का बढ़ना"
वृद्धिः
स्त्री*
- -
"धन की वृद्धि, समृद्धि, धनाढ्यता"
वृद्धिः
स्त्री*
- -
"सफलता, बढ़ावत, उन्नति, प्रगति"
वृद्धिः
स्त्री*
- -
"दौलत, जायदाद"
वृद्धिः
स्त्री*
- -
"ढेर, परिमाण, समुच्चय"
वृद्धिः
स्त्री*
- -
"सूद, व्याज, "
वृद्धिः
स्त्री*
- -
सूदखोरी
वृद्धिः
स्त्री*
- -
लाभ फायदा
वृद्धिः
स्त्री*
- -
अंडकोष की वृद्धि
वृद्धिः
स्त्री*
- -
शक्ति या राजस्व का विस्तार
वृद्धिः
स्त्री*
- -
स्वरों का लंबा करना या वृद्धि
वृद्धिः
स्त्री*
- -
"परिवार में, (प्रसव के कारण) उत्पन्न अशौच, जननाशौच"
वृद्धिः
स्त्री*
- वृध+क्तिन्
"आघात, चोट"
वृद्धिः
स्त्री*
- वृध+क्तिन्
भूमि को ऊँचा करना
वृद्धिः
स्त्री*
- वृध+क्तिन्
लम्बा करना
Wordnet
Sanskrit
Synonyms:
विकासः, प्रवृद्धिः, वृद्धिः
noun
वर्धनस्य अवस्था भावो वा।
"जन्मनः प्रभृति वयसः पञ्चवर्षाणि यावत् बालकानां शारीरिकः मानसिकः विकासः अधिकतमः भवति।"
Synonyms:
वृद्धिः, वार्धुष्यम्, भागः, कलान्तरम्, कारिका, कारिता, कुसीदवृद्धिः, कला
noun
ऋणत्वेन यद् धनं दत्तम् तस्मात् अथवा यद् धनं वित्तकोषे निहितम् अस्ति तस्मात् धनार्घत्वेन पर्यायशः प्राप्यमाणा निश्चितः धनराशिः।
"श्यामः वृद्धिं निश्चित्य एव ऋणं यच्छति। "
Synonyms:
वृद्धिः, स्फीतिः, समृद्धिः, उपचयः, प्रचयः, आप्यायनम्, बृंहणम्, उन्नतिः, विस्तारः, आधिक्यम्, समुन्नतिः, ऋद्धिः, परिबर्हणा, परिवृद्धता, वर्धः, उच्छ्रयः, अभ्युदयः, अभिवृद्धिः
noun
वर्धनस्य क्रिया।
"अस्मिन् वर्षे उद्योगसंस्थायाः विक्रयणे वृद्धिः जाता।"
Synonyms:
धनम्, वित्तम्, विभवः, अर्थः, वैभवम्, सम्पत्तिः, द्रविणम्, द्रव्यम्, राः, रिक्थम्, ऋक्थम्, हिरण्यम्, द्युम्नम्, स्वापतेयम्, भोग्यम्, घसु, स्वापतेयम्, वसु, द्युम्नम्, काञ्चनम्, लक्ष्मीः, सम्पत्, वृद्धिः, श्रीः, व्यवहार्यम्, रैः, भोगः, स्वम्, रेक्णः, वेदः, वरिवः, श्वात्रम्, रत्नम्, रयिः, क्षत्रम्, भगः, मीलुम्, गयः, द्युम्नः, इन्द्रियम्, वसु, रायः, राधः, भोजनम्, तना, नृम्णम्, बन्धुः, मेधाः, यशः, ब्रह्म, श्रंवः, वृत्रम्, वृतम्
noun
सुवर्णरुप्यकादयः।
"साधु कार्यार्थे एव धनस्य वियोगः करणीयः।"
Synonyms:
लाभः, लब्धिः, प्राप्तिः, फलम्, फलोदयः, लभ्यम्, लभ्यांशः, आयः, उदयः, उत्पन्नम्, पणाया, पण्यफलत्वम्, वृद्धिः, विवृद्धिः, प्रतिपत्तिः, योगक्षेमः, प्रयोगः, अर्जनम्, उपार्जनम्
noun
मूलधनादधिकं व्यापारादिभिः प्राप्तं धनम्।
"सः वस्त्रव्यापारे लाभः प्राप्तवान्।"
अमरकोशः
Sanskrit
Word: वृद्धिः
Root: वृद्धि
Gender: स्त्री
Number: all
Meaning(s):
rise
gain
usury
surge
waxing
profit
welfare
fortune
success
premium
increase
swelling
happiness
extension
increment
elevation
deduction
prosperity
abscission
forfeiture
advancement
cutting off
prolongation
augmentation
interest [Fin.]
swelling or rising
profit from lending money
enlargement of the scrotum
one of the 8 principal drugs
second modification or increase of vowels
Shloka(s):
3|2|9|2 स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥ (सङ्कीर्णवर्गः)
Synonym(s):
3|2|9|2 स्फातिः (स्फाति) (स्त्री) growth, breeding, increase, fattening, prosperity
3|2|9|2 वृद्धिः (वृद्धि) (स्त्री) rise, gain, usury, surge, waxing, profit, welfare, fortune, success, premium, increase, swelling, happiness, extension, increment, elevation, deduction, prosperity, abscission, forfeiture, advancement, cutting off, prolongation, augmentation, interest [Fin.], swelling or rising, profit from lending money, enlargement of the scrotum, one of the 8 principal drugs, second modification or increase of vowels
Related word(s):
जातिः क्रिया
शब्दकल्पद्रुमः
Sanskrit
वृद्धिः,
स्त्री,
(वृध + क्तिन् ।) अष्टवर्गान्तर्गतौ-षधविशेषः तत्पर्य्यायः योग्या ऋद्धिः ३सिद्धिः लक्ष्मीः इत्यमरः
पुष्टदा वृद्धि-दात्री मङ्गल्या श्रीः सम्पत् १० आशीः११ जनेष्टा १२ भूतिः १३ मुत् १४ सुखम् १५जीवभद्रा १६ अस्या गुणाः ।“ऋद्धिर्वृद्धिश्च मधुरा सुस्निग्धा तिक्तशीतला ।रुचिमेधाकरी श्लेष्मकुष्ठक्रिमिहरा परा
प्रयोगेष्वनयोरेकं यथालाभं प्रयोजयेत् ।तत्र यद्दातुमिष्टिः स्याद्द्वयमप्यत्र योजयेत्
”इति राजनिर्घण्टः
*
ऋद्धिवृद्ध्योरुत्पत्तिलक्षणनामगुणाः ।“ऋद्धिर्व्वृद्धिश्च कन्दौ द्बौ भवतः कोषयामले ।श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः
एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे ।तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला सा
वृद्धिस्तु दक्षिणावर्त्तफला प्रोक्ता महर्षिभिः ।ऋद्धिर्योग्या सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे
ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः ।प्राणैश्वर्य्यकरी मूर्च्छारक्तपित्तविनाशिनी
वृद्धिर्गर्भप्रदा शीता वृं हणी मधुरा स्मृता ।वृष्या पित्तास्रशमनी क्षतकासक्षयापहा
राज्ञामप्यष्टवर्गस्तु यतोऽयमतिदुर्ल्लभः ।तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक्
”मुख्यसदृशः प्रतिनिधिः
*
एतस्य प्रतिनिधि-माह ।“मेदा जीवककाकोली ऋद्धिद्वन्द्वेऽपि चासति ।वरीविदार्य्यश्वगन्धावाराहीश्च क्रमात् क्षिपेत्
”मेदा महामेदास्थाने शतावरीमूलं जीवकर्षभक-स्थाने विदारीमूलं काकलीक्षीरकाकोलीस्थाने-ऽश्वगन्धामूलं ऋद्धिवृद्धिस्थाने वाराहीकन्दंगुणैस्तत्तुल्यं क्षिपेत् इति भावप्रकाशः
*
नीतिवेदिनां क्षयादित्रिवर्गान्तर्गतवर्गविशेषः ।इत्यमरः
नीतिवेदिनां नीनिशास्त्रज्ञानांक्षयादिभिस्त्रिवर्गः अन्येषान्तु धर्म्मकामार्थःपूर्व्वमुक्तः अष्टवर्गस्यापचयः क्षयः तस्यैवोप-चयो वृद्धिः तस्य नोपचयो नाप्यपचयःस्थानम् अष्टवर्गो यथा, --कृषिर्बणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् ।कन्याकरबलादानं सैन्यानाञ्च निवेशनम्
अष्टवर्गः स्मृतो राज्ञामिति भरतः
*
वर्द्धनम् तत्पर्य्यायः स्फातिः इत्यमरः
(यथा, मनुः १२ १२४ ।“एष सर्व्वाणि भूतानि पञ्चभिर्व्याप्य मूर्त्तिभिः ।जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत्
”)विष्कम्भादिसप्तविंशतियोगान्तर्गतैकादशयोगः ।तत्र जातफलं यथा, --“प्रसूतिकाले यदि वृद्धियोगोनरः सुभोगो विनयान्वितश्च ।धनप्रयोगग्रहणेषु दक्षोविचक्षणः स्यात् क्रयविक्रयाभ्याम्
”इति कोष्ठीप्रदीपः
*
कलान्तरम् सुद् इति भाषा अभ्युदयः ।समृद्धिः इति मेदिनी
(यथा, शिशुपाल-वधे १५ ।“अथ तत्र पाण्डुतनयेनसदसि विहितं मधुद्विषः ।मानमसहत चेदिपतिःपरवृद्धिमत्सरि मनो हि मानिनाम्
”)वृद्धिग्रहणनियमो यथा, --“अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा
”मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यदा-धीयते आधिरिति यावत् बन्धकेन सह वर्त्ततइति सबन्धकः प्रयोगस्तस्मिन् सबन्धके प्रयोगेप्रयुक्तस्य द्रव्यस्याशीतितमो भागो वृद्धिर्धर्म्याभवति अन्यथा बन्धकरहिते प्रयोगे वर्णानांब्राह्मणादीनां क्रमेण द्बित्रिचतुःपञ्चकं शतं धर्म्म्यंभवति ब्राह्मणेऽधमर्णे द्विकं शतम् क्षत्त्रियेत्रिकम् वैश्ये चतुष्कम् शूद्रे पञ्चकम् मासिमासीत्येव द्वौ वा त्रयो वा चत्वारो वा पञ्च वाइति द्वित्रिचतुःपञ्चाः द्बित्रिचतुःपञ्चा अस्मिन्शते वृद्धिर्दीयत इति द्वित्रिचतुःपञ्चकं शतम् ।तदस्मिन् वृद्ध्या यल्लाभशुल्कोपदा दीयते इतिकन् इयं वृद्धिर्मासि मासि गृह्यत इतिकालिका इयमेव वृद्धिर्दिवसगणनया विभज्यप्रतिदिवसं गृह्यमाना कायिका भवति तथा चनारदेन ।“कायिका कालिका चैव कारिता तथा परा ।चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्व्विधा
”इत्युक्त्रोक्तम्
“कायाविरोधिनी शश्वत् पणपादादि कायिका ।प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता
वृद्धिः सा कारिता नाम यर्णिकेण स्वयं कृता ।वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृतेति
”ग्रहीतृविशेषणेन वृद्धेः प्रकारान्तरमाह ।कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् ।कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाःये वृद्ध्या धनं गृहीत्वा अधिकलाभार्थं अति-गहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति तेदशकं शतं दद्युः ये समुद्रगास्ते विंशकंशतं मासि मासीत्येव एतदुक्तं भवतिकान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशकंशतं उत्तमर्ण आदद्यात् मूलविनाशस्यापिशङ्कितत्वात् इति
*
इदानीं कारितां वृद्धि-माह ।“दद्युर्व्वा स्वकृतां वृद्धिं सर्व्वे सर्व्वासु जातिषु
”सर्व्वे ब्राह्मणादयोऽधमर्णा अबन्धके सबन्धके वास्वकृतां स्वाभ्युपगतां वृद्धिं सर्व्वासु जातिषुदद्युः क्वचिदकृतापि वृद्धिर्भवति यथाहनारदः ।“न वृद्धिः प्रीतिदत्तानां स्यादनाकारिताक्वचित् ।अनाकारितमप्यूर्द्ध्वं वत्सरार्द्धाद्विवर्द्धते
इति
यस्तु याचितकं गृहीत्वा देशान्तरं गतस्तं प्रतिकात्यायनेनोक्तम् ।“यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् ।ऊर्द्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात्
”इति
यश्च याचितकमादाय याचितोऽप्यदत्त्वा देशा-न्तरं याति तं प्रति तेनैवोक्तम् ।“कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् ।ऊर्द्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयाद्
”इति
यः पुनः स्वदेशे स्थित एव याचितो याचितकंन ददाति तं याचनकालादारभ्य वृद्धिं दापये-द्राजा यथाह ।“स्वदेशेऽपि स्थितो यस्तु दद्याद्याचितः क्वचित् ।तं ततो कारितां वृद्धिमनिच्छन्तञ्च दापयेत्
”इति
अनाकारितवृद्धेरपवादो नारदेनोक्तः ।“पण्यमूलं भृतिर्न्यासो दण्डो यश्च प्रकल्पितः ।वृथादानाक्षिकपणा वर्द्धन्ते नाविवक्षिताः
अविवक्षिता अनाकारिता इति
*
अधुनाद्रव्यविशेषे वृद्धिविशेषमाह सन्ततिस्तु पशु-स्त्रीणाम् पशूनां स्त्रीणां सन्ततिरेव वृद्धिः ।पशूनां स्त्रीणां पोषणासमर्थस्य तत्पुष्टिसन्तति-कामस्य प्रयोगः सम्भवति ग्रहणञ्च क्षीर-परिचर्य्यार्थिनः अधुना प्रयुक्तस्य द्रव्यस्यवृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य कस्यद्रव्यस्य कियती परा वृद्धिरित्यपेक्षित आह ।रसस्याष्टगुणा परा ।“वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा
”रसस्य तैलघृतादेर्वृद्धिग्रहणमन्तरेण चिर-कालावस्थितस्य स्वकृतया वृद्ध्या वर्द्धमान-स्याष्टगुणा वृद्धिः परा नातःपरं वर्द्धते तथावस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणाःत्रिगुणा द्विगुणा वृद्धिः परा वशिष्ठेन तुरसस्य त्रैगुण्यमुक्तम् द्विगुणं हिरण्यं त्रिगुणंधान्यं धान्येनैव रसा व्याख्याताः पुष्पमूल-फलानि तुला घृतं त्रितयमष्टगुणमिति ।मनुना तु धान्यस्य पुष्पमूलफलादीनाञ्च पञ्च-गुणत्वमुक्तम् “धान्ये शदे लवे बाह्ये नातिक्रा-मति पञ्चतामिति ।” शदः क्षेत्रफलं पुष्पमूल-फलादि लवो मेषोर्णाचमरीकेशादि बाह्योवलीवर्दतुरगादि धान्यशदलवबाह्यविषया वृद्धिःपञ्चगुणत्वं नातिक्रामतीति तत्राधमर्णयोग्य-तावशेन दुर्भिक्षादिकालवशेन व्यवस्थाद्रष्टव्या एतच्च सकृत्प्रयोगे सकृदाहरणे चवेदितव्यम् पुरुषान्तरसंक्रमणेन प्रयोमान्तर-करणे तस्मिन्नेव वा पुरुषे अनैकशः प्रयोगा-न्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्व्व-वद्वर्द्धते सकृत्प्रयोगेऽपि प्रतिदिनं प्रति-मासं प्रतिवत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्यद्बैगुण्यसम्भवात् पूर्व्वाहृतवृद्ध्या सह द्वैगुण्य-मतिक्रम्य वर्द्धत एव यथाह मनुः कुषीद-वृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता सकृदाहि-तेत्यपि पाठोऽस्ति उपचयार्थं प्रयुक्तं द्रव्यंकुषीदं तस्य वृद्धिः कुसीदवृद्धिर्द्वैगुण्यं नात्येतिनातिक्रामति यदि सकृदाहिता सकृत्प्रयुक्तापुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणेद्वैगुण्यमत्येति सकृदाहृतेति पाठे शनैः शनैःप्रतिदिनं प्रतिमासं प्रतिवत्सरं वाधमर्णादा-हृता द्वैगुण्यं नात्येतीति व्याख्येयम् तथागौतमेनाप्युक्तम् चिरस्थाने द्वैगुण्यं प्रयोग-स्येति प्रयोगस्येत्येकवचननिर्देशात् प्रगोगान्तर-करणे द्वैगुण्यातिक्रमोऽभिप्रेतः चिरस्थानइति निर्द्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्याति-क्रमो दर्शितः इति मिताक्षरा
कुरण्ड-रोगः हर्षः इति हेमचन्द्रः
समूहः ।इति शब्दचन्द्रिका
शैलेयम् धनम् इतिराजनिर्घण्टः
*