| YouTube Channel

वृद्धगङ्गा (vRddhagaGgA)

 
Monier Williams Cologne
English
वृद्ध—गङ्गा
f.
N.
of a river (commonly called the Buḍi Gaṅgā), KālikāP.
शब्दकल्पद्रुमः
Sanskrit
वृद्धगङ्गा,
स्त्री,
(वृद्धा गङ्गा ।) नदीविशेषः
वुडीगङ्गा इति ख्याता यथा, --“अस्ति नाटकशैले तु सरो मानससन्निभम् ।यत्र सार्द्धं शैलपुत्त्र्या जलक्रीडां सदा हरः
कुरुते नरशार्द्दूल स्वर्णपङ्कजशोभिते ।तस्य पश्चान्मध्यपूर्व्वभागेभ्यश्च सरित्त्रयम्
अवतीर्णं प्रयात्येव दक्षिणं सागरं प्रति ।तस्य पश्चिमभागे तु नदी दिक्करिकाह्वया
दिग्गजाः क्षेत्रसंजाताः तेन दिक्करिका स्मृता ।मध्यभागात् सृता या तु शङ्करेणावतारिता
वृद्धगङ्गाह्वया सा तु गङ्गेव फलदायिनी
या निःसृता पूर्व्वभागात्तस्माद्गिरिवरान्नदी ।स्वर्णग्रीवेति विख्याता सा गङ्गासदृशी फले
”इति कालिकापुराणे कामरूपपीठनिर्णयनाम८२ अध्यायः
वाचस्पत्यम्
Sanskrit
वृद्धगङ्गा स्त्री कर्म० नदीभेदे “अस्ति नाटकशैले तु सरो-मानससन्निभम् यत्र सार्द्धं शैलपुत्र्या जलक्रीडांसदा हरः कुरुते नरशार्दूल! स्वर्णपङ्कजशीभिते ।तस्य पश्चान्मध्यपूर्वभागेभ्यश्च सरित्त्रयम् अवतीर्णंप्रयात्येप दक्षिणं सागरं प्रति तस्य पश्चिमभागेतु नदो दिक्करिकाह्वया दिग्गजाः क्षेत्रसंजाताःतेन दिक्करिका स्मृता मध्यभागात् सृता या तुशङ्करेणावतारिता वृद्धगङ्गाह्वया सा तु गङ्गोवफलदायिनी या निःसृता पूर्वभागात् तस्माद्गिरिचरात्नदी स्वर्णग्रीवेति विख्याता सा गङ्गासदृशी फले”कालिकापु० ८२ अ०