| YouTube Channel

वृथामांसं (vRthAmAMsaM)

 
शब्दकल्पद्रुमः
Sanskrit
वृथामांसं,
क्ली,
(वृथा निरर्थकं मांसम् ।) देवपित्र-नुद्दिष्टमांसम् तद्भक्षणे प्रेतत्वं भवति यथा, “वृथारेता वृथामांसो वृथावादी वृथामतिः ।निन्दको द्विजदेवानां प्रेतो जायते नरः
”इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः