| YouTube Channel

वृथाजन्म (vRthAjanma)

 
शब्दकल्पद्रुमः
Sanskrit
वृथाजन्म, [न्]
क्ली,
(वृथा निरर्थकं जन्म ।)निरर्थकजननम् यथा, --“वृथा जन्मानि चत्वारि वृथा दानानि षोडश ।तान्यहं संप्रवक्ष्यामि यथावदनुपूर्व्वशः
अपुत्त्रस्य वृथा जन्म धर्म्मवाह्या नराः सदा ।परपाकं सदाश्वन्ति परतापरताश्च ये
”इत्याद्ये वह्निपुराणे दानावस्थानिर्णयनामा-ध्यायः
अपि ।“येर्न श्रुतं भागवतं पुराणंनाराधितो यैः पुरुषः प्रधानम् ।मुखे हुतं यैर्न धरामराणांतेषां वृथा जन्म नराधमानाम्
”इति पुराणम्