| YouTube Channel

वृत्रः (vRtraH)

 
Apte
English
वृत्रः [vṛtrḥ], [वृत्-रक्]
N.
of a demon killed by Indra
(he is supposed to be a personification of darkness)
see इन्द्र.
A cloud.
Darkness.
An enemy.
Sound.
A wheel.
N.
of Indra.
A mountain. -त्रम् Leather.
Comp.
-अरिः, -द्विष्
m.
, -शत्रुः, -हन्
m.
epithets of Indra
क्रुद्धे$पि पक्षच्छिदि वृत्रशत्रौ
Ku.*
1.2
वाचा हरिं वृत्रहणं स्मितेन 7.46.
Apte 1890
English
वृत्रः [वृत्-रक्] 1 N. of a demon killed by Indra
(he is supposed to be a personification of darkness)
see इंद्र.
2 A cloud.
3 Darkness.
4 An enemy.
5 Sound.
6 A wheel.
7 N. of Indra.
8 A mountain.
Comp.
अरिः,
द्विष् m.,
शत्रुः,
हन् m. epithets of Indra
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रौ Ku. 1. 20
वाचा हरिं वृत्रहणं स्मितेन 7. 46.
Apte Hindi
Hindi
वृत्रः
पुं*
- वृत् + रक्
एक राक्षस का नाम जिसे इन्द्र ने मार गिराया था
वृत्रः
पुं*
- -
बादल
वृत्रः
पुं*
- -
अन्धकार
वृत्रः
पुं*
- -
शत्रु
वृत्रः
पुं*
- -
ध्वनि
वृत्रः
पुं*
- -
पर्वत
Wordnet
Sanskrit
Synonyms:
वृत्रासुरः, वृत्रः
noun
एकः दैत्यः।
"इन्द्रः वृत्रासुरं जघान।"
Synonyms:
वृत्रः, निवेशकः
noun
यः धनं परिदधाति।
"अस्मिन् कार्ये धनं परिधातुं बहवः निवेशकाः सज्जाः।"
Synonyms:
मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः
noun
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
"कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता"
शब्दकल्पद्रुमः
Sanskrit
वृ(त्त्र)त्रः,
पुं,
(वृत् + “स्फायितञ्चिवञ्चीति ।”उणा० १३ इति रक् ।) अन्धकारः ।शत्रुः (यथा, ऋग्वेदे ४८ ।“इन्द्रेण युजा तरषेम वृत्रम् ।”“वृत्रं शत्रुम् ।” इति तद्भाष्ये सायणः
)दानवविशेषः तु त्वष्टृपुत्त्र इन्द्रेण हतः ।इत्यमरः
(यथा, हरिवंशे १२७ १७ ।“तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया
”अस्य विशेषविवरणन्तु देवीभागवते षष्ठस्कन्धे१ अध्यायमारभ्य द्रष्टव्यम्
*
) मेघः (यथा, ऋग्वेदे ३३ ।“इन्द्रो अस्मा अरदद्वज्रबाहु-रपाहन् वृत्रं परिधिं नदीनाम्
”“वृत्रं वृणोति आकाशमिति वृत्रो मेघस्तं मेघ-मपाहन् जघान ।” इति तद्भाष्ये सायणः
)पर्व्वतविशेषः इति मेदिनी
इन्द्रः इतिविश्वः
शब्दः इति सिद्धान्तकौमुद्यामुणादि-वृत्तिः
कृदन्तरूपमाला
Sanskrit
1 {@“वृतु वर्तने”@} 2 वृतादिः।
‘वर्तयेद् भाषणार्थे णौ वर्तने शपि वर्तते।।’ 3 इति देवः।
वर्तनं = स्थितिः इति क्षीरस्वामी।
4 वर्तकः-र्तिका, 5 वर्तकः-र्तिका, विवृत्सकः- 6 विवर्तिषकः-षिका, 7 वरीवृतकः- 8 तिका
वर्तिता-त्री, वर्तयिता-त्री, विवर्तिषिता-त्री, विवृत्सिता-त्री, वरीवृतिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकतृप्यतिवत् 9 ऊह्यानि।
10 वृत्तम्- 11 त्तः, वर्तितम्-तः, 12 नीवृत्-उपावृत्, 13 निवर्त्स्यन् 14 15 वर्तिष्यमाणः, 16 वर्तिष्णुः, 17 18 वनवर्ती, 19 व्याववर्ती, 20 वृत्यम्, वार्त्तः 21 समावर्तनीयः, वृत्त्वा, 22 आर्यावर्तः वर्तित्वा, 23 वृत्त्वा 24, ल्यपि-निर्वंर्त्य, 25 26 हस्तवर्तं वर्तयन्, 27 वर्तिः, 28 वर्तनिः वर्तनी, 29 वर्तिका, 30 वर्त्म, 31 वृत्रः
इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१६२९)
02
=>
(१-भ्वादिः-७५८। अक। सेट्। आत्म।)
03
=>
(श्लो। ९६)
04
=>
[[१। ‘सर्वधातुकार्धधातुकयोः’ (७। ३। ८४) इति गुणः। ‘उरण् रपरः’ (१-१-५१) इति रेफपरो भवति। एवमुत्तरत्रापि ऊह्यम्।]]
05
=>
[[२। ‘वर्तका शकुनौ प्राचाम्’ (वा। ७। ३। ४५) इति निपातनात् शकृनौ वाच्ये ‘प्रत्ययस्थात्--’ (७-३-४४) इति इत्वं भवति
\n\n वर्तका लट्वाख्यः शकुनिः। उदीचां तु वर्तिका इत्येव। वर्त्तिका-दीपस्य दशा।]]
06
=>
[[३। ‘वृद्भ्यः स्यसनोः’ (१-३-९२) इति वा परस्मैपदम्। ‘न वृद्भयश्चतुर्भ्यः’ (७-२-५९) इति वृतादिभ्यः सकारादेरार्धधातुकस्य परस्मैपदेषु इडभावे, झलादेः सनः ‘हलन्ताच्च’ (१-२-१०) इति कित्त्वात् गुणः। “‘न वृद्भ्यः चतुर्भ्यः’ (७-२-५९) इत्यत्र भाष्यवार्तिकयोः-- ‘सिद्धं तु वृतादीनामात्मनेपदेन समान- पदस्थस्येड्वचनात्’ इत्युक्तत्वात् कृत्परेऽपि सादौ परस्मैपदलुकि इटः प्रतिषेधो भवति।” इति धातुवृत्तिः। यदा तु विवृत्सति इति निष्पाद्य तदन्तात् कृतो विवक्ष्यन्ते तदा विवृत्सकः इत्यादीनीति बोध्यम्। यदा तु विवर्तिषते इति निष्पाद्य, तदन्तात् कृतोविवक्ष्यन्ते, तदा विवर्तिषकः इत्यादि भवति। एवं सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
07
=>
[[४। ‘रीगृत्वतः’ (वा। ७-४-९०) इति रीगागम इति मा। धा। वृत्तौ। वस्तुतः ‘रीगृदुपधस्य च’ (७-४-९०) इति सूत्रेण अभ्यासस्य रीगागमे रूपमेवम् इति ज्ञेयम्।]]
08
=>
[पृष्ठम्१२५६+ ३१]
09
=>
(७७०)
10
=>
[[१। ‘णेरध्ययने वृत्तम्’ (७-२-२६) इति ण्यन्तस्य निष्ठायाम् अध्ययनार्थ इडभावो णिलुक् निपात्यते। तेन वृत्तो गुणो देवदत्तेन, वृत्तं पारायणं देवदत्तेन। अन्यत्र वर्तितमिति। “वृतिरयमकर्मकः, ण्यर्थे वर्तमानः सकर्मको भवति। ‘तेन निर्वृत्तं’ (४-२-६८
\n\n ५-१-७९) इति हि प्रकृतेरेव कर्मणि क्तप्रत्ययो दृश्यते। तद्वदिहापि ण्यर्थवृत्तेरेव वृतेः ‘वृत्तो गुणो देवदत्तेन’ इति भविष्यति
\n\n निपातनमनर्थकम्? तत्क्रियते--यदापि णिचैव ण्यर्थोऽभिधीयते, तदा-वर्तित- मित्यध्ययने मा भूदिति केचित्। अपरे तु-वर्त्तितो गुणो देवदत्तेन इत्यपि इच्छन्ति।” इति काशिकावृत्तिः (७-२-६)। शुद्धे तु धातोः उदित्त्वादस्य क्त्वायां वेट्कत्वात् ‘यस्य विभाषा’ (७-२-१५) इतीट्प्रतिषेधः।]]
11
=>
[[आ। ‘उद्वृत्तनयनो मिन्नान् मन्त्रिणः स्वान् व्यसर्जयत्।।’ भ। का। ९-१६।]]
12
=>
[[२। क्विपि, संहितायां विषये ‘नहिवृति--’ (६-३-११६) इति पूर्वपदस्य दीर्घो भवति। नीवृत् = जनपदः, उपावृत् = उपावृत्तिः।]]
13
=>
[[३। ‘वृद्भयः स्यसनोः’ (१-३-९२) इति स्यप्रत्यये विवक्षिते वा परस्मैपदम्। तेन रूपद्वयम्।]]
14
=>
[[B। ‘रामोऽपि हतमारीचो निवर्त्स्यन् खरनादिनः।’ भ। का। ६-५।]]
15
=>
[[C। ‘वर्त्तिष्यमाणमात्मानं सीतापत्युरिवान्तिके।’ भ। का। ८-६८।]]
16
=>
[[४। ‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतु--’ (३-२-१३६) इति तच्छी- लादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
17
=>
[[ड्। ‘निराकरिष्णवो भानुं दिवं वर्तिष्णवोऽभितः।’ भ। का। ७-३।]]
18
=>
[[५। वने वर्तन्ते इति, ‘व्रते’ (३-२-८०) इति णिनिप्रत्ययः।]]
19
=>
[[६। ‘कर्मव्यतीहारे णच् स्त्रियाम्’ (३-३-४३) इति णच्प्रत्ययः। तदन्तात् ‘णचः स्त्रियामञ्’ (५-४-१४) इत्यञ्। तदन्तात् ‘टिड्ढाणञ्--’ (४-१-१५) इति ङीप्। ‘वार्त्ता प्रवृत्तिर्वृत्तान्तः’ इत्यमरः।]]
20
=>
[[७। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्प्रत्ययः। वृत्तिरस्त्यस्याम् इत्यर्थे ‘वृत्तेश्च’ (वा। ५-२-१०१) इति णप्रत्ययः।]]
21
=>
[[८। समावृत्त्यतेऽस्मादिति समावर्तनीयः = गुरुः। ‘बाहुलकात् अपादाने अनीयर् इति प्रक्रियासर्वस्वे।’]]
22
=>
[[९। आर्याः वर्तन्ते यत्रेति अधिकरणे घञ्प्रत्ययः। आर्यावर्तः पुण्यभूमिः।]]
23
=>
[पृष्ठम्१२५७+ ३१]
24
=>
[[१। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। तेन रूपद्वयं बोध्यम्।]]
25
=>
[[आ। ‘तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाज्ञया।’ भ। का। ६-१४५।]]
26
=>
[[२। ण्यन्तादस्मात् ‘हस्ते वर्त्तिग्रहोः’ (३-४-३९) इति हस्तवाचिनि करणे उपपदे णमुल्। हस्तवर्तं वर्त्तयन्, हस्तेन वर्त्तयन्। एवं करवर्त्तम्, इत्यादि च।]]
27
=>
[[३। ‘हृपिशिरुहिवृति--’ (द। उ। १-४७) इति इन्प्रत्ययः। वर्तते वृत्त्यते वा वर्त्तिः- द्रव्यम्, चेलवेष्टनं दीपाङ्गं च।]]
28
=>
[[४। ‘वृतेः’ (द। उ। १-६) इति अनिप्रत्यये रूपमेवम्। वर्तन्तेऽनेनेति वर्त्तनिः = मार्गः। ‘स्तोत्रे वर्त्तनिः, उञ्छादित्वात् (६-१-१६०) अन्तोदात्तः’ इति श्वेतवनवासी। वर्तनी इति तु ल्युडन्तात् स्त्रियां टित्त्वेन ङीपि बोध्यम्। वर्तनी एकपदी।]]
29
=>
[[५। ‘वृतेस्तिकन्’ (द। उ। ३-२८) इति तिकन्प्रत्ययः। वर्त्तिका = पक्षिजातिः। ‘वर्त्तिका = व्याख्याग्रन्थविशेषः, शकुनिविशेषश्च’ इति श्वेतवनवासी। वर्त्तिकैव वार्त्तिकम्।]]
30
=>
[[६। औणादिके (द। उ। ६-७३) मनिन्प्रत्यये रूपमेवम्। ‘भूतेऽपि दृश्यन्ते’ (३-३-२) इति भूतेऽयं प्रत्ययः। वृत्तं तत् इति वर्त्म पन्थाः, इतिवृत्तं च।]]
31
=>
[[७। औणादिके (द। उ। ८-३१) रक्प्रत्यये रूपमेवम्। वृत्रः = दानवः, वायुश्च।]]