| YouTube Channel

वृत्तस्थः (vRttasthaH)

 
शब्दकल्पद्रुमः
Sanskrit
वृत्तस्थः, त्रि, (वृत्त + स्था + कः ।) वृत्ते तिष्ठतियः यथा, मनुः ।“तुरीयो ब्रह्महत्यायाः क्षत्त्रियस्य वधे स्मृतः ।वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः
”वृत्तं यथा, --“गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः ।प्रवर्त्तनं हितानाञ्च तत् सर्व्वं वृत्तमुच्यते
”इति गोपालपञ्चाननकृतस्मृतिसंग्रहः