| YouTube Channel

वृत्तः (vRttaH)

 
Apte Hindi
Hindi
वृत्तः
पुं*
- -
कछुवा
शब्दकल्पद्रुमः
Sanskrit
वृत्तः, त्रि, (वृत् + क्तः ।) अतीतः (यथा, रामायणे ९० ।“जानन् दशरथं वृत्तं राजानमुदाहवत्
”“वृत्तमतीतम् ।” इति तट्टीका
) दृढः ।वर्त्तुलः (यथा, भागवते २५ २४ ।“स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ
”)कृतावरणः इत्यमरटीका
अधीतः मृतः ।इति मेदिनी
(निष्पन्नः यथा, रघुः २८ ।“स वृत्तचूडश्चलकाकपक्षकै-रमात्यपुत्त्रैः सवयोभिरन्वितः
”जातः यथा, रघुवंशे ५८ ।“सम्बन्धमाभाषणपूर्व्वमाहु-र्वृत्तः नौ सङ्गतयोर्व्वनान्ते
”)अथ वृत्तवस्तूनि यथा, --“वृत्तानि बाहुनारङ्गस्कन्धधम्मिल्लमोदकाः ।रथाङ्गलावकककुत्कुम्भिकुम्भाण्डकादयः
कर्णपाशभुजापाशाकृष्टचापघटाननम् ।मुद्रिकापरिखायोगपट्टहारस्रगादयः
*
संपूर्णगर्भवृत्तानि यथा, --“संपूर्णगर्भवित्तानि मुखपद्मेन्दुदर्पणाः ।चक्रावहट्टतिलकमृदङ्गपुटशायकाः
आवर्त्तः कमठो लूतागृहं छत्रमपूपकम् ।आलवालमहीजालचर्म्मकं सानकादयः
”इति कविकल्पलतायाम् श्लेषस्तवके प्रकीर्णंनामं कुसुमम्
वृत्तः,
पुं,
(स्वल्पो वृत्तः स्वल्पार्थे कन् ।) कूर्म्मः ।इति राजनिर्घण्टः
(नागविशेषः यथा, महाभारते ३५ १० ।“वृत्तसम्बर्त्तकौ नागौ द्वौ पद्माविति श्रुतौ
”)