| YouTube Channel

वृत्तं (vRttaM)

 
शब्दकल्पद्रुमः
Sanskrit
वृत्तं,
क्ली,
(वृत + क्तः ।) चरित्रम् (यथा, कथासरित्सागरे १४ ।“तत्र तस्थुर्निजान् भर्त्तॄन् ध्यायन्त्यः क्लिष्टवृत्तयः ।आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः
”)पद्यम् इत्यमरः
यथा, छन्दोमञ्जर्य्याम् ।“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा ।वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ।सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा
”वृत्तिः इति मेदिनी
वेदबोधितस्याचारस्यपरिपालनम् इति वृत्ताध्ययनर्द्धिशब्दटीकायांभरतः
(वार्त्ता यथा, कथासरित्सागरे ।५८ ११६ ।“न मार्गवृत्तमेतन्मे वाच्यं पितृगृहे त्वया
”आचारः यथा, मनौ २६० ।“अनेन विप्रो वृत्तेन वर्त्तयन् वेदशास्त्रवित् ।अपेतकल्मषो नित्यं ब्रह्मलोके महीयते
”)