| YouTube Channel

वृतु (vRtu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वृत्
मूलधातुः:
वृतु
धात्वर्थः:
वर्तने
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
वर्तते
अनुबन्धादिविशेषः:
द्युतादिः, वृतादिः
धातुः:
वृत्
मूलधातुः:
वृतु
धात्वर्थः:
वरणे
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
वृत्यते
धातुः:
वृत्
मूलधातुः:
वृतु
धात्वर्थः:
भाषायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
वर्तयति-ते
धातुप्रदीपः
Sanskrit
वृतुँ वृतु वर्त्तने
- वर्त्तते ववृते वर्त्स्यति वर्तिष्यते अवृतत् ।अवर्त्तिष्ट विवृत्सति विवर्त्तिषते वर्त्तित्वा वृत्त्वा वृत्तम् वर्त्तिष्णुः वर्त्तनः वृत्तिः वार्त्ता ।। 761 ।।
वृतुँ वृतु वरणे
- वृत्यते ववृते वर्त्तित्वा वृत्त्वा वृत्तम् 54
क्षीरतरङ्गिणी
Sanskrit
वृतुँ वृतु वर्तने
- (अर्थविवरणम्) वर्तनं स्थितिः
वर्तते वर्तनः अवृतत् अवर्तिष्ट वृद्भ्यः स्यसनोः (1392) वा परस्मैपदम् वृद्भ्यश्चतुर्भ्यः (7259) इति तत्रैव नेट्-वर्त्स्यति वर्तिष्यतेअवर्त्स्यत्, अवर्तिष्यत विवृत्सति, विवर्तिषते वृत्त्वा, वर्तित्वा वृत्तः, वृत्तिः, वृत्यः वृत्तिरस्त्यस्याम्-वार्त्तः वृतेश्च (उ0 217) इत्यनिः-वर्तनिः मनिन् (दश0 उ0 673) वर्त्म णेरध्ययने वृत्तम् (7236) हस्ते वर्तिग्रहोः (3439) णमुल्-हस्तवर्तं वर्तयति रक् (द्र0 उ0 216) वृत्रः वार्ताकः वर्तकः वर्तका शकुनौ प्राचाम् (7345 वा0) उदीचां वर्तिका हृपिशि (दश0 उ0 147) इतीन्-वर्तिः दिवादौ वृतु वरणे (449) इत्येके वत्यते चुरादौ (10197) भासार्थः-वर्तयति 736
धातुवृत्तिः
Sanskrit
वृतुँ वृतु (अर्थः) वर्त्तने
( वर्त्तते ववृते वर्तिता वर्त्तिष्यते वर्त्स्यति वर्त्तताम् अवर्त्तत वर्त्तेत वर्त्तिषीष्ट अवृतत् अवर्त्तिष्ट अवर्त्तिष्यत अवर्त्स्यत् विवर्त्तिषते विवृत्सति ) ( सूत्रम्) वृझ्यः स्यसनोः (इति सूत्रम्) वा परस्मैपदम् वृज्ञ्य इति बहुवचननिर्देश आद्यर्थावगमार्थ इति वृतुवृधुसृधुस्यदिकृपीनामपि स्यसनोर्वा परस्मैपदं द्रष्टव्यम् ( सूत्रम्) वृज्ञ्यतुर्भ्यः (इति सूत्रम्) इति सकादेरार्धधातुकस्य परस्मैपदरस्य इढभावः, ज्ञलादेः सनः "हलन्ताच्च'' इति कित्त्वादगुणत्म् "न वृज्ञ्यश्चतुभ्यः'' इति अत्र भाप्यवार्तिकयोः [ सिद्धु तुवृतादीनामात्मनेपदेन समानपदस्थस्येङ्वचनात् ] इत्युक्तत्वात् कृत्परेपि सादौ परस्मैपदे लुकि चेटः प्रतिषेधो भवति (विवृत्सिता विवृत्सितुम् विवृत्सितव्यम् ) विवृत्सेति समान्येन वलादाविति सिद्धे आरभ्यमाणछिमात्मनेपदेन समानपदस्येड्विधाने ऽर्थादन्यनिवृत्त्यर्थं, विवृत्सिषीयत इति आत्मनेपदेन समानपदस्थत्वेप्यन्तरङ्गः प्रकृत्याश्रायः प्रतिषेधो भवति तु बहिरङ्ग आत्मनेपदाश्रयो विधिः (वरीवृत्तृयते) "रीगृत्यतः इति रीक (अवर्वः) इत्यादि नेयम् (वर्त्तयति अववर्त्तत् अवीवृतत्) वर्त्स्यन् बर्त्तिष्यमाणो वा (वर्त्तिष्णुः) "अलंकृञ्''इत्यादिना इष्णुच् (हस्तवर्त्त वर्त्तयति) ( सूत्रम्) हस्ते वर्त्तिग्रहोः (इति सूत्रम्) इति हस्तवाचिनि करणे उपपदे ण्यन्तादस्मात् ग्रहेश्च णमुल् हस्तहत्यर्थग्रहणमिति (पाणिवतृर्तम्) इत्याद्यपि भवति कषादित्वा थाविध्युनप्रयोगः वृत्तः अयं यदान्तभांवितण्यर्थस्तदा सकर्मकः, यथा "तेन निर्वृत्तम्'' इति निर्वर्त्तितमिति ह्मत्रार्थः, यद्यैवं "णेरध्ययने वृत्तम्'' इति निष्ठायामिडभावनिपातनं किमर्थं यस्मादन्तर्भावितण्यर्थादस्मात्वृत्तमध्ययनमिति भविष्यति एवं तर्हि ण्यन्तादप्यध्ययने वृत्तमित्येव यथा स्यान्न तु वर्त्त्तिमित्येवमर्थं निपातनम् अत्र वृत्तिकारो ऽमुं पक्षमुक्त्वा वर्त्तितो गुणो देवदत्तेनेति चेष्टमित्याह अत्र हरदत्तः तेषां नार्थः सूत्रेणेति वृत्तं तदिति ( वर्त्म ) "उणादयो बहुलम्'' "भूतेपि दृश्यन्ते'' इति मनिन् (वर्त्मनिः) रथामार्गः "अदेर्मुद्'' "वृत्तेश्च''इति मुदागमो निप्रत्ययश्च अदिवृतिभ्यां मुट् चेति वक्तवृये पृथग्योगकरणातृपक्षे मुण्नभवति ( वर्त्तः ) इत्यपि भवति ( वर्त्तनो ) कृदिकारत्वादि पूर्ववत् वर्धिष्णुः ) "अलंकृञ्'' इत्यादिनेष्णुच् ( वर्द्धनः ) नन्द्यादिपाठात् ल्युः (वृद्धः) अतिशयेन वृद्धौ (वर्षिष्ठः वर्षीयान् ) ( सूत्रम्) प्रियस्थिरः (इति सूत्रम्) इति इष्ठन्नीयसुनोर्यथासंख्याद् वृद्धस्य वर्षादेशः ( ज्येष्ठः ज्यायान् ) "ज्य च'' इति ज्योदशः अकारोच्चारणसामर्थ्याट्टिलोपो भवतीति प्रागेवोक्तम् ( वृद्धमाचष्टे वर्षयति ज्यापयति ) णाविष्ठवदिति वर्षत्यादेशौ वृद्धिः "तितुत्र'' इति नेट् वृद्धत्यर्थं द्रव्यमपि, तत् प्रयच्छतीति ( वार्द्धुषिकः ) ( सूत्रम्) तत्प्रयच्छति गर्ह्मम् (इति सूत्रम्) इति द्वितीयान्ताद् गर्ह्मोपाधिकात्प्रयच्छतीत्यर्थे ठगिति ठक् वृद्धेर्वृधुष्भावः वृधुषिः प्रकृतृयन्तरं वेति वृत्तिः वृद्धेर्गर्ह्मत्वमशास्त्रीयत्वेन अयं भाषार्थश्चुरादौ 747
वृतुँ वृतु (अर्थः) वरणे
( वृत्यते ववृते वर्तिता वर्तिष्यते वृत्यताम् अवृत्यत वृत्येत, वर्तिषीष्ट ) लिङौ ( अवर्तिष्ट, अवर्तिषाताम् विवर्तिषते वरीवृत्यते वर्तृतीति ) इत्यादि ( वर्तयति अवीवृतत्, अववर्तत् ) "उरत्'' इति पक्षे ऋकारः ( वृत्त्वा, वर्तित्वा ) "उदितो वा'' इतीड्विकल्पः ( वृत्तः ) "यस्य विभाषा'' इतीट्प्रतिषेधः ( वृत्यम् ) "ऋदुपधात्'' इति क्यप् "अलंकृञ्'' इतीष्णुचि वुधुना साहचर्याद् वर्तमानार्थस्य भौवादिकस्य ग्रहः 52
कृदन्तरूपमाला
Sanskrit
1 {@“वृतु वर्तने”@} 2 वृतादिः।
‘वर्तयेद् भाषणार्थे णौ वर्तने शपि वर्तते।।’ 3 इति देवः।
वर्तनं = स्थितिः इति क्षीरस्वामी।
4 वर्तकः-र्तिका, 5 वर्तकः-र्तिका, विवृत्सकः- 6 विवर्तिषकः-षिका, 7 वरीवृतकः- 8 तिका
वर्तिता-त्री, वर्तयिता-त्री, विवर्तिषिता-त्री, विवृत्सिता-त्री, वरीवृतिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकतृप्यतिवत् 9 ऊह्यानि।
10 वृत्तम्- 11 त्तः, वर्तितम्-तः, 12 नीवृत्-उपावृत्, 13 निवर्त्स्यन् 14 15 वर्तिष्यमाणः, 16 वर्तिष्णुः, 17 18 वनवर्ती, 19 व्याववर्ती, 20 वृत्यम्, वार्त्तः 21 समावर्तनीयः, वृत्त्वा, 22 आर्यावर्तः वर्तित्वा, 23 वृत्त्वा 24, ल्यपि-निर्वंर्त्य, 25 26 हस्तवर्तं वर्तयन्, 27 वर्तिः, 28 वर्तनिः वर्तनी, 29 वर्तिका, 30 वर्त्म, 31 वृत्रः
इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१६२९)
02
=>
(१-भ्वादिः-७५८। अक। सेट्। आत्म।)
03
=>
(श्लो। ९६)
04
=>
[[१। ‘सर्वधातुकार्धधातुकयोः’ (७। ३। ८४) इति गुणः। ‘उरण् रपरः’ (१-१-५१) इति रेफपरो भवति। एवमुत्तरत्रापि ऊह्यम्।]]
05
=>
[[२। ‘वर्तका शकुनौ प्राचाम्’ (वा। ७। ३। ४५) इति निपातनात् शकृनौ वाच्ये ‘प्रत्ययस्थात्--’ (७-३-४४) इति इत्वं भवति
\n\n वर्तका लट्वाख्यः शकुनिः। उदीचां तु वर्तिका इत्येव। वर्त्तिका-दीपस्य दशा।]]
06
=>
[[३। ‘वृद्भ्यः स्यसनोः’ (१-३-९२) इति वा परस्मैपदम्। ‘न वृद्भयश्चतुर्भ्यः’ (७-२-५९) इति वृतादिभ्यः सकारादेरार्धधातुकस्य परस्मैपदेषु इडभावे, झलादेः सनः ‘हलन्ताच्च’ (१-२-१०) इति कित्त्वात् गुणः। “‘न वृद्भ्यः चतुर्भ्यः’ (७-२-५९) इत्यत्र भाष्यवार्तिकयोः-- ‘सिद्धं तु वृतादीनामात्मनेपदेन समान- पदस्थस्येड्वचनात्’ इत्युक्तत्वात् कृत्परेऽपि सादौ परस्मैपदलुकि इटः प्रतिषेधो भवति।” इति धातुवृत्तिः। यदा तु विवृत्सति इति निष्पाद्य तदन्तात् कृतो विवक्ष्यन्ते तदा विवृत्सकः इत्यादीनीति बोध्यम्। यदा तु विवर्तिषते इति निष्पाद्य, तदन्तात् कृतोविवक्ष्यन्ते, तदा विवर्तिषकः इत्यादि भवति। एवं सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
07
=>
[[४। ‘रीगृत्वतः’ (वा। ७-४-९०) इति रीगागम इति मा। धा। वृत्तौ। वस्तुतः ‘रीगृदुपधस्य च’ (७-४-९०) इति सूत्रेण अभ्यासस्य रीगागमे रूपमेवम् इति ज्ञेयम्।]]
08
=>
[पृष्ठम्१२५६+ ३१]
09
=>
(७७०)
10
=>
[[१। ‘णेरध्ययने वृत्तम्’ (७-२-२६) इति ण्यन्तस्य निष्ठायाम् अध्ययनार्थ इडभावो णिलुक् निपात्यते। तेन वृत्तो गुणो देवदत्तेन, वृत्तं पारायणं देवदत्तेन। अन्यत्र वर्तितमिति। “वृतिरयमकर्मकः, ण्यर्थे वर्तमानः सकर्मको भवति। ‘तेन निर्वृत्तं’ (४-२-६८
\n\n ५-१-७९) इति हि प्रकृतेरेव कर्मणि क्तप्रत्ययो दृश्यते। तद्वदिहापि ण्यर्थवृत्तेरेव वृतेः ‘वृत्तो गुणो देवदत्तेन’ इति भविष्यति
\n\n निपातनमनर्थकम्? तत्क्रियते--यदापि णिचैव ण्यर्थोऽभिधीयते, तदा-वर्तित- मित्यध्ययने मा भूदिति केचित्। अपरे तु-वर्त्तितो गुणो देवदत्तेन इत्यपि इच्छन्ति।” इति काशिकावृत्तिः (७-२-६)। शुद्धे तु धातोः उदित्त्वादस्य क्त्वायां वेट्कत्वात् ‘यस्य विभाषा’ (७-२-१५) इतीट्प्रतिषेधः।]]
11
=>
[[आ। ‘उद्वृत्तनयनो मिन्नान् मन्त्रिणः स्वान् व्यसर्जयत्।।’ भ। का। ९-१६।]]
12
=>
[[२। क्विपि, संहितायां विषये ‘नहिवृति--’ (६-३-११६) इति पूर्वपदस्य दीर्घो भवति। नीवृत् = जनपदः, उपावृत् = उपावृत्तिः।]]
13
=>
[[३। ‘वृद्भयः स्यसनोः’ (१-३-९२) इति स्यप्रत्यये विवक्षिते वा परस्मैपदम्। तेन रूपद्वयम्।]]
14
=>
[[B। ‘रामोऽपि हतमारीचो निवर्त्स्यन् खरनादिनः।’ भ। का। ६-५।]]
15
=>
[[C। ‘वर्त्तिष्यमाणमात्मानं सीतापत्युरिवान्तिके।’ भ। का। ८-६८।]]
16
=>
[[४। ‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतु--’ (३-२-१३६) इति तच्छी- लादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
17
=>
[[ड्। ‘निराकरिष्णवो भानुं दिवं वर्तिष्णवोऽभितः।’ भ। का। ७-३।]]
18
=>
[[५। वने वर्तन्ते इति, ‘व्रते’ (३-२-८०) इति णिनिप्रत्ययः।]]
19
=>
[[६। ‘कर्मव्यतीहारे णच् स्त्रियाम्’ (३-३-४३) इति णच्प्रत्ययः। तदन्तात् ‘णचः स्त्रियामञ्’ (५-४-१४) इत्यञ्। तदन्तात् ‘टिड्ढाणञ्--’ (४-१-१५) इति ङीप्। ‘वार्त्ता प्रवृत्तिर्वृत्तान्तः’ इत्यमरः।]]
20
=>
[[७। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्प्रत्ययः। वृत्तिरस्त्यस्याम् इत्यर्थे ‘वृत्तेश्च’ (वा। ५-२-१०१) इति णप्रत्ययः।]]
21
=>
[[८। समावृत्त्यतेऽस्मादिति समावर्तनीयः = गुरुः। ‘बाहुलकात् अपादाने अनीयर् इति प्रक्रियासर्वस्वे।’]]
22
=>
[[९। आर्याः वर्तन्ते यत्रेति अधिकरणे घञ्प्रत्ययः। आर्यावर्तः पुण्यभूमिः।]]
23
=>
[पृष्ठम्१२५७+ ३१]
24
=>
[[१। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। तेन रूपद्वयं बोध्यम्।]]
25
=>
[[आ। ‘तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाज्ञया।’ भ। का। ६-१४५।]]
26
=>
[[२। ण्यन्तादस्मात् ‘हस्ते वर्त्तिग्रहोः’ (३-४-३९) इति हस्तवाचिनि करणे उपपदे णमुल्। हस्तवर्तं वर्त्तयन्, हस्तेन वर्त्तयन्। एवं करवर्त्तम्, इत्यादि च।]]
27
=>
[[३। ‘हृपिशिरुहिवृति--’ (द। उ। १-४७) इति इन्प्रत्ययः। वर्तते वृत्त्यते वा वर्त्तिः- द्रव्यम्, चेलवेष्टनं दीपाङ्गं च।]]
28
=>
[[४। ‘वृतेः’ (द। उ। १-६) इति अनिप्रत्यये रूपमेवम्। वर्तन्तेऽनेनेति वर्त्तनिः = मार्गः। ‘स्तोत्रे वर्त्तनिः, उञ्छादित्वात् (६-१-१६०) अन्तोदात्तः’ इति श्वेतवनवासी। वर्तनी इति तु ल्युडन्तात् स्त्रियां टित्त्वेन ङीपि बोध्यम्। वर्तनी एकपदी।]]
29
=>
[[५। ‘वृतेस्तिकन्’ (द। उ। ३-२८) इति तिकन्प्रत्ययः। वर्त्तिका = पक्षिजातिः। ‘वर्त्तिका = व्याख्याग्रन्थविशेषः, शकुनिविशेषश्च’ इति श्वेतवनवासी। वर्त्तिकैव वार्त्तिकम्।]]
30
=>
[[६। औणादिके (द। उ। ६-७३) मनिन्प्रत्यये रूपमेवम्। ‘भूतेऽपि दृश्यन्ते’ (३-३-२) इति भूतेऽयं प्रत्ययः। वृत्तं तत् इति वर्त्म पन्थाः, इतिवृत्तं च।]]
31
=>
[[७। औणादिके (द। उ। ८-३१) रक्प्रत्यये रूपमेवम्। वृत्रः = दानवः, वायुश्च।]]
1 {@“वृतु वरणे”@} 2 वृतादिः।
‘केचित् पूर्वत्र वाग्रहणमस्यादिं पठित्वा 3 ‘वावृतु वरणे’ इत्याहुः’ इति धा।
का।
व्याख्या 4।
अन्यत्सर्वं पूर्वधातौ 5 द्रष्टव्यम्।
धातुवृत्तौ ‘वृतु--’ इत्येव उक्तम्।
‘वरणे श्यनि वृत्येत’ इति देवः पपाठेति पुरुषकार 6 वचनादुन्नीयते।
सांप्रतं देवे पाठागमभ्रंशान्नोपलभ्यते।
वर्तकः-र्तिका, वर्तकः-र्तिका, विवर्तिषकः-षिका, वरीवृतकः-तिका
वर्तिता-त्री, वर्तयिता-त्री, विवर्तिषिता-त्री, वरीवृतिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकपर्षतिवत् 7 ज्ञेयानि।
8 वृत्तम्, निष्ठायाम्-वृत्तः वृत्तवान्, क्यपि- 9 वृत्यम्, 10 वृत्त्वा-वर्तित्वा 11, इमानि रूपाण्यधिकानि इति विशेषः।
12
प्रासङ्गिक्यः
01
=>
(१६३०)
02
=>
(४-दिवादिः-११६०। सक। सेट्। आत्म।)
03
=>
(कृत्वा)
04
=>
(२-६०)
05
=>
(१५९१)
06
=>
(श्लो। १३१)
07
=>
(१०५४)
08
=>
[[८। धातोरुदित्त्वेन क्त्वायामिड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीट्प्रतिषेधः।]]
09
=>
[[९। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्प्रत्ययः।]]
10
=>
[[१०। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। तेन रूपद्वयं बोध्यम्।]]
11
=>
[[B। ‘निकुञ्जे तस्य वर्त्तित्वा रम्ये प्रक्ष्वेदिताः परम्।’ भ। का। ७-१०३।]]
12
=>
[पृष्ठम्१२५८+ २६]
1 {@“वृतु भाषार्थः”@} 2 आस्वदीयः।
‘वर्तयेद् भाषणार्थे णौ वर्तने शपि वर्तते।।’ 3 इति देवः।
‘भासार्थः’ इति क्षीरस्वामिशाकटायनादयः।
‘--दीप्तौ’ इति वोपदेवः।
‘तथा क्षीरस्वामी-- ‘भासा दीप्तिरर्थो येषां ते भासार्थाः’ इति मा।
धा।
वृत्तौ।
क्षीरतरङ्गिण्यां तु नायं पाठ उपलभ्यते।
उदित्करणात् णिचो वैकल्पिकत्वम् इति ज्ञेयम्।
वर्तकः-र्तिका, विवर्तयिषकः-षिका, वर्तकः-विवर्तिषकः-वरीवृतकः-तिका
वर्तयिता-त्री, विवर्तयिषिता-त्री, वर्तिता, विवर्तिषिता, वरीवृतिता-त्री
इत्यादि- कानि रूपाणि सर्वाण्यपि चौरादिकजासयतिवत् 4 ऊह्यानि।
यङन्ते सर्वत्र ‘रीगृदुपधस्य--’ 5 इति रीगागमः।
प्रासङ्गिक्यः
01
=>
(१६३१)
02
=>
(१०-चुरादिः-१७८२। अक। सेट्। उभ।)
03
=>
(श्लो। ९६)
04
=>
(५९६)
05
=>
(७-४-९०)