| YouTube Channel

वृजिनं (vRjinaM)

 
शब्दकल्पद्रुमः
Sanskrit
वृजिनं,
क्ली,
(वृजी वर्ज्जने + “वृजेः किच्च ।”उणा० ४७ इति इनच् कित् ।)पापम् इत्यमरः
(यथा, भागवते १० ।२९ ३८ ।“तन्नः प्रसीद वृजिनार्द्दन तेऽङ्घ्रिमूलम्
”दुःखम् यथा, तत्रैव ४६ ।“वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः
”पापविशिष्टे, त्रि यथा, महाभारते २२ ।“वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति
”)रक्तचर्म्म भुग्नम् इति हेमचन्द्रः