| YouTube Channel

वृक्षायुर्व्वेदः (vRkSAyurvvedaH)

 
शब्दकल्पद्रुमः
Sanskrit
वृक्षायुर्व्वेदः,
पुं,
(वृक्षस्यायुर्व्वेदः ।) तरुचिकित्-सादिशास्त्रम् तद्यथा, --धन्वन्तरिरुवाच ।“वृक्षायुर्व्वेदमाख्यास्ये प्लक्षञ्चोत्तरतः शुभः ।प्राग्वटो याम्यतस्त्वाम्रं आप्येऽश्वत्थं क्रमेण तु ।दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमः
उद्यानं गृहवासे स्यात् तिलान् वाप्यथपुष्पितान् ।गृह्णीयाद्रोपयेद्वृक्षान् द्विजं चन्द्रं प्रपूजयेत्
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवम् ।नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु कारयेत् ।हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवम्
जलाशयसमारम्भे वारणञ्चोत्तरात्रयम् ।संपूज्य वरुणं विष्णुं पर्ज्जन्यं तत् समारभेत्
अरिष्टाशोकपुन्नागशिरीषाश्च प्रियङ्गवः ।अशोककदलीजम्बुस्तथा वकुलदाडिमाः
सायं प्रातस्तु घर्म्मर्त्तौ शीतकाले दिनान्तरे ।वर्षारात्रे भुवः शोषे सेक्तव्या रोपिता द्रुमाः
उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ।स्थानात् स्थानान्तरं कार्य्यं वृक्षाणां द्वादशा-न्तरम्
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोध-नम् ।विडङ्गघृतपक्वाक्तान् सेचयेच्छीतवारिणा
फलनाशे कुलत्थैश्च माषैर्म्मुद्गैर्यवैस्तिलैः ।घृतशीतपयःसेकः फलपुष्पाय सर्व्वदा
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि ।गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत्
उत्सेकः सर्व्ववृक्षाणां फलपुष्पादिवृद्धिदः ।मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः
विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदम् ।सर्व्वेषामविशेषेण वृक्षाणां रोहवर्द्धनम्
”इत्याग्नेये महापुराणे वृक्षायुर्व्वेदः
(अस्यान्यद्बिवरणं बृहत्संहितायां ५५ अध्यायेद्रष्टव्यम्
)