| YouTube Channel

वुव्योषिषकः-वुव्युषिषकः-षिका (vuvyoSiSakaH-vuvyuSiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“व्युष दाहे”@} 2 धातुरयं “दन्त्योष्ठ्यादिः मूर्धन्यान्तश्च।
तथा वैद्यके 3 त्रिकटुकपर्याये व्योषशब्दः पठ्यते।
अयमन्त्ये पुषादौ विभागे 4 पठिष्यते।
क्वचित् 5 उभयत्र विभागार्थो दन्त्यान्त ओष्ठ्यादिश्च 6 7 पठ्यते।
तत्र पुनःपाठे फलमेकत्रैवार्थे रूपद्वयसिद्धिः” इति धातुवृत्तौ उक्तमिहानुसन्धेयम्।
अयं धातुः काशकृत्स्नीये पठितः।
व्योषकः-षिका, व्योषकः-षिका, वुव्योषिषकः-वुव्युषिषकः-षिका, वोव्युषकः-षिका
व्योषिता-त्री, व्योषयिता-त्री, वुव्योषिषिता-वुव्युषिषिता-त्री, वोव्युषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिककुप्यतिवत् 8 बोध्यानि।
कित्त्वविकल्पनात् क्त्वायां व्युषित्वा-व्योषित्वा इति रूपद्वयमिति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१६५७)
02
=>
(४-दिवादिः-१११४। सक। सेट्। पर।)
03
=>
(सुश्रुते १-४४)
04
=>
(अर्थे)
05
=>
(तरङ्गिण्यादौ)
06
=>
[पृष्ठम्१२७३+ २५]
07
=>
(प्युस इति)
08
=>
(२२४)
1 {@“व्युष विभागे”@} 2 पुषादिः।
अयं दाहार्थे पठितः, अर्थभेदेन अङर्थं दिवादावेव पुनः पठ्यते।
‘प्युस--’ इति पठित्वा, “प्युष इति दुर्गः, पुस इत्येके--पुस्तकम्, पुस्तं लेप्यादि कर्म” इति क्षीरस्वामी।
“केचिदमुमोष्ठ्यादिं दन्त्यान्तमिच्छन्ति-- व्युसेति।
अपरे त्वयकारं बुसेति” इति सायणः।
‘व्युस--वुस’ इति सि।
कौमुदी।
‘पुष--’ इति काशकृत्स्नः।
‘प्युष’ इति कातन्त्राः, अन्ये वैयाकरणाः’ इति तत्र टिप्पन्यां दृश्यते।
युक्ता- युक्तत्वे त्वत्र सूरयः प्रमाणम्।
व्योषकः-षिका, व्योषकः-षिका, वुव्योषिषकः-वुव्युषिषकः-षिका, वोव्युषकः- षिका
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकपोषतिवत् 3 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१६५८)
02
=>
(४-दिवादिः-१२१५। सक। सेट्। पर।)
03
=>
(१०२६)