| YouTube Channel

वीर्य्यं (vIryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
वीर्य्यं,
क्ली,
(वीरे साधु तत्र साधुः इति यत् यद्बा, वीर्य्यतेऽनेनेति वीर विक्रान्तौ + “अचो यत् ।”३ ९७ इति यत् यद्वा वीरस्य भावः यत् ।)चरमधातुः तत्पर्य्यायः शुक्रन् तेजः ३रेतः बीजम् इन्द्रियम् इति मनुष्य-वर्गे अमरः
वीर्य्यं शक्तिः सा पृथिव्यादीनांयः सारभागः तदतिशयरूपा सा द्विविधाचिन्त्याचिन्त्यक्रियाहेतुत्वेन तत्र चिन्त्यक्रिया-हेतुर्या द्रव्यरसादीनां स्वस्वकर्म्मणि स्वभाव-सिद्धा शक्तिः अचिन्त्यक्रियाहेतुश्च प्रभापर-पर्य्यायः द्रव्याणां रसाद्यननुरूपकार्य्यकरण-शक्तिः उक्तञ्च ।“भूतप्रभावातिशयो द्रव्ये पाके रसे स्थितः ।चिन्त्याचिन्त्यक्रियाहेतुर्वीर्य्यं धन्वन्तरेर्म्मतम्
”इति चक्रदत्तोपरि शिवदासीयटीका
*
परवीर्य्योदरपातदोषो यथा, --“परवीर्य्यं यदुदरं कामतोऽकामतोऽपि वा ।अहल्ये याति दैवेन तदुपायं निशामय
अकामतो दुष्टा सा प्रायश्चित्तेन शुद्ध्यति ।कामभोगेन त्याज्या सा कर्म्मभोगेन शुद्ध्यति
पितृपाके दैवपाके पूजायां नाधिकारिणी ।षष्टिं वर्षसहस्राणि क्षयं कृत्वा स्वकर्म्मणः ।प्रयाति भोगदेहं सा तस्यान्ते पापकर्म्मणः
”इति ब्रह्मवैवत्तै श्रीकृष्णजन्मखण्डे ४७ अध्यायः
अतिशयशक्तिभागुत्साहः इति स्वर्गवर्गेअमरः
कर्म्मसु सुकरः प्रत्ययः उत्साहः ।इति मधुः कर्म्मसु दृढयत्नकारको भाघउत्साहः इति रमानाथः कर्म्मसु प्रत्ययउत्साह इति नयनानन्दः अशक्ये बलोद्यमउत्साह इति केचित् उत्साहः अतिशय-शक्तिभाक् वीर्य्यम् अतिशयितोऽध्यवसायोवीर्य्यं साधु वीर्य्यमित्यर्थः वीर्य्या स्त्री वीर्य्यंवीर्य्य इति कोषान्तरम् इति भरतः
*
बलम् प्रभावः इति नानार्थे अमरः
(यथा, ऋग्वेदे २५ ।“अग्निः सनोति वीर्य्याणि विद्वान्सनोति वाजममृताय भूषन्
”“वीर्य्याणि पशुपुत्त्रादिसम्पद्रूपाणि सामर्थ्यानि ।”इति तद्भाष्ये सायणः
यथा भागवते ।१७ ३१ ।“ज्ञानवैराग्यवीर्य्याणां नहि कश्चिद्ब्यपाश्रयः
”शरीरसामर्थ्यम् यथा, ऋग्वेदे ५० ।“स इद्राजा प्रतिजन्यानि विश्वाशुष्मेण तस्था-वभि वीर्य्येण
”“वीर्य्येण शरीरसामर्थ्येन ।” इति तद्भाष्यसायणः
शक्तिः यथा, मनौ ११ ३१ ।“न ब्रह्मणो वेदयते किञ्चिद्राजनि धर्म्मवित् ।स्ववीर्य्येणैव तान् शिष्यान्मानवानपकारिणः
स्ववीर्य्याद्राजवीर्य्याच्च स्ववीर्य्यं बलवत्तरम् ।तस्मात् स्वेनैव वीर्य्येण निगृह्णीयादरीन् द्बिजः
”मनःशक्तिः यथा, भागवते १८ १५ ।“कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् ।हिरण्मयेन पात्रेण वीर्य्यमोजो बलं पयः
”)औषधानां वीर्य्यस्य स्थितिकाला यथा, --“यामं कल्ककषायवीर्य्यमखिलं चूर्णञ्च पक्षत्रयंषण्मासान् घृतमोदकौ सहगुडौ मासत्रयंगुग्गुलोः ।सिद्धानां रसभस्मनां सुविपुलं वीर्य्यञ्च वर्षत्रयंकिञ्चिद्गन्धविवर्ज्जितं गुणपरं तैलं पुराणं महत्
”इति नारायणदासकृतपरिभाषा
तेजः इति मेदिनी
चेतः दीप्तिः इतिशब्दरत्नावली