| YouTube Channel

वीरहा (vIrahA)

 
शब्दकल्पद्रुमः
Sanskrit
वीरहा, [न्]
पुं,
(वीरान् हन्तीति हन +क्विप् ।) नष्टाग्निब्राह्मणः इत्यमरः
यस्या-ग्निहोत्रिणः प्रमादादिना कारणान्तरेण वाअग्निर्नष्टो निर्व्वाणः स्यात् वीरहोच्यते ।वीरयति शौर्य्यं कारयति इति वीर त् तुशौर्य्ये इत्यस्मात् चुरादि ञिः प्रेरणे ञ्यन्तात्पचाद्यनि वीरो यज्ञाग्निः तं हतवान् इतिक्विपि वीरहा इति भरतः
(यथा, वाज-सनेयसंहितायाम् ३० “नरकाय वीर-हणम् ।” “वीरहणं नष्टाग्निं शूरं वा ।” इतितद्भाष्यम्
) विष्णुः यथा वीरहा माधवोमधः इति विष्णुसहस्रनाम वीरहन्तरि, त्रि