| YouTube Channel

वीरणं (vIraNaM)

 
Apte 1890
English
वीरणं N of a fragrant grass, Andropogon Muricatus, (the root of which is used as a refrigerant).
शब्दकल्पद्रुमः
Sanskrit
वीरणं,
क्ली,
उशीरतृणम् तत्पर्य्यायः वीरणम्२ कटायनम् इति शब्दरत्नावली
वीरतरम् इत्यमरः
वीरभद्रम् इतिरुद्रः
(यथा, भागवते १० ११ ५१ ।“तमापतन्तं निगृह्य तुण्डयोःदोर्भ्यां वकं कंससखं सतां गतिः ।पश्यत्सु बालेषु ददार लीलयामुदावहो वीरणवद्दिवौकसाम्
”)अपि ।“स्याद्वीरणं वीरतरु वीरञ्च बहुमूलकम् ।वीरणं पाचनं शीतं स्तम्भनं लघु तिक्तकम्
मधुरं ज्वरनुद्वान्तिमेदजित् कफपित्तहृत् ।तृष्णास्रविषवीसर्पकृच्छ्रदाहव्रणापहम्
वीरणस्य तु मूलं स्यादुशीरमभयं तथा ।अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि
उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम् ।मधुरं ज्वरकृद्वान्तिमदनुत् कफपित्तनुत् ।तृषास्रविषवीसर्पदाहकृच्छ्रव्रणापहम्
”इति भावप्रकाशः
(पुं, प्रजापतिविशेषः यथा, महाभारते ।१२ ३४८ ४१ ।“सनत्कुमारादपि वीरणो वै प्रजापतिः ।कृतादौ कुरुशार्द्दूल धर्म्ममेतदधीतवान्
”यथा मात्स्ये ४० ।“वीरणस्यात्मजायान्तु चक्षुर्म्मनुमजीजनत्
”)