| YouTube Channel

वीरः (vIraH)

 
Apte Hindi
Hindi
वीरः
पुं*
- -
"शूरवीर, योद्धा, प्रजेता"
वीरः
पुं*
- -
"वीरभावना, वीररस, इसके चार भेद (दानवीर, धर्मवीर, दयावीर और युद्धवीर) किये गये हैं"
वीरः
पुं*
- -
अभिनेता
वीरः
पुं*
- -
आग
वीरः
पुं*
- -
यज्ञ की अग्नि
वीरः
पुं*
- -
पुत्र
वीरः
पुं*
- -
पति
वीरः
पुं*
- -
अर्जुन वृक्ष
वीरः
पुं*
- -
विष्णु का नाम
Wordnet
Sanskrit
Synonyms:
वीरः
noun
मनुशतरूपयोः पुत्रविशेषः।
"प्रियव्रतः उत्तानपादश्च वीरस्य पुत्रौ आस्ताम्।"
Synonyms:
करवीरः, प्रतिहासः, शतप्रासः, चण्डातः, हयमारकः, प्रतीहासः, अश्वघ्नः, हयारिः, अश्वमारकः, शीतकुम्भः, तुरङ्गारिः, अश्वहा, वीरः, हयमारः, हयघ्नः, शतकुन्दः, अश्वरोधकः, वीरकः, कुन्दः, शकुन्दः, श्वेतपुष्पकः, अश्वान्तकः, नखराह्वः, अश्वनाशनः, स्थलकुमुदः, दिव्यपुष्पः, हरिप्रियः, गौरीपुष्पः, सिद्धपुष्पः
noun
एकः मध्यामाकारः वृक्षः।
"करवीरे पीतरक्तशुक्लानि पुष्पाणि भवन्ति।"
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Synonyms:
वीरः, शूरः, विक्रान्तः, महावीरः, प्रवीरः, दृढायुधः, युद्धवीर
noun
यः बलवान् अस्ति तथा यः वीरायते।
"सोहराबः रुस्तमः द्वौ वीरौ युध्येते।"
Synonyms:
योद्धा, योधः, योधेयः, युयुधानः, प्रहारी, भटः, सुभटः, वीरः, रथी, स्यन्दनारोहः, रणपण्डितः, विक्रीन्तः, जाजी, जजः
noun
यः युद्धं करोति।
"योद्धृणां कृते रणे मरणं वरम्।"
Synonyms:
पुरुषः, नरः, ना, मनुष्यः, मानुषः, मानवः, मनुजः, जनः, पुमान्, मर्त्यः, पूरुषः, मनुः, पञ्च़जनः, मनुभूः, पुंव्यक्तिः, वीरः, मालः, वृधसानः, वृधसानुः, चर्षणिः, भूस्पृक्
noun
पुमान् मानवजातीयः।
"द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां विराजम् असृजत् प्रभुः।"
Tamil
Tamil
வீர: : போர் வீரன், வீரன், மகன், கணவன், வேள்வித்தீ.
शब्दकल्पद्रुमः
Sanskrit
वीरः,
पुं,
(वीरयतीति वीर विक्रान्तौ + पचा-द्यच् यद्वा, विशेषेण ईरयति दूरीकरोतिशत्रून् वि + ईर + इगुपधात् कः यद्वा, अजति क्षिपति शत्रून् अज + स्फायितञ्चीत्यादिना रक् अजेर्व्वीः ।) शौर्य्यविशिष्टः तत्प-र्य्यायः शूरः विक्रान्तः इत्यमरः ।७७
गण्डीरः तरस्वी इति जटाधरः
(यथा, महाभारते १४१ ४५ ।“मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः ।निर्ज्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान्
”यथा ऋग्वेदे ११४ ।“वीरान्मानो रुद्रभामितो वधी-र्हविष्यन्तः सद्मि त्वा हवामहे
”“वीरान् वीक्रान्तान् ।” इति सायणः
पुत्त्रः ।यथा, ऋग्वेदे २० ।“वीरैः स्याम सधमादः
”“वीरैः पुत्त्रैश्च सधमादः सहमाद्यन्तः स्यामतथा कुरु ।” इति तद्भाष्ये सायणः
*
पतिः पुत्त्रश्च यथा, मार्कण्डेये ३५ ३१ ।“न चालपेज्जनद्विष्टां वीरहीनां तथा स्त्रियम् ।गृहादुच्छिष्टविण्मूत्रपादाम्भांसि क्षिपेद्बहिः
”यथा अवीरा निष्पतिसुता इत्यमरदर्श-नाच्च
*
दनायुदैत्यपुत्त्रः यथा, महाभारते ।१ ६५ ३३ ।“दनायुषः पुनः पुत्त्राश्चत्त्वारोऽसुरपुङ्गवाः ।विक्षरो बलवीरौच वृत्रश्चैव महासुरः
”)जिनः नटः इति हेमचन्द्रः
विष्णुः यथा, वीरोऽनन्तो धनञ्जयः इति विष्णु सहस्रनाम
शृङ्गाराद्यष्टरसान्तर्गतरसविशेषः तत्पर्य्यायः ।उत्साहवर्द्धनः इत्यमरः
“उत्तमप्रकृतिर्वीर उत्साहस्थायिभावकः ।महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः
”उत्साहं वर्द्धयति इति उत्साहवर्द्धनः नन्द्यादि-त्वादनः दानधर्म्मयुद्धेषु जीवानपेक्षोत्साह-कारी रसो वीरः वीरयन्ते अत्र वीरः वीरतङ्कत् शौर्य्ये घञ् स्फीततयैव स्वाद्यते इति सर्व्व-रसलक्षणं कटाक्षितम् इति भरतः
*
तान्त्रिकभावविशेषः यथा, --“तत्रैव त्रिविधो भावो दिव्यवीरपशुक्रमः ।दिव्यवीरैकजः प्रोक्तः सर्व्वसिद्धिप्रदायकः
”इति रुद्रयामले ११ पटलः
अपि ।“भावस्तु त्रिविधः प्रोक्तो दिव्यवीरपशुक्रमात् ।गुरवश्च त्रिधा चात्र तथैव मन्त्रदेवता
”इति तत्रैव पटलः
अन्यच्च ।“पशुभावं हि प्रथमे द्बितीये वीरभावकम् ।तृतीये दिव्यभावञ्च इति भावत्रयं क्रमात्
आदौ दशमदण्डेन पशुभावमथापि वा ।मध्याह्ने दशदण्डेन वीरभावमुदाहृतम् ।सायाह्ने दशदण्डे तु दिव्यभावं शुभप्रदम्
”इति तत्रैव ११ पटलः
अन्यच्च ।“जन्ममात्रं पशुभावं वर्षषोडशकावधि ।ततश्च वीरभावस्तु यावत् पञ्चाशतो भवेत्
द्वितीयांशे वीरभावस्तृतीये दिव्यभावकः ।एवं भावत्रयेणैव भावमैक्यं भवेत् प्रिये
”इति वामकेश्वरतन्त्रे ५१ पटलः
वीराचारविशिष्टः यथा, --“कुलाचाररतो वीरः कुलसङ्गी सदा भवेत् ।संविदासेवनं कुर्य्यात् सोमपानं महेश्वरि
सर्व्वथा कुरुते देवि वीरश्चोद्धतमानसः ।दिव्यस्तु देवता प्रायश्चन्दनागुरुलेपनैः ।रक्तचन्दनगन्धैश्च सुदिग्धो नात्र संशयः
भस्माङ्गधूसरो वीर उन्मत्तवद्विचेष्टितः ।सुरापाणरतो नित्यं वलिपूजापरायणः
नरश्छागश्च महिषो मेषः शूकर एव ।शशकः शल्लकी गोधा खड्गी कूर्म्मी दशस्मृताः
वानरश्च खरश्चैव गजाश्वादिविहङ्गमाः ।इत्यादिभिर्व्वलेर्दानैः पूजयेत् स्वेष्टदेवताम्
सिद्धमन्त्रो भवेत् वीरो वीरो मद्यपानतः ।कलौ तु भारते वर्षे लोका भारतवासिनः ।गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि
”इत्युत्पत्तितन्त्रम्
*
कलौ तदाचारनिषेधो यथा, --“दिव्यवीरमयो भावः कलौ नास्ति कदाचन ।केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम्
”इति महानिर्व्वाणतन्त्रम्
*
तण्डुलीयः वराहकन्दः लताकरञ्जः ।करवीरः अर्ज्जुनः इति राजनिर्घण्टः
यज्ञाग्निः इति वीरहाशब्दटीकायां भरतः
उत्तरः सुभटः इति मेदिनी
वीरः, त्रि, श्रेष्ठः इति हेमचन्द्रः
(कर्म्मठः ।यथा, ऋग्वेदे २३ १९ ।“इमं धा वीरो अमृतं वीरं कृण्वीतमर्त्त्यः
”“वीरः कर्म्मणि समर्थः ।” इति तद्भाष्ये सायणः
यथा तत्रैव २३ ।“कर्त्ता वीराय सुष्वय उलोकंदाता वसु स्तुवते कीरये चित्
”“वीराय यज्ञादि कर्म्मसु दक्षाय ।” इतितद्भाष्ये सायणः
प्रेरयिता यथा, तत्रैव ।६ ६५ ।“इदा हि वो विधते रत्नमस्तीदावीराय दाशुष उषासः
”“वीराय प्रेरयित्रे ।” इति तद्भाष्ये सायणः
)