| YouTube Channel

वीजी (vIjI)

 
शब्दकल्पद्रुमः
Sanskrit
वीजी, [न्]
पुं,
(वीजमस्त्यस्येति वीज + इनिः ।)पिता इति हेमचन्द्रः
(यथा, उद्वाहतत्त्वे ।“अतएव द्वैतनिणयेऽपि सापिण्ड्यगणने वीजिन-मारभ्येत्युक्तम्
यथा गोतमसंहितायाम् ।४ ।“असमानप्रवरैर्व्विवाह ऊर्द्धं सप्तमात् पितृ-बन्धुभ्यो वीजिनश्च मातृबन्धुभ्यः पञ्चमात्
”)वीजविशिष्टे, त्रि
(यथा, मनौ ५१ ।“तथैवाक्षेत्त्रिणो वीजं परक्षेत्रप्रवापिणः ।कुर्व्वन्ति क्षेत्रिणामर्थं वीजी लभते फलम्
”)