| YouTube Channel

वीजवपनं (vIjavapanaM)

 
शब्दकल्पद्रुमः
Sanskrit
वीजवपनं,
क्ली,
(वीजानां वपनम् ।) क्षेत्रे वीजस्यक्षेपणम् तस्य दिनं दीपिकायाम् ।“पूर्व्वाग्नियाम्यफणिपित्र्यशिवान्यभेषुरिक्ताष्टमीविगतचन्द्रतिथिं विहाय ।द्व्यङ्गालिगोसमुदये विकुजार्किवारेशस्तेन्दुयोगकरणेषु हलप्रवाहः
”हलप्रवाहवद्वीजवपनस्य विधिः स्मृतः ।चित्रायाञ्च शुभे केन्द्रे स्थिरस्वमनुजोदये
हेमवारिविलिप्तस्य वीजस्योन्नयतः शुचिः ।इन्द्रं चित्ते निधायाथ स्वयं मुष्टित्रयं वपेत्
कृत्वा चान्योन्यप्रोत्साहं नर्त्तको हृष्टमानसः ।प्राङ्मुखः कलसं गृह्य इमं मन्त्रमुदोरयेत्
त्वं वै वसुन्धरे सीते बहुपुष्पफलप्रदे ।नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु
रोहन्तु सर्व्वशस्यानि काले देवः प्रवर्षतु ।कर्षकास्तु भवन्त्वग्र्या धान्येन धनेन चस्वाहा
उप्त्वा वीजन्तु तत्रैव भोक्तव्यं बान्धवैः सह ।वीजवपनं प्राजापत्यतीर्थेन यथा, हारीतः ।कनिष्ठायाः पश्चात् प्राजापत्यमावपनम् होम-तर्पणे प्राजापत्येन कुर्य्यादिति होमतर्पणेलाजहोमशनकादितर्पणे पराशरः ।“वैशाखे वपनं श्रेष्ठं मध्यमं रोहिणीरवौ ।अतः परस्मिन्नधमं जातु श्रावणे शुभम्
”ज्योतिषे ।“पूर्व्वभाद्रपदा मूलं रोहिण्युत्तरफल्गुनी ।विशाखा शतभिषा वाथ धान्यानां रोपणेवरा
सदोप्त्वा रजनीं नीलीं पुत्त्रवित्तैर्वियुज्यते ।स्वयंजाते पुनस्ते द्वे पालयन् नैव दुष्यति
आरामे गृहमध्ये वा मोहात् सर्षपमावपन् ।पराभवं रिपोर्याति ससाधनधनक्षयम्
निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता ।कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम्
”निशा हरिद्रा कोविदारको रक्तकाञ्चनः ।“हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोपयेत् ।वसुधेति सुशीतेति पुण्यदेति धरेति ।नमस्ते शुभगे नित्यं द्रुमोऽयं वर्द्धतामिति
”इति ज्योतिस्तत्त्वम्