| YouTube Channel

वीजपूरः (vIjapUraH)

 
शब्दकल्पद्रुमः
Sanskrit
वीजपूरः,
पुं,
(वीजानां पूरः समूहो यत्र ।) फल-पूरः इत्यमरः
टावा लेवु इति वङ्गभाषा
विजौरा इति हिन्दी भाषा
तत्पर्य्यायः ।वीजपूर्णः पूर्णवीजः सुकेशरः वीजकः ५केशराम्लः मातुलुङ्गः सुपूरकः रुचकः ९वीजफलकः १० जन्तुघ्नः ११ दन्तुरच्छदः १२पूरकः १३ रोचनफलः १४ अस्य फलगुणाः ।अम्लत्वम् कटुत्वम् उष्णत्वम् श्वासकास-पवनशमनत्वम् कण्ठशोधनकरत्वम् लघु-त्वम् हृद्यत्वम् दीपनत्वम् रुचिकारि-त्वम् पावनत्वम् आध्मानगुल्महृद्रोगप्लीहो-दावर्त्तनाशित्वम् विबन्धे हिक्कायां शूलेछर्द्द्याञ्च शस्यत्वञ्च इति राजनिर्घण्टः
*
अपि ।“वीजपूरफलं स्वादु रसेऽम्लं दीपनं लघु ।रक्तपित्तहरं कण्ठजिह्वाहृदयशोधकम् ।श्वासकासारुचिहरं हृद्यं तृष्णाहरं स्मृतम्
”तद्भेदमधुकर्क्कटी यथा, --“वीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्क्कटी ।मधुकर्क्कटिका स्वाद्वी रोचनी शीतला गुरुः ।रक्तपित्तक्षयश्वासकाशहिक्काभ्रमापहा
”इति भावप्रकाशः
(यथा, महाभारते १५८ ४२ ।“मुञ्जातकांस्तथा जीवान् दाडिमान् वीज-पूरकान्
”)