| YouTube Channel

वीजनं (vIjanaM)

 
शब्दकल्पद्रुमः
Sanskrit
वीजनं,
क्ली,
(वीज्यतेऽनेनेति वि + ईज + करणेल्युट् ।) व्यजनम् (यथा, आर्य्यासप्तशत्याम् ४५० ।“मलयजमपसार्य्य घनं वीजनविघ्नं विधायबाहुभ्याम्
स्मरसन्तापादगणितनिदाघमालिङ्गते मिथु-नम्
”)वस्तु कोके जीवञ्जीवे पुं इति सारस्वतः