| YouTube Channel

वीचीतरङ्गः (vIcItaraGgaH)

 
शब्दकल्पद्रुमः
Sanskrit
वीचीतरङ्गः,
पुं,
न्यायविशेषः तु श्रोत्रे शब्दस्यउत्पत्तिकारणरूपः यथा, --“वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता ।कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते
”इति भाषापरिच्छेदः
ननु मृदङ्गाद्यवच्छेदेनोत्पन्ने शब्दे श्रोत्रे कथमुत्-पत्तिरित्यत आह वीचीति आद्यशब्दस्यबहिर्दशदिगवच्छिन्नोऽन्यः शब्दस्तैनैव शब्देनजन्यते तेन चापरस्तद्व्यापक एवं क्रमेण श्रोत्रोत्-पन्नो गृह्यत इति कदम्ब इति आद्यशब्दाद्दश-दिक्षु दश शब्दा उत्पद्यन्ते तैश्चान्ये दश शब्दाउत्पद्यन्ते इति भावः अस्मिन् कल्पे गौरवा-द्युक्तं कस्यचिन्मते इति इति सिद्धान्तमुक्ता-वली