| YouTube Channel

विहीनः (vihInaH)

 
शब्दकल्पद्रुमः
Sanskrit
विहीनः, त्रि, (वि + हा + क्तः ।) विशेषेण हीनः ।यथा, तन्त्रसारे ।“षोढान्यासविहीनो यः प्रणमेद्देवि पार्व्वतीम् ।सोऽचिरान्मृत्युमाप्नोतिं नरकञ्च प्रपद्यते
”त्यक्तः यथा, --“विहीनश्च धनैर्दारै पुत्त्रैरादाय मे धनम् ।वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः
”इति मार्कण्डेयपुराणे देवीमाहात्म्यम्