| YouTube Channel

विहायः (vihAyaH)

 
Wordnet
Sanskrit
Synonyms:
नभः, गगनम्, आकाशः, अम्बरम्, अभ्रम्, द्योः, द्यौः, पुष्करम्, अन्तरीक्षम्, अन्तरिक्षम्, अनन्तम्, युरवर्त्मम्, खं, वियत्, विष्णुपदम्, विहायः, नाकः, अनङ्गः, नभसम्, मेघवेश्म, मबाविलम्, मरुद्वर्तम, मेघवर्त्म, त्रिविष्टपम्, अब्भं
noun
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
"विद्याधराः नभसि चरन्तिः।"
शब्दकल्पद्रुमः
Sanskrit
विहायः, [स्] क्ली
पुं,
आकाशः इत्यमरः
(यथा, साहित्यदर्पणे १० ।“कान्तायते स्पर्शसुखेन वारिवारीयते स्वच्छतया विहायः
”त्रि, महान् यथा, निरुक्ते १५ “विहा-यसस्तेभिरिन्द्रम् ।” “विहायसो महान्तः
”इति यास्कः
यथा निघण्टुटीकायाम् ।३ १२ “विहायाः वहिहाधाञ्भ्यश्छन्दसि ।उणा० २१५ इति जहातेर्जिहीतेर्व्वाबाहुलकात् षुगभावेऽपि युगागमो निपात्यते
”यथा, ऋग्वेदे ११ ।“तद्वाजी वाजंभरो विहायाः ।”“विहायाः महान् ।” इति तद्भाष्ये सायणः
)