| YouTube Channel

विहस्तः (vihastaH)

 
शब्दकल्पद्रुमः
Sanskrit
विहस्तः, त्रि, व्याकुलः इत्यमरः
(यथा, रघुः ४९ ।“रामापरित्राणविहस्तयोधंसेनानिवेशं तुमुलं चकार
”)पण्डितः इति मेदिनी
(यथा, हरिवंशे ।२३७ २८ ।“नानायुधविहस्तानां त्वरितानां प्रधावताम् ।क्ष्वेडितोत्क्रुष्टनिनदैर्गजबृंहितनिस्वनैः
”)विकरः (यथा, विख्यातविजये अङ्के ।“विगतरथविहस्तन्यस्तशस्त्रप्रमत्त-स्खलितगतिभयार्त्तान् नैव जातु प्रहर्त्ता
”)पण्डे, पुं इति शब्दरत्नावली