| YouTube Channel

विस्मितः (vismitaH)

 
शब्दकल्पद्रुमः
Sanskrit
विस्मितः, त्रि, (वि + स्मि + क्तः ।) विस्मयान्वितः ।यथा, --“महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः ।संपरिष्वजत व्यक्तं ते प्रणेमुर्म्महेश्वरम्
ततस्तदद्भुततमं दृष्ट्वा सर्व्वगणेश्वराः ।सुविस्मितास्तदा सन्तः किमिदं चिन्तयन्निति
विस्मितांस्तान् गणान् दृष्ट्वा शैलादिर्योगिनांवरः ।प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपः
विस्मितामी गणा देव सर्व्व एव महेश्वर ।महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम्
”इति वामने ६४ अध्यायः