| YouTube Channel

विसृष्टः (visRSTaH)

 
शब्दकल्पद्रुमः
Sanskrit
विसृष्टः, त्रि, (वि + सृज् + क्तः ।) निक्षिप्तः ।इति जटाधरः
(यथा, मृच्छकटिके अङ्के ।“उद्विग्नचक्रलकटाक्षविसृष्टदृष्टि-र्व्याधानुसारचकिता हरिणीव यासि
”)विशेषेण सृष्टश्च
(व्यक्तः यथा, भागवते ।१ १६ २४ ।“अन्तर्हितस्य स्मरती विसृष्टाकर्म्माणि निर्व्वाणविलम्बितानि
”प्रेषितः यथा, रघुः ३९ ।“आप्तः कुमारानयनोत्सुकेनभोजेन दूतो रघवे विसृष्टः
”पुं, विसर्गः विन्दुद्बयरूपः यथा, कातन्त्रे ।“रसकारयोर्व्विसृष्टः
”)