| YouTube Channel

विसूची (visUcI)

 
Monier Williams Cologne
English
वि-सूची w.r. for वि-ष्°.
शब्दकल्पद्रुमः
Sanskrit
विसूची,
स्त्री,
(विशेषेण सूचयति मृत्युमिति ।वि + सूच् + अच् स्त्रियां ङीष् यद्वा, विशिष्टासूचीव ।) अजीर्णरोगविशेषः ओलाउटाइति भाषा
तस्य निरुक्तिर्यथा, --“सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः ।यस्याजीर्णेन सा वैद्यैर्व्विसूचीति निगद्यते
”तस्या निदानमाह ।“न तां परिमिताहारा लभन्ते विदितागमाः ।मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः
”विदितागमा ज्ञातायुर्व्वेदाः
*
तस्या लक्षणमाह ।“मूर्च्छातिसारो वमथुः पिपासाशूलं भ्रमोद्वेष्टनजृम्भदाहाः ।वैवर्ण्यकम्पौ हृदये रुजश्चभवन्ति तस्यां शिरसश्च भेदः
”उद्वेष्टनं हस्तपादयोः शिरसो भेदः शिरः-शूलम्
*
तस्या उपद्रवानाह ।“निद्रानाशोऽरतिः कम्पो मूत्राघातो विसं-ज्ञता ।अमी उपद्रवा घोरा विसूच्याः पञ्च दारुणाः
”अमी उपद्रवा घोराः अमी निद्रानाशादवउपद्रवाः सर्व्वेषामेव रोगाणां घोरा भयङ्कराः ।विसूच्याः पञ्च दारुणाः विसूच्यास्तु पञ्चापियदि स्युस्तदा दारुणाः प्राणभयङ्कराः
*
तस्या अरिष्टमाह ।“यः श्यावदन्तौष्ठनखोऽल्पसंज्ञ-श्छर्द्द्यर्द्दितोऽभ्यन्तरयातनेत्रः ।क्षामस्वरः सर्व्वविमुक्तसन्धि-र्यायान्नरः सोऽपुनरागमाय
”सर्व्वविमुक्तसन्धिः सर्व्वे विमुक्ताः शिथिलीभूताःसन्धयो यस्य सः
इति भावप्रकाशः
*
अस्याश्चिकित्सा अजीर्णशब्दे द्रष्टव्या