| YouTube Channel

विषॢ (viSlR)

 
धातुप्रदीपः
Sanskrit
विषॢँ विषॢँ व्याप्तौ
- वेवेष्टि वेविष्टे वेविष्टः वेविषाते वेविषति वेविषते वेवेष्टु वेविष्टाम् वेवेषाणि वेविषै वेष्टा अविक्षत अविषत् विषम् वेषः वेष्यो नटः परिवेषः विष्णुः 13
क्षीरतरङ्गिणी
Sanskrit
विषॢँ विषॢँ व्याप्तौ
- वेवेष्टि अविषत् (द्र0 3155) उदिदित्येके-अविक्षत्, विष्ट्वा वेषित्वा (द्र0 7256) परिवेषः विषेर्व्याप्तिकर्मणि कः (तु0 दशः उ0 920)-विषम् विषेः किन्नुश्च द्र0 उ0 339) विष्णुः घञ् (द्र0 उ0 3319) वेषो नेपथ्यम् 13
धातुवृत्तिः
Sanskrit
विषॢँ विषॢ (अर्थः) व्याप्तौ
( वेवेष्टि, वेविष्टः ) इत्यादि निजिवत् "ष्टुना ष्टुः'' ( वेक्ष्यति ) "षढोः कस्सि'' (वेविढ्ढि) ष्टुत्वे जश्त्वं डकारः ( अवेवेट् ) "झलां जशोऽन्ते'' इति जश्त्वे चर्त्वं ( अविषद् ) इत्यादावतङि लृदित्त्वान्नित्यमङ् तङि तु "शल इगुधादनिटःक्सः, '' अजादौ "क्सस्याचि'' इत्यल्लोपः, ( अविक्षत, अविक्षाताम् अविक्षत ) इत्यादि विष्यन्ते व्याप्यन्तेऽनेन प्रेक्षकाणां मनांसीति ( वेषः ) "हलश्च'' इति संज्ञायां घञ् वेषेण सम्पादी ( वेष्यो ) नटः, ( वेष्या वेश्या ) "कर्मवेषाद्यत्'' इति सम्पादिनि यत् सम्पत्तिः-शोभातिशयः ( परिवेषः ) परिधिः वेषवद्धञ् वेवेष्टीति ( विषम्, ) इगुपधलक्षणः कः, विषमर्हतीति ( विष्यः ) दण्डादित्वाद्यत् ( विष्णुः ) "विषेः किच्च'' इति णुप्रत्ययः 13
कृदन्तरूपमाला
Sanskrit
1 {@“विषॢ व्याप्तौ”@} 2 ‘व्याप्तौ वेवेष्टि वेविष्टे…।।’ 3 इति देवः।
‘विषृ--’ इति काशकृत्स्नः।
तत्र ‘विषॢ इति कातन्त्रे पाठः’ इति तत्रोक्तम्।
“उदिदित्येके।
इरिदिति द्रुमे” इति धा।
का।
व्याख्या 4।
वेष्टा, विष्टवान्, विष्टः, वेषन्, वेषकः इत्येते व्यापकेऽर्थे।
वेषः, विष्टम्, वेषणीयम्, वेष्यम्, वैष्यम्, वेष्टव्यम्, वेषणं, विष्टिः इत्यष्टौ आवरणार्थे।
5 वेषकः-षिका, वेषकः-षिका, 6 विविक्षकः-क्षिका, वेविषकः-षिका
वेष्टा-ष्ट्री, वेषयिता-त्री, विविक्षिता-त्री, वेविषिता-त्री
7 वेविषत्-ती, वेषयन्-न्ती, विविक्षन्-न्ती
-- वेक्ष्यन्-न्ती-ती, वेषयिष्यन्-न्ती-ती, विविक्षिष्यन्-न्ती-ती
-- वेविषाणः, वेषयमाणः, विविक्षमाणः, वेविषमाणः
वेक्ष्यमाणः, वेषयिष्यमाणः, विविक्षिष्यमाणः, वेविषिष्यमाणः
विट्-विषौ-विषः, वेट्-वेषौ-वेषः
-- -- विष्टम्-विष्टः-विष्टवान्, 8 आविष्टलिङ्गम्, वेषितम्-तः, विविक्षितः, वेविषितः-तवान्
इत्यादिकानि रूपाणि सर्वाण्यपि जौहोत्यादिकणिजिर्धातुवत् 9 ऊह्यानि।
10 विष्टिः, 11 विष्णुः, 12 वेष्पम्, 13 वैष्ट्रः, 14 विषम्।
इमानि औणादिकनिष्पन्न- रूपाणीति ज्ञेयानि।
15 विषयम् = आवरणम्।
विषयो = देशः।
16
प्रासङ्गिक्यः
01
=>
(१६१५)
02
=>
(३-जुहोत्यादिः-१०९५। अक। अनि। उभ।)
03
=>
(श्लो। १७४)
04
=>
(२-५५)
05
=>
[पृष्ठम्१२४३+ २८]
06
=>
[[१। सन्नन्तात् ण्वुलि, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे ‘इण्कोः’ (८-३-५७) इति सकारस्य षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[२। ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लौ, ‘श्लौ’ (६-१-१०) इति द्वित्वे, ‘निजां त्रयाणां गुणः श्लौ’ (७-४-७५) इति अभ्यासस्य गुणे, ‘नाभ्यस्ताच्छतुः’ (७-१-८०) इति नुम्निषेधे रूपमेवम्। एवं वेविषाणः इत्यत्रापि गुणो ज्ञेयः। अनिट्कारिकायां विषिग्रहणेन जौहोत्यादिकोऽयं गृह्यते इति न्यासे।]]
08
=>
[[३। ‘आविष्टलिङ्गा जातिर्यल्लिङ्गमुपादाय प्रवर्तते उत्पत्तिप्रभृति आविनाशान्न तं लिङ्गं जहाति’ इति महाभाष्यवचनं (१-२-५२) अत्र द्रष्टव्यम्।]]
09
=>
(६७३)
10
=>
[[४। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्।]]
11
=>
[[५। ‘विषेः किच्च’ (द। उ। १-१४९) इति णुप्रत्ययः किच्च भवति। वेवेष्टि कृत्स्नमिति विष्णुः = सर्वव्यापी भगवान्।]]
12
=>
[[६। ‘पानीविषिभ्यः पः’ (द। उ। ७-२) इति पप्रत्यये रूपम्। वेष्पम् = परमात्मा।]]
13
=>
[[७। औणादिके (द। उ। ८-८०) ष्ट्रन्प्रत्यये रूपमेवम्। वैष्ट्रः = विष्णुः वायुश्च इति।]]
14
=>
[[८। व्याप्तिकर्मणि गम्यमाने औणादिकः (द। उ। ९। २०) कन्प्रत्ययो भवति। विषम् = प्राणहरद्रव्यम् इत्यर्थः। जलार्थको विषशब्दो वेदे प्रयुज्यते। द्रष्टव्या निघण्टुः (१-१२)।]]
15
=>
[[९। बाहुलकात् औणादिके (द। उ। १-१२) कयन्प्रत्यये रूपमेवम्।]]
16
=>
[पृष्ठम्१२४४+ ३१]