| YouTube Channel

विष्णुयशाः (viSNuyazAH)

 
शब्दकल्पद्रुमः
Sanskrit
विष्णुयशाः, [स्]
पुं,
(विष्णु व्यापकं यशो यस्य ।नारायणपितृत्वादेवास्य तथात्वम् यद्वा, विष्णुना ग्रहीतव्यजन्मना यशो यस्य ।) ब्रह्म-यशःपुत्त्रः कल्किपिता यथा, --नारद उवाच ।“अहो बलवती माया सर्व्वाश्चर्य्यमयी शुभा ।पितरं मातरं विष्णोर्नैव मुञ्चति कर्हिचित्
पूर्णो नारायणो यस्य सुतः कल्किर्जगत्पतिः ।तं विहाय विष्णुयशा मत्तो मुक्तिमभीप्सति
विविच्येत्थं ब्रह्मसुतः प्राह ब्रह्मयशःसुतम् ।विविक्ते विष्णुयशसं ब्रह्मसम्पद्विवर्द्धनम्
”इति कल्किपुराणे ३० अध्यायः