| YouTube Channel

विष्णुमाया (viSNumAyA)

 
Monier Williams Cologne
English
विष्णु—माया
f.
‘V°'s illusion’, a form of Durgā,
KālP.
शब्दकल्पद्रुमः
Sanskrit
विष्णुमाया,
स्त्री,
(विष्णोर्माया ।) दुर्गा यथा, --नारद उवाच ।“दुर्गा नारायणीशाना विष्णुमाया शिवा सती ।नित्या सत्या भगवती सर्व्वाणी सर्व्वमङ्गला
अम्बिका वैष्णवी गौरी पार्व्वती सनातनी ।नामानि कौथुमोक्तानि शुभानि शुभदानि
अर्थं षोडशनाम्नाञ्च सर्व्वेषामीप्सितं वरम् ।ब्रूहि वेदविदां श्रेष्ठ वेदोक्तं सर्व्वसम्मतम्
नारायण उवाच ।सृष्ट्वा मायां पुरा सृष्टौ विष्णुना परमात्मना ।मोहितं मायया विश्वं विष्णुमाया चकीर्त्तिता
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः
अपि ।ब्रह्मोवाच ।“विष्णुमायामृते दक्ष महामायां जगन्मयीम् ।नान्या संमोहकर्त्री स्यात् सन्ध्या सावित्र्यु-पासिका
तस्मादहं विष्णुमायां योगनिद्रां जगत्प्रसूम् ।स्तौमि सा चारुरूपेण शङ्करं मोहयिष्यति
भवांश्च दक्ष तामेव यजतां विश्वरूपिणीम् ।यथा तव सुता भूत्वा हरजाया भविष्यति
”इति कालिकापुराणे अध्यायः
वाचस्पत्यम्
Sanskrit
विष्णुमाया स्त्री त० विष्णोः परमेश्वरस्य माया अघ-टनघटनपटीयस्याम् ईशस्याविद्याशक्तौ तदधिष्ठात्य्रांदुर्गायाञ्च