| YouTube Channel

विष्णुभक्ति (viSNubhakti)

 
Monier Williams Cologne
English
विष्णु—भक्ति
f.
the worship of (personified as a Yoginī),
Prab.
शब्दकल्पद्रुमः
Sanskrit
विष्णुभक्तिः,
स्त्री,
(विष्णौ भक्तिः ।) भगवत्सेवा ।यथा, --सूत उवाच ।“विष्णुभक्तिं प्रवक्ष्यामि यया सर्व्वमवाप्यते ।यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित्
महतः श्रेयसो मूलं प्रवसः पुण्यसन्ततेः ।जीवितस्य फलं स्वादु ददाति स्मरणं हरेः
भज इत्येष वै धातुः सेवायां परिकीर्त्तितः ।तस्मात् सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी
ते भक्ता लोकनाथस्य नामकर्म्मादिकीर्त्तने ।मुञ्चन्त्यश्रूणि संहर्षात् ये हृष्टतनूरुहाः
जगद्धातुर्म्महेशस्य दिव्याज्ञा चरणाव्ययाः ।इह नित्यक्रियाः कुर्य्युः स्निग्धा ये वैष्णवास्तु ते
प्रणामपूर्व्वकं क्षान्त्या यो वदेद्वैष्णवो हि सः ।तद्भक्तजनवात्सल्यम्पूजायाञ्चानुमोदनम् ।तत्कथाश्रवणे प्रीतिः स्वरनेत्राङ्गविक्रिया
येन सर्व्वात्मना विष्णौ भक्त्या भावो निवेशितः ।विप्रेष्वीश्वरदृष्टिश्च महाभागवतो हि सः
विष्णोश्च कारणं नित्यं तदन्नं दम्भवर्जितम् ।स्वयमभ्यर्च्चनञ्चैव यो विष्णुं चोपजीवति
भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्त्तते
विप्रेन्द्रो मुनिः श्रीमान्सजातः पण्डितः ।तस्मै देयं ततो ग्राह्यं पूज्यो यथा हरिः
स्मृतः संभाषितोऽद्यापि पूजितो वा द्बिजोत्तमः ।पुनाति भगवद्भक्तस्तपसोऽपि यदृच्छया
प्रणताय प्रपन्नाय तवास्मीति यो वदेत् ।अभयं सर्व्वभूतेभ्यो दद्यादेतद्व्रतं हरेः
मन्त्रयाजिसहस्रेभ्यः सर्व्ववेदान्तपारगाः ।सर्व्ववेदान्तवित् कोट्या विष्णुभक्तो विशिष्यते ।ऐकान्तिकाश्च पुरुषा गच्छन्ति परमं पदम्
एकान्तेनासमो विष्णुर्यस्मादेषां परायणः ।तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः
प्रियाणामपि सर्व्वेवां देवदेवस्य सुप्रियः ।आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पतु
अन्तर्गतोऽपि वेदानां सर्व्वशास्त्रार्थवेद्यपि ।यो सर्व्वेश्वरे भक्तस्तं विद्यात् पुरुषाधमम्
नाधीतवेदशास्त्रोऽपि कृताध्वरसंस्तरः ।यो भक्तिं वहते विष्णौ तेन सर्व्वं कृतं भवेत्
यज्ञानां क्रतुमुख्यानां सर्व्वेषां पारगा अपि ।न तां यान्ति गतिं भक्त्या यां यान्ति मुनिसत्तम
यः कश्चिद्बैष्णवो लोके मिथ्याचारोऽप्यनाश्रमी ।पुतानि सकलान् लोकान् सहस्रांशुरिबोदितः
ये नृशंसा दुरात्मानः पापाचाररतास्तथा ।तेऽपि यान्ति परं स्थानं नारायणपरायणाः
दृढा जनार्द्दने भक्तिर्यदैवाव्यभिचारिणी ।तदा कियत् स्वर्गसुखं सैव निर्व्वाणहैतुकी
भ्राम्यतां तत्र संसारे नराणां कर्म्मदुर्गमे ।हस्तावलम्बनो ह्येको भक्तितुष्टो जनाद्दनः
शृणोति गुणान् दिव्यान् देवदेवस्य चक्रिणः ।स नरो वधिरो ज्ञेयः सर्व्वधर्म्मबहिष्कृतः
नाम्नि संकीर्त्तिते विष्णोर्यस्य पुंसो जायते ।शरीरं पुलकोद्भासि तद्भवेत् कुणपोपमम्
यस्मिन् स्मृते द्विजश्रेष्ठ मुक्तिरप्यचिराद्भवेत् ।विष्णौ निविष्टमनसां किं पुनर्वृजिनक्षयः
स्वपुरुषमभिबीक्ष्य पाशहस्तंवदति यमः किल तस्य कर्णमूले ।परिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणां वैष्णवानाम्
अपि चेत् सुदुराचारो भजते मामनन्यभाक् ।साधुरेव मन्तव्यः सम्यग्व्यवसितो हि सः
क्षिप्रं भवति धर्म्मात्मा शश्वच्छान्तिं नियच्छति ।विप्रेन्द्र प्रतिजानीहि विष्णुभक्तो नश्यति
धर्म्मार्थकामैः किन्तस्य मुक्तिस्तस्य करे स्थिता ।समस्तजगतां मूले यस्य भक्तिः स्थिरा हरौ
दैवी ह्येषा गुणमयी हरेर्म्माया दुरत्यया ।तमेव ये प्रपद्यन्ते मायामेतां तरन्ति ते
कियदाराधने पुंसामिष्यते हरिमेधसः ।भक्त्यैवाराध्यते विष्णुर्नान्यत्तत्तोषकारणम्
दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः ।तोषमेति महात्मासौ यथा भक्त्या जनार्द्दनः
संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे ।कदाचित् केशवे भक्तिस्तद्भक्तैर्व्वा समागमः
पत्रेषु पुष्पेषु फलेषु तोये-ष्वकष्टलभ्येषु सदैव सत्सु ।भक्त्यैकलभ्ये पुरुषे पुराणेमुक्त्यै कथं क्रियते प्रयत्नः
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।वैष्णवोऽस्मत्कुले जातः नः सन्तारयिष्यति
अज्ञानिनः सुरवरं समधिक्षिपन्तिये पापिनोऽपि शिशुपालसुयोधनाद्याः ।मुक्तिं गताः स्मरणमात्रविधूतपापाःकः संशयः परमभक्तिमतां जनानाम्
शरणं तं प्रपन्ना ये ध्यानयोगविवर्ज्जिताः ।तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्
भवोद्भवक्लेशशताहतस्तथापरिभ्रमन्निन्द्रियबन्धकैः पथैः ।नियम्यतां माधव मे मनोहय-स्त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने
विष्णुरेव परं ब्रह्म ह्यभेदमिह पठ्यते ।वेदसिद्धान्तमार्गेषु तं जानन्ति मोहिताः
वसति हृदि सनातने तस्मिन्भवति पुमान् जगतोऽस्य सौम्यरूपः ।क्षितिवसनमतिरम्यमात्मनोऽन्तःकथयति चारुतयैव मानपतेः
”इति गारुडे २३१ अध्यायः