| YouTube Channel

विष्णुपदी (viSNupadI)

 
Spoken Sanskrit
English
विष्णुपदी viSNupadI
f.
sun's passage
Monier Williams Cologne
English
विष्णु—पदी (ई),
f.
the sun's passage (into the zodiacal signs of Taurus, Leo, Scorpio and Aquarius),
Tithyād.
N.
of the Ganges (as issuing from V°'s foot),
MBh.
Hariv.
R.
&c.
of the town Dvārikā,
L.
Apte Hindi
Hindi
विष्णुपदी
स्त्री*
विष्णुः-पदी -
गंगा का विशेषण
L R Vaidya
English
vizRu-padI {% f. %} an epithet of Ganges.
Wordnet
Sanskrit
Synonyms:
गङ्गा, मन्दाकिनी, जाह्नवी, पुण्या, अलकनन्दा, विष्णुपदी, जह्नुतनया, सुरनिम्नगा, भागीरथी, त्रिपथगा, तिस्त्रोताः, भीष्मसूः, अर्घ्यतीर्थम्, तीर्थरीजः, त्रिदशदीर्घिका, कुमारसूः, सरिद्वरा, सिद्धापगा, स्वरापगा, स्वर्ग्यापगा, खापगा, ऋषिकुल्या, हैमव्रती, सर्वापी, हरशेखरा, सुरापगा, धर्मद्रवी, सुधा, जह्नुकन्या, गान्दिनी, रुद्रशेखरा, नन्दिनी, सितसिन्धुः, अध्वगा, उग्रशेखरा, सिद्धसिन्धुः, स्वर्गसरीद्वरा, समुद्रसुभगा, स्वर्नदी, सुरदीर्घिका, सुरनदी, स्वर्धुनी, ज्येष्ठा, जह्नुसुता, भीष्मजननी, शुभ्रा, शैलेन्द्रजा, भवायना, महानदी, शैलपुत्री, सिता, भुवनपावनी, शैलपुत्री
noun
भारतदेशस्थाः प्रधाना नदी या हिन्दुधर्मानुसारेण मोक्षदायिनी अस्ति इति मन्यन्ते।
"धर्मग्रन्थाः कथयन्ति राज्ञा भगीरथेन स्वर्गात् गङ्गा आनीता। "
अभिधानचिन्तामणिः
Sanskrit
--source--
गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका
त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः १०८१
सरिद्वरा विष्णुपदी सिद्धस्वःस्वर्गिखापगा
ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा १०८२
-wordlist-
गङ्गा (स्त्री), त्रिपथगा (स्त्री), भागीरथी (स्त्री), त्रिदशदीर्घिका (स्त्री), त्रिस्रोतस् (स्त्री), जाह्नवी (स्त्री), मन्दाकिनी (स्त्री), भीष्मकुमारसू (स्त्री), सरिद्वरा (स्त्री), विष्णुपदी (स्त्री), सिद्धापगा (स्त्री), स्वरापगा (स्त्री), स्वर्ग्यापगा (स्त्री), खापगा (स्त्री), ऋषिकुल्या (स्त्री), हैमवती (स्त्री), स्वर्वापी (स्त्री), हरशेखरा (स्त्री)
अभिधानरत्नमाला
Sanskrit
भागीरथी
भागीरथी, सुरसरित्, विष्णुपदी, जाह्नवी, गङ्गा, मन्दाकिनी, त्रिपथगा, सरिद्वरा, त्रिदशदीर्घिका
भागीरथी सुरसरिद्विष्णुपदी जाह्नवी तथा गङ्गा
मन्दाकिनी त्रिपथगा सरिद्वरा त्रिदशदीर्घिका प्रोक्ता ६७३
verse 3.1.1.673
page 0077
Mahabharata
English
Vishṇupadī = Gaṅgā: XIII, †1851 (Jāhnavīṃ).
शब्दकल्पद्रुमः
Sanskrit
विष्णुपदी,
स्त्री,
(विष्णोः पदं स्थानं यस्याः ।गौरादित्वात् ङीष् ।) गङ्गा इत्यमरः
(यथा, भागवते १९ ।“इति व्यवच्छिद्य पाण्डवेयःप्रायोपवेशं प्रति विष्णुपद्याम् ।दध्यौ मुकुन्दाङ्घ्रिमनन्यभावोमुनिव्रतो मुक्तसमस्तसङ्गः
”)अस्याः कारणं यथा, --नारद उवाच ।“कलेः पञ्चसहस्राब्दे समतीते सुरेश्वरी ।क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि
नारायण उवाच ।गङ्गा सरस्वती लक्ष्मीश्चैतास्तिस्रो हरेः प्रियाः ।तुलसीसहिता ब्रह्मन् चतस्रः कीर्त्तिताः श्रुतौ
नारद उवाच ।बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया ।अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि
नारायण उवाच ।पुरा बभूव गोलोके गङ्गा सा द्रवरूपिणी ।राधाकृष्णाङ्गसंभूता तदंशा तत्स्वरूपिणी
द्रवाधिष्ठातृदेवी सा रूपेणाप्रतिमा भुवि ।सा सकामा कृष्णपार्श्वे समुवास सलज्जिता
प्रफुल्लवदना हर्षान्नवसङ्गमलालसा ।मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा
एतस्मिन्नन्तरे तत्र विद्यमाना राधिका ।गोपीत्रिंशत्कोटिवृता कोटिचन्द्रसमप्रभा
कोपेन रक्तपद्मास्या रक्तपङ्कजलोचना ।सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा
ताञ्च दृष्ट्वा समुत्तस्थौ कृष्णः सादरपूर्व्वकम् ।उत्थाय गङ्गा सहसा सम्भाषाञ्च चकार सा
कुशलं परिपप्रच्छ भीतातिविनयेन ।ध्यानेन शरणापन्ना श्रीकृष्णचरणाम्बुजे
तद्धृत्पद्मस्थितो विष्णुर्भीतायै चाभयं ददौ ।बभूव स्थिरचित्ता सा सर्व्वेश्वरवरेण
ऊर्द्ध्वसिंहासनस्थाञ्च राधां गङ्गा ददर्श सा ।एतस्मिन्नन्तरे राधा जगदीशमुवाच सा
केयं प्राणेश कल्याणी सस्मिता तन्मुखाम्बुजम् ।पश्यन्ती सस्मितं पार्श्वे सकामा बक्रलोचना
त्वञ्चापीमां सन्निरीक्ष्य सकामः सस्मितः सदा ।मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी
त्वमेवैवञ्च दुर्वृत्तं वारंवारं करोषि ।क्षमां करोमि प्रेम्णा स्त्रीजातिः स्निग्ध-मानसा
संगृह्येमां प्रियामिष्टां गोलोकाद्गच्छ लम्पट ।अन्यथा हि ते भद्रं भविष्यति व्रजेश्वर
इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना ।गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ।गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी ।तिरोभूय सभामध्यात् स्वजलं प्रविवेश सा
राधा योगेन विज्ञाय सर्व्वत्रावस्थिताञ्च ताम् ।पानं कर्त्तुं समारेभे गण्डूषात् सिद्धयोगिनी
गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी ।श्रीकृष्णचरणाम्भोजं विवेश शरणं ययौ
गोलोकञ्चैव वैकुण्ठं ब्रह्मलोकादिकं तथा ।ददर्श राधा सर्व्वत्र नैव गङ्गां ददर्श सा
ब्रह्मविष्णुशिवानन्तधर्म्मेन्द्रेन्दुदिवाकराः ।मनवो मुनयः सर्व्वे देवाः सिद्धास्तपस्विनः
गोलोकञ्च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः ।सर्व्वे प्रणेमुर्गोविन्दं सर्व्वेशं प्रकृतेः परम् ।विज्ञाय तदभिप्रायं तानुवाच सुरेश्वरः
श्रीभगवानुवाच ।आगताः सुमहाभागा गङ्गानयनकारणात् ।गङ्गा मच्चरणाम्भोजे भयेन शरणं गता
राधेमां पातुमिच्छन्ती दृष्ट्वा मां सन्निधानतः ।दास्यामीमां बहिष्कृत्य यूयं कुरुत निर्भयाम्
श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः ।तुष्टाव सर्व्वाराध्यां तां राधां श्रीकृष्णपूजिताम्
वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः ।धाता चतुर्णां वेदानामुवाच चतुराननः
गङ्गा त्वदङ्गसंभूता प्रभोश्च रासमण्डले ।युवयोर्द्रवरूपा सा मुग्धयोः शङ्करस्वरात्
कृष्णांशा त्वदंशा त्वत्कन्यासदृशी प्रिया ।त्वन्मन्त्रग्रहणं कृत्वा करोतु पूजनं तव
भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः ।ब्रह्मणो वचनं श्रुत्वा स्वीचकार सस्मिता
बहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः ।तत्रैव संवृता शान्ता तस्थौ तेषाञ्च मध्यतः
उवास तोयादुत्थाय तदधिष्ठातृदेवता ।तत्तोयं ब्रह्मणा किञ्चित् स्थापितञ्च कमण्डलौ
किञ्चिद्दधार शिरसि चन्द्रार्द्धे चन्द्रशेखरः ।गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः
गङ्गा तामेव संपूज्य वैकुण्ठं प्रययौ सती ।गोलोके स्थिता गङ्गा वैकुण्ठे शिवलोकके
ब्रह्मलोके तथान्यत्र यत्र तत्र पुरा स्थिता ।तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः
निर्गता विष्णुपादाब्जात् तेन विष्णुपदी स्मृता
”इति श्रीब्रह्मवैवर्त्ते प्रकृतिखण्डे गङ्गोपाख्यानं ९अध्यायः
*
वृषवृश्चिकसिंहकुम्भसंक्रान्तयः ।यथा, भविष्यमात्स्वज्योतिषेषु ।“धनुर्मिथुनकन्यासु मीने षडशीतयः ।वृषवृश्चिककुम्भेषु सिंहे विष्णुपदी स्मृता
”अपि ।“एवञ्च षडशीत्यादिष्ववकाशमलभमानम् ।अर्व्वाक् षोडश विज्ञेया नाड्यः पश्चाच्च षोडश
कालः पुण्योऽर्कसंक्रान्तेर्विद्वद्भिः परिकीर्त्तितः
”इति शातातपीयं दिवा विष्णुपदीविषयम्
अतएव जावालीबृहद्बशिष्ठौ ।“पुण्यायां विष्णुपद्याञ्च प्राक् पश्चादपि षोडश ।”तत्र स्नानादिफलम् ।“अयने कोटिगुणितं लक्षं विष्णुपदीषु ।षडशीतिसहस्रन्तु षडशीत्यामुदाहृतम्
”इति तिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
विष्णुपदी स्त्री० विष्णुपदं कारणत्वेनास्त्यस्याः अच् गौरा०ङीष् गङ्गायाम् “निर्गता विष्णुपादाब्जात् तेनविष्णुपदी स्मृता” ब्रह्मवै० प्र० अ० वृषसिंहवृश्चिक-कुम्भराशौ रवेः संक्रान्तौ “वृषवृश्चिककुम्भेषु सिहेविष्णुपदी स्मृता” “पुण्यायां विष्णुपद्याञ्च प्राक्पश्चादपिषोडश” ज्यो० त० “अयने कोटिगुणितं लक्षं विष्णुपदोषुच” ति० त० “तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः ।नैरन्तर्यात् तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्” सू० सि० ।“तदन्तरेषु विषुवायनान्तरालेषु अत्रान्तरालानां चतुः-स्थाने सद्भावाद् बहुवचनम् संक्रान्तिद्वितयं द्वितयंपुनाराश्यादिभागे ग्रहाणामाक्रमणं वारद्वयं भवतितदन्तराले राश्यादिभागौ द्वौ भवत इत्यर्थः तथा हिमेषाख्यविषुवकर्काख्यायनयोरन्तराले वृषमिथुनयोरादी ।कर्कतुलयोरन्तराले सिंहकन्ययोरादी तुलामकरयोर-न्तराले वृश्चिकधनुषोरादी मकरमेषयोरन्तराले कुम्भ-मीनयोरादी इति एव विषुवानन्तरं संक्रमणद्वयमन-न्तरमयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमन-न्तरं संक्रान्तिद्वयमनन्तरमयनमित्यादि पौनःपुन्येनज्ञेयमित्यर्थः संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेष-माह नैरन्तर्यादिति निरन्तरतया सम्भूतायाःसंक्रान्तेः सकाशाद्विष्णुपदीद्वयं तदन्तराल इत्यर्थः” रङ्ग०