| YouTube Channel

विष्णुपदं (viSNupadaM)

 
शब्दकल्पद्रुमः
Sanskrit
विष्णुपदं,
क्ली,
(विष्णोः पदम् ।) आकाशम् ।इत्यमरः
(यथा, रघुवंशे १६ २८ ।“वसुन्धराविष्णु पदं द्वितीय-मध्यारुरोहेव रजश्छलेन
”)क्षीरोदः इति मेदिनी
पद्मम् इति हेम-चन्द्रः
(तीर्थविशेषः यथा, महाभारते ।७ ८३ ९५ ।“तत्र विष्णुपदे स्नात्वा अर्च्चयित्वा वामनम् ।सर्व्वपापविशुद्धात्मा विष्णुलोकं गच्छति
”कैलासपर्व्वतस्य स्थानविशेषः यथा, महा-भारते १११ २२ ।“अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम्
”पर्व्वतविशेषः यथा, हरिवंशे ३१ ४३ ।“तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ
”)विष्णोः स्थानम् यथा, “अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः ।यत्र गत्वा शोचन्ति तद्विष्णोः परमं पदम्
धर्म्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः ।तत्सार्ष्ट्योत्पन्नयोगेद्धास्तद्विष्णोः परमं पदम्
यत्रैतदोतं प्रोतं यद्भूतं सचराचरम् ।भाव्यञ्च विश्वं मैत्रेय तद्विष्णोः परमं पदम्
दिवीव चक्षुराततं विततं तन्महात्मनाम् ।विवेकज्ञानवृद्धञ्च तद्धि विष्णोः परं पदम्
”इति विष्णुपुराणे अंशे अध्यायः
भ्रूमध्यम् यथा, --“अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि ।आसन्नमृत्युर्नो पश्येच्चतुर्थं मातृमण्डलम्
अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते ।विष्णोः पदानि भ्रूमध्ये नेत्रयोर्म्मातृमण्डलम्
”इति काशीखण्डे ४२ अध्याये १३ १४ श्लोकौ