| YouTube Channel

विष्णुपञ्जरं (viSNupaJjaraM)

 
शब्दकल्पद्रुमः
Sanskrit
विष्णुपञ्जरं,
क्ली,
(विष्णुरेव पञ्जरमिव यस्मिन् ।तद्धारयितुर्निर्भयरक्षणकारित्वादस्य तथात्वम् ।)विष्णु कंवचविशेषः यथा, --“प्रवक्ष्याम्यधुना त्वेतद्बैष्णवं पञ्जरं शुभम् ।नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम्
प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ।गदां कौमोदकीं गृह्य पद्मनाभामितद्युते
याम्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ।हलमादाय सौनन्दं नमस्ते पुरुषोत्तम ।प्रतीच्यां रक्ष मां विष्णो भवन्तं शरणागतम्
पाञ्चजन्यं तथा शङ्खं शार्ङ्गञ्चाप्यथ पङ्कजम् ।प्रगृह्य रक्ष मां विष्णो आग्नेय्यां यज्ञशूकर
चर्म्म सूर्य्यशतं गृह्य खड्गं चन्द्रसमं तथा ।नैरृत्यां माञ्च रक्षस्व दिव्यमूर्त्ते नृकेशरिन्
वैजयन्तीं प्रगृह्य त्वं श्रीवत्स्यकण्ठभूषण ।वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते
वैनतेयं समारुह्य अन्तरीक्षे जनार्द्दन ।मां त्वं रक्षाजित सदा नमस्तेऽस्त्वपराजित
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ।अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते
करशीर्षाङ्घ्रिसर्व्वेषु तथाष्टभुजपञ्जरम् ।कृत्वा त्वं रक्ष मां देव नमस्ते पुरुषोत्तम
एतदुक्तं भगवता वैष्णवं पञ्जरं महत् ।पुरा रक्षार्थमीशेन कात्यायन्या द्बिजोत्तम
यदा सा नाशयामास दानवं महिषासुरम् ।चामरं रक्तबीजञ्च तथान्यान् सुरकण्टकान्
”इति वामने १७ अध्यायः